सर्वशाखासु विद्यैक्ये गुण्याकृष्टगुणानां तत्र तत्रोपसंहारमनन्तरविचारफलमाह -
उपसंहार इति ।
सङ्क्षेपतोऽधिकरणतात्पर्यमाह -
इदमिति ।
पूर्वविचारफलमनेन सूत्रेणोच्यते तेन तद्वदेवास्य पादादिसङ्गतिः । पूर्वपक्षे पूर्वाधिकरणस्य विवक्षितफलासिद्धिः । सिद्धान्ते तस्य तत्सिद्धिः । तुल्यधीबद्धा गुणा विषयास्ते किं यथाश्रुति व्यवतिष्ठेरन्नुत प्रत्यभिज्ञया ज्ञानोपाधावुपसंह्रियेरन्निति मीमांसायामिच्छाभेदादतिरात्रे षोडशिग्रहवदुपसंहारस्यानावश्यकत्वाद्यथाश्रुति व्यवस्थेति प्राप्ते सिद्धान्तयन्नुपसंहारः ।
समाने चेति विभागं विभजते -
स्थिते चेति ।
तत्र हेतुमुक्त्वा व्याकरोति -
अर्थेति ।
कथं व्यवस्थया श्रुतानां गुणानामुपकारैक्यं, तत्राह -
उभयत्रेति ।
गुणिद्वारा गुणानामपि प्रत्यभिज्ञाने फलितमाह -
तस्मादिति ।
अर्थाभेदादुपसंहारे दृष्टान्तमाह -
विधीति ।
प्रधानप्रत्यभिज्ञायां सर्वतद्धर्मप्रत्यभिज्ञानात्फलाविशेषाच्च व्यवस्थया श्रुतानामपि गुणानामेकज्ञानोपाधावुपसंहार इति दार्ष्टान्तिकमाह -
एवमिति ।
उक्तमेव व्यतिरेकतः स्फोरयति -
यदीति ।
आग्नेयसौर्ययोर्भेदेऽप्याग्नेयगतस्येतिकर्तव्यताजातस्य सौर्ये प्राप्तिवज्ज्ञानान्तरस्थानामपि गुणानां ज्ञानान्तरे प्राप्तिः स्यादित्यशङ्क्याह -
प्रकृतीति ।
ज्ञानैक्येऽपि शाखान्तरोक्तगुणानां शाखान्तरोक्तज्ञाने नोपसंहारः । तत्रोक्तगुणमात्रेण तज्ज्ञानोपकारसिद्धेरधिकानपेक्षणात् । अन्यथा तत्रैव तद्विधिप्रसङ्गात् । तस्मादक्ष्यादित्यस्थानभेदेनोक्तयोरहरहमितिगुणयोर्व्यवस्थानवदुपास्याभेदेऽपि शाखाभेदेनोक्तानां व्यवस्थैवेत्याशङ्क्य शाखाभेदस्योक्तस्थानवदुपास्यविशेषणतया गुणव्यवस्थापकत्वाभावाद्धर्म्युपाधावुक्तगुणानां सर्वत्रापि श्रुतेन धर्मिणा नियमादनुमानतः सार्वत्रिकत्वसिद्धेर्विद्यैक्ये गुणोपसंहारो बलवद्बाधकाभावे वारयितुं न शक्यते ।
शाखान्तरे कतिपयगुणवादस्य तद्विध्यर्थतया गुणान्तरावारकत्वादित्याह -
विज्ञानेति ।
एवमित्युपसंहाराभावोक्तिः । इतिशब्दः सिद्धान्तसमाप्त्यर्थः ।
उत्तरसन्दर्भस्य पौनरुक्त्यं प्रत्याह -
अस्यैवेति ॥ ५ ॥