ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
इदं प्रयोजनसूत्रम् । स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानाम् , अन्यत्रोदितानां विज्ञानगुणानाम् , अन्यत्रापि समाने विज्ञाने उपसंहारो भवति । अर्थाभेदात् — य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः, स एव अन्यत्रापि । उभयत्रापि हि तदेवैकं विज्ञानम् । तस्मादुपसंहारः । विधिशेषवत् — यथा विधिशेषाणामग्निहोत्रादिधर्माणाम् , तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति, अर्थाभेदात् उपसंहारः; एवमिहापि । यदि हि विज्ञानभेदो भवेत् , ततो विज्ञानान्तरनिबद्धत्वाद्गुणानाम् , प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः । विज्ञानैकत्वे तु नैवमिति । अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः ‘सर्वाभेदात्’ इत्यारभ्य भविष्यति ॥ ५ ॥

सर्वशाखासु विद्यैक्ये गुण्याकृष्टगुणानां तत्र तत्रोपसंहारमनन्तरविचारफलमाह -

उपसंहार इति ।

सङ्क्षेपतोऽधिकरणतात्पर्यमाह -

इदमिति ।

पूर्वविचारफलमनेन सूत्रेणोच्यते तेन तद्वदेवास्य पादादिसङ्गतिः । पूर्वपक्षे पूर्वाधिकरणस्य विवक्षितफलासिद्धिः । सिद्धान्ते तस्य तत्सिद्धिः । तुल्यधीबद्धा गुणा विषयास्ते किं यथाश्रुति व्यवतिष्ठेरन्नुत प्रत्यभिज्ञया ज्ञानोपाधावुपसंह्रियेरन्निति मीमांसायामिच्छाभेदादतिरात्रे षोडशिग्रहवदुपसंहारस्यानावश्यकत्वाद्यथाश्रुति व्यवस्थेति प्राप्ते सिद्धान्तयन्नुपसंहारः ।

समाने चेति विभागं विभजते -

स्थिते चेति ।

तत्र हेतुमुक्त्वा व्याकरोति -

अर्थेति ।

कथं व्यवस्थया श्रुतानां गुणानामुपकारैक्यं, तत्राह -

उभयत्रेति ।

गुणिद्वारा गुणानामपि प्रत्यभिज्ञाने फलितमाह -

तस्मादिति ।

अर्थाभेदादुपसंहारे दृष्टान्तमाह -

विधीति ।

प्रधानप्रत्यभिज्ञायां सर्वतद्धर्मप्रत्यभिज्ञानात्फलाविशेषाच्च व्यवस्थया श्रुतानामपि गुणानामेकज्ञानोपाधावुपसंहार इति दार्ष्टान्तिकमाह -

एवमिति ।

उक्तमेव व्यतिरेकतः स्फोरयति -

यदीति ।

आग्नेयसौर्ययोर्भेदेऽप्याग्नेयगतस्येतिकर्तव्यताजातस्य सौर्ये प्राप्तिवज्ज्ञानान्तरस्थानामपि गुणानां ज्ञानान्तरे प्राप्तिः स्यादित्यशङ्क्याह -

प्रकृतीति ।

ज्ञानैक्येऽपि शाखान्तरोक्तगुणानां शाखान्तरोक्तज्ञाने नोपसंहारः । तत्रोक्तगुणमात्रेण तज्ज्ञानोपकारसिद्धेरधिकानपेक्षणात् । अन्यथा तत्रैव तद्विधिप्रसङ्गात् । तस्मादक्ष्यादित्यस्थानभेदेनोक्तयोरहरहमितिगुणयोर्व्यवस्थानवदुपास्याभेदेऽपि शाखाभेदेनोक्तानां व्यवस्थैवेत्याशङ्क्य शाखाभेदस्योक्तस्थानवदुपास्यविशेषणतया गुणव्यवस्थापकत्वाभावाद्धर्म्युपाधावुक्तगुणानां सर्वत्रापि श्रुतेन धर्मिणा नियमादनुमानतः सार्वत्रिकत्वसिद्धेर्विद्यैक्ये गुणोपसंहारो बलवद्बाधकाभावे वारयितुं न शक्यते ।

शाखान्तरे कतिपयगुणवादस्य तद्विध्यर्थतया गुणान्तरावारकत्वादित्याह -

विज्ञानेति ।

एवमित्युपसंहाराभावोक्तिः । इतिशब्दः सिद्धान्तसमाप्त्यर्थः ।

उत्तरसन्दर्भस्य पौनरुक्त्यं प्रत्याह -

अस्यैवेति ॥ ५ ॥