ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तदुच्यते — सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ सम्भवतः । कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्यग्ज्ञानोत्पत्तिद्वारेण । तेषु एषा चिन्ता सम्भवति — किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥

तत्तदनेकोपाध्यवच्छिन्नब्रह्मविषयाणि प्राणादिविषयाणि चोपासनानि विचारयोग्यानीत्याह -

तदुच्यत इति ।

निरुपाधिब्रह्मज्ञाने ज्ञेयैक्यादैक्यं सिद्धमिति न भेदाभेदचिन्ता । तत्र पुनर्गुणोपसंहारो लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थं वाच्यार्थतद्वाचकपदोपसंहाररूपो वर्तिष्यते तेनोक्तविचारारम्भसिद्धिरित्याह -

इत्यदोष इति ।

सगुणमपि विचार्यमाणद्वयं ब्रह्मैवेति कथं तस्मिन्नुपास्तिभेदाभेदचिन्तेत्याशङ्क्याह -

अत्रेति ।

सोपाधिकं ब्रह्म सप्तम्यर्थः ।

न केवलं विषयभेदाद्भेदः किन्तु फलभेदादपीत्याह -

कर्मवदिति ।

विरक्तस्य मुमुक्षोरलमनेन विचारेणेत्याशङ्क्याह -

क्रमेति ।

तस्यापि यथोक्तो विचारो हेयोपादेयविवेकोपकारीत्यर्थः । निर्गुणविद्यायां क्वचिद्भेदभ्रमापोहेनाभेदो निरूप्यतेऽपुनरुक्तशब्दानां सत्यादिधर्माणां वा साधारणस्वरूपलक्षणार्थमुपसंहारो वर्ण्यते ।

सगुणविद्यासु पुनरभेदः क्वचित्क्वचिद्भेदः क्वचिद्गुणानामुपसंहारः क्वचिदनुपसंहार इत्युपसंहरति -

तेष्विति ।

एवं पादारम्भमुक्त्वा प्रतिशाखं प्रतीतज्ञानानि विषयीकृत्य नामादिभेदाच्चोदनाद्यविशेषाच्चाद्यधिकरणावयवं संशयमाह -

किमिति ।