ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
व्याप्तेश्च समञ्जसमिति । चशब्दोऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजनः । तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते । विशेषणपक्ष एवैको निरवद्य इत्युपादीयते । तत्राध्यासे तावत् — या बुद्धिः इतरत्र अध्यस्यते, तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत, तत्फलं च कल्प्येत । श्रूयत एव फलम् ‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७) इत्यादि, इति चेत् — न ; तस्य अन्यफलत्वात् । आप्त्यादिदृष्टिफलं हि तत् , नोद्गीथाध्यासफलम् । अपवादेऽपि समानः फलाभावः । मिथ्याज्ञाननिवृत्तिः फलमिति चेत् , न; पुरुषार्थोपयोगानवगमात्; न च कदाचिदपि ओंकारात् ओंकारबुद्धिर्निवर्तते, उद्गीथाद्वा उद्गीथबुद्धिः । न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् , उपासनाविधिपरत्वात् । नापि एकत्वपक्षः सङ्गच्छते । निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् , एकेनैव विवक्षितार्थसमर्पणात् । न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसिद्धिरस्ति, नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गीथशब्दवाच्यायाम् ओंकारशब्दप्रसिद्धिः, येनानतिरिक्तार्थता स्यात् । परिशेषाद्विशेषणपक्षः परिगृह्यते, व्याप्तेः सर्ववेदसाधारण्यात् । सर्वव्याप्यक्षरमिह मा प्रसञ्जि — इत्यत उद्गीथशब्देन अक्षरं विशेष्यते — कथं नाम उद्गीथावयवभूत ओंकारो गृह्येतेति । नन्वस्मिन्नपि पक्षे समाना लक्षणा, उद्गीथशब्दस्य अवयवलक्षणार्थत्वात्; सत्यमेवमेतत्; लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत एव । अध्यासपक्षे हि अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समर्प्यत इति सन्निकृष्टा । समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु । अतश्च व्याप्तेर्हेतोः ‘ओमित्येतदक्षरम्’ इत्येतस्य ‘उद्गीथम्’ इत्येतद्विशेषणमिति समञ्जसमेतत् , निरवद्यमित्यर्थः ॥ ९ ॥

सूत्रस्थचशब्दस्य समुच्चयाद्यर्थाभावादानर्थक्यमाशङ्क्य व्याचष्टे -

चशब्द इति ।

पक्षव्यावृत्तिमेव प्रकटयति -

तदिति ।

तत्तत्र सामानाधिकरण्यवाक्ये चतुष्टयपक्षेषु दृष्टेष्विति यावत् ।

व्यावर्त्ये पक्षत्रये विशेषणपक्षस्य प्रवेशं निषेधन्नादेयं पक्षमाह -

विशेषणेति ।

कथं त्रयाणां पक्षाणां सावद्यत्वं तत्राध्यासस्य सावद्यत्वं साधयति -

तत्रेति ।

उद्गीथबुद्धेरक्षरेऽध्यासेऽक्षरशब्दस्योद्गीथे तस्मिन्वाक्षरबुद्धेरध्यासे सत्युद्गीथशब्दस्याक्षरे लक्षणा स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या तेन नाध्यास इत्यर्थः ।

तत्रैव दोषान्तरमाह -

फलं चेति ।

तत्कल्पनाममृष्यन्नाह -

श्रूयत इति ।

तस्याध्यासफलत्वाभावान्मैवमित्याह -

तन्नेति ।

श्रुतस्य फलस्यान्यफलत्वमेव व्यनक्ति -

आप्त्यादीति ।

नच तस्योभयफलत्वमाप्त्यादिदृष्टिं विधातुमोमित्येतदक्षरमिति वाक्येन विशिष्टप्रणवार्थेन पृथगुपास्तिविध्यनुपगमादिति भावः ।

अपवादपक्षं प्रत्याह -

अपवादेऽपीति ।

अध्यासं दृष्टान्तयितुमपिशब्दः वाक्यशेषस्थं तु फलं नाध्यासस्य नापवादस्यापि स्याद्विशिष्टोपास्तिसम्बन्धादित्यर्थः ।

फलाभावासिद्धिं शङ्कते -

मिथ्येति ।

तन्निवृत्तावात्मनि कर्तृत्वाद्यनर्थनिवृत्तिरानन्दभिव्यक्तिश्च दृष्टा नैवमोङ्कारबुद्ध्योद्गीथबुद्धेस्तस्या वेतरस्या ध्वंसे कश्चित्पुरुषार्थो दृष्टः ।

तस्मान्नेदं फलमित्याह -

नेति ।

अपवादमुपेत्य वैफल्यं दोषमुक्त्वाङ्गीकारं त्यजति -

नचेति ।

उद्गीथबुद्धिरेङ्कारबुद्धेरपवादिका चेदोङ्कारबुद्धिः स्वविषयादोङ्कारान्निवर्तेत । ओङ्कारबुद्धेर्बाध्याया मिथ्याधीत्वेन स्वार्थव्यभिचारात् । यदोङ्कारधीरुद्गीथबुद्धेरपवादिका तदापि मिथ्याधीत्वादुद्गीथधीः स्वार्थान्निवर्तेत । नचैवं दृष्टमतो नापवाद इत्यर्थः ।

किञ्चापवादेनास्य वाक्यस्य तात्पर्यमुपास्तिपरत्वादित्याह -

नचेति ।

एकत्वपक्षं निराह -

नापीति ।

पिकशब्दस्य कोकिलशब्देन व्युत्पादनवदन्यतरशब्दस्यान्यतरशब्देन व्युत्पादनं फलवदेवेत्याशङ्क्य सन्दिग्धार्थतादेरसत्त्वान्मैवमित्याह -

एकेनेति ।

ओङ्कारोद्गीथशब्दयोरुद्गीथार्थत्वादन्यतरेण तत्सिद्धेर्न शब्दान्तरमर्थवदित्यर्थः ।

किञ्चैकत्वपक्षे किमुद्गीथस्याक्षरेऽन्तर्भावोऽक्षरस्य वेतरस्मिन्निति विकल्प्याद्यं निराह -

नचेति ।

द्वितीयं प्रत्याह -

नापीति ।

उद्गीथशब्दस्याक्षरे तच्छब्दस्य चोद्गीथे प्रसिद्ध्यभावे तयोरेकार्थत्वराहित्यं फलतीत्याह -

येनेति ।

पक्षत्रयं सावद्यत्वेनापोद्य निरवद्यं पक्षं गृह्णाति -

परिशेषादिति ।

तत्र सौत्रं पदमादाय विभजते -

व्याप्तेरिति ।

तथापि कथं विशेषणपक्षसिद्धिः, तत्राह -

सर्वेति ।

इहेत्युपासनोक्तिः । तत्प्रसङ्गे वाक्यशेषविरोधः स्यादिति मत्वा ब्रूते -

अत इति ।

सम्भवे व्यभिचारे च विशेषणमर्थवदित्युपगमादोङ्कारस्य विशेष्यस्य सर्ववेदव्यापित्वादुद्गीथेन विशेषणेन व्यभिचारवारणेऽपि सर्वस्या द्वितीयस्या भक्तेरुद्गीथशब्दितायास्तदवयवे सम्भवाभावादयुक्तमोङ्कारविशेषणमुद्गीथस्येत्याशङ्क्यावयवलक्षणार्थत्वमुद्गीथशब्दस्योपेत्याह -

कथमिति ।

इतिशब्दो वृत्तक्रियापदेन सम्बध्यते । न चोद्गीथस्यैवावयविनो लक्षणा स्यादोङ्कारेणावयवेनेति युक्तमोङ्कारस्योपरिष्टाद्विस्तरेण व्याख्यास्यमानतया प्रधानत्वात्तेन भक्तिलक्षणायामुद्गीथपदेन भक्तिविशेषस्यैवार्पणे व्यभिचाराभावाद्विशेषणवैयर्थ्यमिति भावः ।

लक्षणाप्रसङ्गेनाध्यासस्य निरस्तत्वादयमपि पक्षो दोषसाम्यान्नोपादेयः स्यादिति शङ्कते -

नन्विति ।

उद्गीथशब्दस्यावयवे लक्षणामङ्गीकरोति -

सत्यमिति ।

अध्यासपक्षवदयमपि तर्हि पक्षो नोपादेयः स्यादित्याशङ्क्याह -

लक्षणायामिति ।

पक्षद्वये तुल्यायामपि लक्षणायामध्यासपक्षमुपेक्ष्य विशेषणपक्षमाद्रियामहे तत्र लक्षणार्थस्य वाक्यार्थान्वयित्वेन लक्षणायाः संनिकृष्टविषयतया बलीयस्त्वात् । अध्यासे तु गौणी धीरसावित्युक्तत्वात् लक्ष्यमाणगुणवत्येकस्मिन्नितरशब्दस्यावसानाल्लक्षणाया विप्रकृष्टविषयत्वेन दौर्बल्यादित्यर्थः ।

अध्यासपक्षे लक्षणाया विप्रकृष्टविषयत्वं स्पष्टयति -

अध्यासेति ।

सिद्धान्ते लक्षणायाः संनिकृष्टविषयत्वेन प्रबलत्वं प्रकटयति -

विशेषणेति ।

अवयविवचनेन शब्देनावयवलक्षणाया लौकिकत्वाभावं प्रत्याह -

समुदायेष्विति ।

पटो दग्धो ग्रामो दग्ध इति तदेकदेशदाहेऽपि समुदायशब्दो लक्षणयावयवे प्रयुज्यते तथोद्गीथशब्दोऽपि द्वितीयभक्त्यवयवेऽक्षरे लक्षणया वर्तिष्यते, नचाक्षरस्योद्गीथावयवत्वं तदुपासनं च विधेयमिति वाक्यभेदः । विशिष्टाक्षरानुवादेनोपास्तेरेव तत्तद्गुणवत्यास्तत्तत्फलविशिष्टायाः समस्तेन वाक्येन विधानादिति भावः ।

उक्तहेत्वनुवादेनावशिष्टं सूत्रपदं व्याकुर्वन्विशेषणपक्षस्य निरवद्यत्वमुपसंहरति -

अतश्चेति ॥ ९ ॥