ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
स्यादेतत् — सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते । तथा हि — वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति — ‘तस्याग्निरेवाग्निर्भवति’ (बृ. उ. ६ । २ । १४) इत्यादिना । छन्दोगास्तु तं न आमनन्ति, पञ्चसंख्ययैव च ते उपसंहरन्ति — ‘अथ ह य एतानेवं पंचाग्नीन्वेद’ (छा. उ. ५ । १० । १०) इति । येषां च स गुणोऽस्ति, येषां च नास्ति, कथमुभयेषामेका विद्योपपद्येत ? न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् , पञ्चसंख्याविरोधात् । तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति । वाजसनेयिनस्तु पञ्चममप्यामनन्ति — ‘रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद’ (बृ. उ. ६ । १ । ६) इति । आवापोद्वापभेदाच्च वेद्यभेदो भवति, वेद्यभेदाच्च विद्याभेदः, द्रव्यदेवताभेदादिव यागस्येति चेत् — नैष दोषः; यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते । यद्यपि षष्ठस्याग्नेरुपसंहारो न सम्भवति, तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति । न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते । पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः — ‘तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति’ (छा. उ. ५ । ९ । २) इति । वाजसनेयिनस्तु साम्पादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ‘तस्याग्निरेवाग्निर्भवति समित्समित्’ (बृ. उ. ६ । २ । १४) इत्यादि समामनन्ति । स नित्यानुवादः । अथाप्युपासनार्थ एष वादः, तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम् । न च अत्र पञ्चसंख्याविरोध आशङ्क्यः । साम्पादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता, न विधिसमवायिनी — इत्यदोषः । एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते । न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः, कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् । तस्मादैकविद्यमेव ॥ २ ॥

शङ्कां विभजते -

स्यादिति ।

गुणभेदं साधयति -

तथाहीति ।

छन्दोगाः षष्ठमग्निं नामनन्तीति कथं सिद्धमित्याशङ्क्योपसंहारवशादित्याशङ्क्याह -

पञ्चेति ।

गुणभेदमुक्त्वा तत्फलं विद्याभेदमाह -

येषां चेति ।

वाजसनेयकगतो योऽग्निः षष्ठोऽन्त्येष्टिनिविष्टः प्रसिद्धवदुक्तस्तस्य च्छान्दोग्येऽप्युपसंहारान्न गुणभेदोऽस्तीत्याशङ्क्याह -

नचेति ।

पञ्चाग्निविद्यायां गुणभेदाद्भेदमुक्त्वा प्राणविद्यायामपि तद्भेदाद्भेदमाह -

तथेति ।

अस्तु प्रजननगुणवतो रेतसो वाजसनेयिनामावापश्छन्दोगानां चोद्धारस्तथापि कथं विद्याभेदः, तत्राह -

आवापेति ।

सूत्रावयवं परिहारत्वेन व्याचष्टे -

नेत्यादिना ।

ननु गुणभेदे वेद्यभेदाद्विद्याभेदो न च षष्ठस्याग्नेरुपसंहारः पञ्चसङ्ख्याविरोधात् , तत्राह -

यद्यपीति ।

एकैव विद्या षष्ठाग्नियुक्ता तद्रहिता चेति विरुद्धमित्याशङ्क्याह -

नहीति ।

किञ्च वाजसनेयके षष्ठस्यापि ध्येयत्वमग्नेरुपेत्योक्तं न तु तस्य ध्येयत्वं पञ्चैवाग्नयस्तथोच्यन्ते । अनुपास्यत्वेन षष्ठोक्तिश्छान्दोग्येऽपि तुल्येत्याह -

पठ्यतेऽपीति ।

इतोऽस्माल्लोकात्तं दिष्टं परलोकं प्रेतं गतं पुत्रा ज्ञातयो वाग्नये नैधनविधिं विधातुं हरन्तीत्यर्थः ।

अनुपास्यत्वे किमिति पूर्वाग्निवत्पठ्यते षष्ठोऽग्निः, तत्राह -

वाजसनेयिनस्त्विति ।

तस्योपासकस्य मृतस्य दाहायाग्निरेवाग्निरिति प्रसिद्धानुवादो न तूपास्तिविधिरुपास्यास्तूभयत्रापि पञ्चैवाग्नयः । प्रसिद्धानुवादश्च कल्पनानिवृत्त्यर्थत्वादर्थत्वादर्थवानित्यर्थः ।

उत्पत्तौ गुणान्तरविध्यभावान्न विद्याभेदो वैश्वदेव्यास्तूत्पत्तौ विशिष्टगुणोक्तेर्भेद इत्युक्तम् । इदानीं वाजिनां षष्ठाग्निविधानेऽपि न विद्याभेद इत्याह -

अथापीति ।

पञ्चाग्नीन्वेदेति श्रुतसङ्ख्याविरोधान्न षष्ठस्याग्नेरुपसंहारसिद्धिरित्याशङ्क्य पञ्चसङ्ख्याया विधेयत्वाभावात्साम्पादिकाग्न्यवच्छेदकत्वेनैवानुवादादुत्पत्त्यशिष्टत्वादुत्पन्नानां च प्रत्यभिज्ञानान्न विद्याभेद इत्याह -

नचेति ।

पञ्चाग्निविद्यायामुक्तान्यायं प्राणविद्यादिष्वतिदिशति -

एवमिति ।

यत्त्वावापोद्वापाभ्यां वेद्यभेदाद्विद्याभेद इति, तत्राह -

नचेति ।

बहुतरांशाभेदप्रत्यभिज्ञानादल्पतरांशभेदेऽपि प्रत्यभिज्ञाविरोधान्न विद्याभेद इत्यर्थः ।

रूपभेदाद्विद्याभेदं शङ्कितं निरस्योपसंहरति -

तस्मादिति ॥ २ ॥