शङ्कां विभजते -
स्यादिति ।
गुणभेदं साधयति -
तथाहीति ।
छन्दोगाः षष्ठमग्निं नामनन्तीति कथं सिद्धमित्याशङ्क्योपसंहारवशादित्याशङ्क्याह -
पञ्चेति ।
गुणभेदमुक्त्वा तत्फलं विद्याभेदमाह -
येषां चेति ।
वाजसनेयकगतो योऽग्निः षष्ठोऽन्त्येष्टिनिविष्टः प्रसिद्धवदुक्तस्तस्य च्छान्दोग्येऽप्युपसंहारान्न गुणभेदोऽस्तीत्याशङ्क्याह -
नचेति ।
पञ्चाग्निविद्यायां गुणभेदाद्भेदमुक्त्वा प्राणविद्यायामपि तद्भेदाद्भेदमाह -
तथेति ।
अस्तु प्रजननगुणवतो रेतसो वाजसनेयिनामावापश्छन्दोगानां चोद्धारस्तथापि कथं विद्याभेदः, तत्राह -
आवापेति ।
सूत्रावयवं परिहारत्वेन व्याचष्टे -
नेत्यादिना ।
ननु गुणभेदे वेद्यभेदाद्विद्याभेदो न च षष्ठस्याग्नेरुपसंहारः पञ्चसङ्ख्याविरोधात् , तत्राह -
यद्यपीति ।
एकैव विद्या षष्ठाग्नियुक्ता तद्रहिता चेति विरुद्धमित्याशङ्क्याह -
नहीति ।
किञ्च वाजसनेयके षष्ठस्यापि ध्येयत्वमग्नेरुपेत्योक्तं न तु तस्य ध्येयत्वं पञ्चैवाग्नयस्तथोच्यन्ते । अनुपास्यत्वेन षष्ठोक्तिश्छान्दोग्येऽपि तुल्येत्याह -
पठ्यतेऽपीति ।
इतोऽस्माल्लोकात्तं दिष्टं परलोकं प्रेतं गतं पुत्रा ज्ञातयो वाग्नये नैधनविधिं विधातुं हरन्तीत्यर्थः ।
अनुपास्यत्वे किमिति पूर्वाग्निवत्पठ्यते षष्ठोऽग्निः, तत्राह -
वाजसनेयिनस्त्विति ।
तस्योपासकस्य मृतस्य दाहायाग्निरेवाग्निरिति प्रसिद्धानुवादो न तूपास्तिविधिरुपास्यास्तूभयत्रापि पञ्चैवाग्नयः । प्रसिद्धानुवादश्च कल्पनानिवृत्त्यर्थत्वादर्थत्वादर्थवानित्यर्थः ।
उत्पत्तौ गुणान्तरविध्यभावान्न विद्याभेदो वैश्वदेव्यास्तूत्पत्तौ विशिष्टगुणोक्तेर्भेद इत्युक्तम् । इदानीं वाजिनां षष्ठाग्निविधानेऽपि न विद्याभेद इत्याह -
अथापीति ।
पञ्चाग्नीन्वेदेति श्रुतसङ्ख्याविरोधान्न षष्ठस्याग्नेरुपसंहारसिद्धिरित्याशङ्क्य पञ्चसङ्ख्याया विधेयत्वाभावात्साम्पादिकाग्न्यवच्छेदकत्वेनैवानुवादादुत्पत्त्यशिष्टत्वादुत्पन्नानां च प्रत्यभिज्ञानान्न विद्याभेद इत्याह -
नचेति ।
पञ्चाग्निविद्यायामुक्तान्यायं प्राणविद्यादिष्वतिदिशति -
एवमिति ।
यत्त्वावापोद्वापाभ्यां वेद्यभेदाद्विद्याभेद इति, तत्राह -
नचेति ।
बहुतरांशाभेदप्रत्यभिज्ञानादल्पतरांशभेदेऽपि प्रत्यभिज्ञाविरोधान्न विद्याभेद इत्यर्थः ।
रूपभेदाद्विद्याभेदं शङ्कितं निरस्योपसंहरति -
तस्मादिति ॥ २ ॥