ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
वाजसनेयके ‘ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति’ (बृ. उ. १ । ३ । १) ‘ते ह वाचमूचुस्त्वं न उद्गाय’ (बृ. उ. १ । ३ । २) इति प्रक्रम्य, वागादीन्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा, मुख्यप्राणपरिग्रहः पठ्यते — ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्’ (बृ. उ. १ । ३ । ७) इति । तथा छान्दोग्येऽपि ‘तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्यामः’ (छा. उ. १ । २ । १) इति प्रक्रम्य, इतरान्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा, तथैव मुख्यप्राणपरिग्रहः पठ्यते — ‘अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । ७) इति । उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते । तत्र संशयः — किमत्र विद्याभेदः स्यात् , आहोस्वित् विद्यैकत्वमिति । किं तावत्प्राप्तम् ? पूर्वेण न्यायेन विद्यैकत्वमिति । ननु न युक्तं विद्यैकत्वम् , प्रक्रमभेदात् । अन्यथा हि प्रक्रमन्ते वाजसनेयिनः, अन्यथा छन्दोगाः — ‘त्वं न उद्गाय’ (बृ. उ. १ । ३ । २) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति, छन्दोगास्तु उद्गीथत्वेन ‘तमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । ७) इति, तत्कथं विद्यैकत्वं स्यादिति चेत् — नैष दोषः; न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति, अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् । तथा हि — देवासुरसङ्ग्रामोपक्रमत्वम् , असुरात्ययाभिप्रायः, उद्गीथोपन्यासः, वागादिसङ्कीर्तनम् , तन्निन्दया मुख्यप्राणव्यपाश्रयः, तद्वीर्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन — इत्येवं बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते । वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् — ‘एष उ वा उद्गीथः’ (बृ. उ. १ । ३ । २३) इति । तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम् । तस्माच्च विद्यैकत्वमिति ॥ ६ ॥

संज्ञाभेदाज्ज्ञानैक्यं तद्गुणानां चान्यत्रोपसंहार इत्युक्त उद्गीथविद्ययोरपि च्छान्दोग्यबृहदारण्यकोक्तयोः संज्ञाभेदमाशङ्क्य प्रत्याह -

अन्यथात्वमिति ।

चोदनाद्यविशेषादित्यस्यापवादार्थमिदमधिकरणम् । तस्य बृहदारण्यकस्थमुद्गीथब्राह्मणं छान्दोग्यस्थमुद्गीथाध्यायं च विषयमाह -

वाजसनेयक इति ।

ते प्रकृता वागादयः प्राणा देवाः सात्त्विकवृत्तिप्रधानाः सम्भूयान्योन्यमुक्तवन्तो हन्त यदि संमतमस्माकं तदास्मिन्नाभिचारिके यज्ञे वयमुद्गीथाख्यभक्तिलक्षितेनौद्गात्रेण कर्मणा तमोवृत्तिप्रधानानसुरानतीत्य स्वमग्न्यादिभावमयामेति । ते चैवं कृतसंवादा वाचमौद्गात्रे कर्मणि प्रधानां त्वमस्मदर्थमौद्गात्रं निर्वर्तयेति नियुक्तवन्तस्तथोपक्रम्य वागादीन्वाक्प्राणचक्षुःश्रोत्रमनांसिपाप्मना ह्येषा विद्धेत्यादिना पाप्मविद्धत्वेन निन्दित्वा तेषामध्येयत्वं निर्धार्य मुख्यप्राणस्योपास्यत्वं च निश्चित्य तत्परिग्रहः श्रूयत इत्यर्थः । वागादीनामनुपास्यत्वनिश्चयानन्तरमित्यथशब्दार्थः । आसन्यमास्ये भवं मुखान्तर्बिलस्थं प्राणं मुख्यप्राणाभिमानिनीं देवतामिति यावत् ।

उद्गीथब्राह्मणमुक्त्वोद्गीथाध्यायं कथयति -

तथेति ।

तत्तत्रान्योन्याभिभवात्मके सङ्ग्रामे देवाः पू्र्ववदुद्गीथलक्षितं कर्माजह्रुराहृतवन्तः । अनेन कर्मणैनानसुरान्स्वाभाविकेन्द्रियवृत्तिलक्षणानभिभविष्याम इत्यभिप्रेत्य कर्मारब्धवन्त इत्यर्थः ।

तथैवेत्युद्गीथब्राह्मणवदेवेत्यर्थः । अाख्यायिकैव श्रुता न विद्याविधिरित्याशङ्क्य ब्राह्मणाध्याययोर्विवक्षितमर्थमाह -

उभयत्रेति ।

शाखाद्वयस्थोद्गीथविद्यां विषयमुक्त्वा विचारबीजं संशयमाह -

तत्रेति ।

भेदाभेदमानाभ्यां तमेव विशदयति -

किमिति ।

विमृश्य पूर्वपक्षयति -

किं तावदिति ।

पूर्वत्राख्याविशेषाद्विद्यैक्यमुक्तं तदत्राप्युद्गीथविद्येत्याख्याविशेषादैक्यमित्यर्थः । अत्र चोपास्तिभेदोक्त्या वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतयः । पूर्वपक्षे गुणोपसंहारः सिद्धान्ते तदसत्तेति फलभेदः ।

अन्यथात्वमित्यादिसैद्धान्तिकीं शङ्कां व्याकुर्वन्पूर्वपक्षमाक्षिपति -

नन्विति ।

प्रक्रमभेदादित्युक्तं व्यनक्ति -

अन्यथा हीति ।

कथमुभयत्र प्रक्रमस्यान्यथात्वं, तत्राह -

त्वमिति । उद्गीथस्येति ।

सर्वस्या भक्तेरिति यावत् ।

उद्गीथत्वेनेति ।

तदवयवो योऽयमोकारस्तथात्वेनेत्यर्थः । उद्गानकर्ता प्राणो वाजसनेयके ध्येयत्वेनोच्यते । छान्दोग्ये त्वोङ्कारः प्राणदृष्ट्योपास्य इष्टः ।

तथाच कर्तृकर्मणोर्भेदान्न विद्यैक्यमिति फलितमाह -

तदिति ।

बहुतररूपप्रत्यभिज्ञानादप्रत्यभिज्ञानं किञ्चिल्लक्षणया नेयमिति मत्वा समाधत्ते -

नेत्यादिना ।

अविशेषादित्येतद्व्याचष्टे -

नहीति ।

एतावता क्वचित्कर्मरूपत्वेनोपास्यत्वं कर्तृत्वेनान्यत्रेत्येतावन्मात्रेणेत्यर्थः ।

बहुतराविशेषप्रतीतिमेव प्रकटयति -

तथाहीति ।

यथाश्मानं पाषाणं प्राप्य मृत्त्वाल्लोष्टो विध्वंसत एवं विध्वंसमाना विष्वञ्चो विनेशुरिति श्रूयत इत्याह -

तदिति ।

अविशेषधियं निगमयति -

इत्येवमिति ।

न केवलं शाखान्तरे रूपभेदो दृष्टः किं त्वेकस्यामपि । तथापि न तत्र विद्याभेदस्तथोभयोरपि स्यादित्याह -

वाजेति ।

प्राणस्योद्गीथत्वमत्रापि श्रुतं चेत्कथमुपास्तिः, तत्राह -

तस्मादिति ।

उद्गीथत्वेन श्रुतेरुभयत्राविशेषाद्यदेकत्र कर्तृत्वं तदितरत्रापि लक्ष्यं, तथाच प्राणस्य कर्तृत्वेन कर्मत्वेन च ध्यानं शास्त्रादित्यर्थः ।

उभयत्रापि वेद्यरूपाविशेषे फलितमाह -

तस्माच्चेति ॥ ६ ॥