तत्तदनेकोपाध्यवच्छिन्नब्रह्मविषयाणि प्राणादिविषयाणि चोपासनानि विचारयोग्यानीत्याह -
तदुच्यत इति ।
निरुपाधिब्रह्मज्ञाने ज्ञेयैक्यादैक्यं सिद्धमिति न भेदाभेदचिन्ता । तत्र पुनर्गुणोपसंहारो लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थं वाच्यार्थतद्वाचकपदोपसंहाररूपो वर्तिष्यते तेनोक्तविचारारम्भसिद्धिरित्याह -
इत्यदोष इति ।
सगुणमपि विचार्यमाणद्वयं ब्रह्मैवेति कथं तस्मिन्नुपास्तिभेदाभेदचिन्तेत्याशङ्क्याह -
अत्रेति ।
सोपाधिकं ब्रह्म सप्तम्यर्थः ।
न केवलं विषयभेदाद्भेदः किन्तु फलभेदादपीत्याह -
कर्मवदिति ।
विरक्तस्य मुमुक्षोरलमनेन विचारेणेत्याशङ्क्याह -
क्रमेति ।
तस्यापि यथोक्तो विचारो हेयोपादेयविवेकोपकारीत्यर्थः । निर्गुणविद्यायां क्वचिद्भेदभ्रमापोहेनाभेदो निरूप्यतेऽपुनरुक्तशब्दानां सत्यादिधर्माणां वा साधारणस्वरूपलक्षणार्थमुपसंहारो वर्ण्यते ।
सगुणविद्यासु पुनरभेदः क्वचित्क्वचिद्भेदः क्वचिद्गुणानामुपसंहारः क्वचिदनुपसंहार इत्युपसंहरति -
तेष्विति ।
एवं पादारम्भमुक्त्वा प्रतिशाखं प्रतीतज्ञानानि विषयीकृत्य नामादिभेदाच्चोदनाद्यविशेषाच्चाद्यधिकरणावयवं संशयमाह -
किमिति ।