ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्यत्र अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात् कतमोऽत्र पक्षो न्याय्यः स्यादिति विचारः । तत्र अध्यासो नाम — द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते । यस्मिन् इतरबुद्धिरध्यस्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः, अध्यस्तेतरबुद्धावपि । यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धिः, न ब्रह्मबुद्ध्या निवर्तते — यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः — एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्यते, उद्गीथे वा अक्षरबुद्धिरिति । अपवादो नाम — यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम् , पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति — यथा देहेन्द्रियसङ्घाते आत्मबुद्धिः, आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यनया यथार्थबुद्ध्या निवर्त्यते — यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवर्त्यते — एवमिहापि अक्षरबुद्ध्या उद्गीथबुद्धिर्निवर्त्येत, उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति । एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् — यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति । विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्गे औद्गात्रविशेषस्य समर्पणम् — यथा नीलं यदुत्पलम् तदानयेति, एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति । एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने, एते पक्षाः प्रतिभान्ति । तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारणप्राप्तौ इदमुच्यते —

ओमित्येतदक्षरमुद्गीथमुपासीतेत्यत्रोद्गीथविशेषितत्वमोङ्कारस्यापि सिद्धवत्कृत्य प्रक्रमभेदाद्विद्याभेदमुक्त्वा तमेव विशेषणविशेष्यभावं निरूपयति -

व्याप्तेश्चेति ।

ओमुद्गीथशब्दयोः सामानाधिकरण्यमधिकरणस्य विषयं दर्शयति -

ओमित्येतदिति ।

विशेषानवधारणकृतं सन्देहमाह -

अध्यासेति ।

अत्र च विशेषणविशेष्यभावनिरूपणेन विचारस्य वाक्यार्थधीसाधनसङ्क्रान्ततया पादादिसङ्गतयः । पूर्वपक्षे समानाधिकरणवाक्यस्यानध्यवसितार्थत्वादप्रामाण्यं सिद्धान्ते तस्यार्थनिश्चयात्प्रामाण्यम् ।

कथमेतेषां पक्षाणां प्रतिभानं भेदो वेति तत्राध्यासं व्युत्पादयति -

तत्रेति ।

तेषां मध्य योऽध्यासो नाम प्रसिद्धः स व्युत्पाद्यते ।

गौणी बुद्धिरसावित्युपेत्य व्युत्पादनमभिनयति -

द्वयोरिति ।

कथमन्यतरबुद्धावनिवर्तितायामन्यतरबुद्धेरध्यासः स्यात् , तत्राह -

यस्मिन्निति ।

अध्यस्तबुद्ध्येतरबुद्धेर्निवर्त्यत्वमाशङ्क्य दृष्टान्तमाह -

यथेति ।

वैदिकदृष्टान्तमुक्त्वा लोकिकमाह -

यथा वेेति ।

विशेषमनवधारयन्दार्ष्टान्तिकमाह -

एवमिति ।

अध्यासपक्षसमाप्तावितिशब्दः ।

अपवादव्युत्पादनं प्रतिज्ञाय व्युत्पादयति -

अपवाद इति । यत्रेति ।

यस्मिन्कस्मिंश्चिद्वस्तुनीत्यर्थः ।

तत्रापि लौकिकं वैदिकं चोदाहरणमाह -

यथेत्यादिना ।

पूर्ववद्दार्ष्टान्तिकमाह -

एवमिति ।

इतिशब्दोऽपि पूर्ववत् ।

एकत्वपक्षं सदृष्टान्तं स्पष्टयति -

एकत्वं त्विति ।

विशेषणपक्षं प्रकटयति -

विशेषणमिति ।

ग्रहणप्रसङ्गे ध्येयत्वेन स्वीकारप्रसक्ताविति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -

यथेति ।

पक्षचतुष्टयं व्युत्पादितमुपसंहरति -

एवमिति ।

अध्यासादिषु दृष्टेष्वनध्यवसायपक्षं पूर्वपक्षयित्वा सिद्धान्तमाह -

तत्रेत्यादिना ।