ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शयति च ॥ ४ ॥
दर्शयति च वेदोऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् — ‘सर्वे वेदा यत्पदमामनन्ति’ (क. उ. १ । २ । १५) इति, तथा ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः’ इति च । तथा ‘महद्भयं वज्रमुद्यतम्’ (क. उ. २ । ३ । २) इति काठके उक्तस्य ईश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेददर्शननिन्दायै परामर्शो दृश्यते — ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य’ (तै. उ. २ । ७ । १) इति । तथा वाजसनेयके प्रादेशमात्रसम्पादितस्य वैश्वानरस्य च्छान्दोग्ये सिद्धवदुपादानम् — ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ (छा. उ. ५ । १८ । १) इति । तथा सर्ववेदान्तप्रत्ययत्वेन अन्यत्र विहितानामुक्थादीनामन्यत्रोपासनविधानाय उपादानात् प्रायदर्शनन्यायेन उपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः ॥ ४ ॥

किञ्च वेद्यैकत्वोक्त्या ब्रह्मविद्यायास्तावदैक्यं सर्वत्र वेदो दर्शयति । तथान्यत्रापि वेद्याभेदेऽपि विद्यैक्यमित्याह -

दर्शयति चेति ।

सूत्रं व्याचष्टे -

दर्शयतीत्यादिना ।

वेदत्रयेऽपि विद्यैक्यविषयमुपदेशान्तरमाह -

तथेति ।

किञ्च शाखान्तरोक्तपदार्थस्य शाखान्तरे सिद्धवत्परामर्शादपि विद्यैक्यधीरित्याह -

तथेत्यादिना ।

एव पुरुषो यदा यस्यामविद्यावस्थायामेतस्मिन्नात्मन्यद्वयत्वेन सर्ववेदान्तप्रसिद्धे स्वाविद्यावशादेवान्तरं भेददर्शनमुदरमल्पमपि करोत्यथ तदा तस्यामवस्थायां तस्य भेददर्शनवतो भयमावश्यकं ‘द्वितीयाद्वै भयं भवति’ इति श्रुत्यन्तरादित्यर्थः ।

भेददर्शनवतो भयकारणमाह -

तत्त्वेवेति ।

भेददर्शनवतो विदुषस्तत्त्वममन्वानस्य तदेव ब्रह्म भयङ्करमित्यर्थः ।

निर्गुणविद्यायां वेद्यैकत्वादेकत्वेऽपि कथं सगुणविद्यायामेकत्वं तत्राह -

तथेति ।

एवं ब्रह्मविद्यैक्येऽपि कथमुक्थाद्युपास्तीनामैक्यं, तत्राह -

तथेति ।

यथा निर्गुणं सगुणं च ब्रह्म सर्वत्रैकमिति तद्विद्या न भिद्यते तथोक्थादीनां सर्ववेदान्तप्रत्ययत्वादेतद्गम्यते । यदन्यत्रोक्तानामन्यत्रोपास्त्यर्थं तेषामादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं प्रायदर्शनन्यायेन बाहुल्येन सिध्यतीत्यर्थः ॥ ४ ॥