ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् । इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते, न वेति विचार्यते । ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितम् एकरसं सैन्धवघनवत् अवधारितम् । तत्र कुतो विज्ञानभेदाभेदचिन्तावसरः ? न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् , ब्रह्मण एकत्वात् एकरूपत्वाच्च । न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि सम्भवन्ति । न हि अन्यथा अर्थः अन्यथा ज्ञानम् — इत्यभ्रान्तं भवति । यदि पुनः एकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रतिपिपादयिषितानि, तेषाम् एकमभ्रान्तम् , भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु । तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते । नाप्यस्य चोदनाद्यविशेषादभेद उच्येत, ब्रह्मविज्ञानस्य अचोदनालक्षणत्वात् । अविधिप्रधानैर्हि वस्तुपर्यवसायिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४) इत्यत्र । तत्कथमिमां भेदाभेदचिन्तामारभत इति ॥

तात्त्विकमतात्त्विकं च ब्रह्मणो रूपमुक्त्वा तद्धियां प्रतिवेदान्तं प्रतीतानां नामाद्यभेदादभेदमाह -

सर्ववेदान्तेति ।

पूर्वोत्तरपादयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -

व्याख्यातमिति ।

ज्ञेये ब्रह्मण्युक्ते तज्ज्ञानं किंरूपमित्यपेक्षायां तद्विचारायोत्तरपादप्रवृत्तिरित्याह -

इदानीमिति ।

पदार्थयोः शोधनानन्तरमपुनरुक्तापेक्षितपदपदार्थोपसंहारेण सगुणनिर्गुणवाक्यानामर्थो निर्धार्यते । तत्र सगुणविद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात्पदार्थोपसंहरेण वाक्यार्थज्ञानार्थत्वाच्च सगुणवाक्यार्थचिन्तार्थवती निर्गुणचिन्ता तु तद्धीद्वारा मुक्तिहेतुरित्यर्थः ।

निरुपाधिकं ब्रह्मज्ञानं विचार्यत्वेनोक्तमिति मत्वा पादारम्भमाक्षिपति -

नन्विति ।

अवयवभेदाभावात्तन्निमित्तो ज्ञानभेदो न सम्भवतीत्याह -

पूर्वेति ।

स्वभावभेदाभावात्तत्कृतोऽपि ज्ञानभेदो नास्तीत्याह -

एकरसमिति ।

ज्ञेयस्य ब्रह्मणः सर्वप्रकारभेदाभावे फलितमाह -

तत्रेति ।

वेदान्तानां शक्तितात्पर्यालोचनायामपि नेयं चिन्तेत्याह -

नहीति ।

एकस्यापि पिता पुत्रो भ्रातेत्यादावनेकविज्ञानविषयत्ववदिहापि स्यादित्याशङ्क्याह -

एकेति ।

एकस्मिन्नेकरूपे स्मृत्याद्यनेकज्ञानवदनेकज्ञानसिद्धिरित्याशङ्क्याह -

नचेति ।

दृष्टान्ते तु पूर्वकालविशिष्टादेतत्कालविशिष्टमन्यदिति ज्ञानभेदो युक्तो ब्रह्मणि तु निरुपाधिके नैवमित्यर्थः ।

अर्थस्यैकरूपत्वेऽपि ज्ञानमनेकरूपं तयोर्भेदादित्याशङ्क्याह -

नहीति ।

तदेव प्रपञ्चयति -

यदीति ।

पूर्वपक्षे ज्ञानभेदशङ्कायोगं निगमयति -

तस्मादिति ।

सिद्धान्तेऽपि चोदनाद्यभेदाज्ज्ञानाभेदो न सिध्यतीत्याह -

नापीति ।

तर्हि सूत्रविरोधः स्यादित्याशङ्क्य पूर्वापरविरोधात्त्याज्यमेतदित्यभिप्रेत्याह -

अविधीति ।

आक्षेपमुपसंहरति -

तदिति ।