ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सर्वाभेदादन्यत्रेमे ॥ १० ॥
वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्य उपास्यत्वमुक्तम् । वागादयोऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः । ते च गुणाः प्राणे पुनः प्रत्यर्पिताः — ‘यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि’ (बृ. उ. ६ । १ । १४) इत्यादिना । अन्येषामपि तु शाखिनां कौषीतकिप्रभृतीनां प्राणसंवादेषु ‘अथातो निःश्रेयसादानमेता ह वै देवता अहंश्रेयसे विवदमानाः’ (कौ. उ. २ । १४) इत्येवंजातीयकेषु प्राणस्य श्रैष्ठ्यमुक्तम् , न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ताः । तत्र संशयः — किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्रापि अस्येरन् , उत नास्येरन्निति । तत्र प्राप्तं तावत् — नास्येरन्निति । कुतः ? एवंशब्दसंयोगात् । ‘अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा’ इति तत्र तत्र एवंशब्देन वेद्यं वस्तु निवेद्यते । एवंशब्दश्च सन्निहितावलम्बनः न शाखान्तरपरिपठितम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम् । तस्मात् स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमित्येवं प्राप्ते प्रत्याह —

ओङ्कारस्योद्गीथगुणकस्यैवोपास्यतेत्युक्ते प्राणस्यापि तत्तदुक्तगुणमात्रस्यैव तत्र तत्रोपास्यतेत्याशङ्क्याह -

सर्वेति ।

विषयं वक्तुमविगीतमर्थमाह -

वाजिनामिति ।

शाखाद्वयेऽपि संमतमर्थान्तरमाह -

वागिति ।

सा हि वसिष्ठत्वगुणा वाक् । वाग्मिनो हि लोके सुखिनो वसन्ति । चक्षुश्च प्रतिष्ठागुणं चक्षुष्मतः पादप्रतिष्ठादर्शनात् । सम्पद्गुणं श्रोत्रम् । तद्वत एव श्रवणार्थावधारणकर्मसम्पत्तिदर्शनात् । आयतनगुणं मनः । भोग्यानां तत्र वृत्तिद्वारा निधानादित्युभयत्रापि श्रुतमित्यर्थः ।

तत्र तर्हि बहूनामुपास्यतेष्टेत्याशङ्क्याह -

ते चेति ।

अन्वयव्यतिरेकाभ्यां प्राणाधीनत्वसिद्धेर्वागादिस्थितेः । प्राणे स्वगुणा वागादिभिरर्पिता इत्यर्थः ।

शाखान्तरेऽपि संमतमर्थमाह -

अन्येषामिति ।

निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं तदन्तरेणोपास्तेरयोगात्तत्प्रस्तुतमधिकृतमित्याह -

अथेति ।

एता ह वै देवता वागाद्यभिमानिन्योऽहंश्रेयसे स्वकीयश्रेष्ठत्वायेति यावत् ।

अविगीतमर्थमुक्त्वा विगीतमर्थमाह -

न त्विति ।

एवंशब्दाज्ज्येष्ठत्वादिगुणकप्राणप्रत्यमिज्ञानाच्च वसिष्ठत्वादिगुणेषु संशयमाह -

तत्रेति ।

क्वचिदिति वाजसनेयकच्छान्दोग्योक्तिः । अन्यत्रेति कौषीतकिप्रभृतिशाखोच्यते । अत्र च वसिष्ठत्वादिगुणोपसंहारद्वारा वाक्यार्थधीहेतोरेव निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे यथाश्रुति गुणव्यवस्था ।

सिद्धान्ते गुण्यनुरोधात्तदव्यवस्थेति मत्वा पूर्वपक्षयति -

तत्रेति ।

विद्यैक्यादनुमानादुपसंहारे कथमनुपसंहारः स्यादिति शङ्कते -

कुत इति ।

ओंकारस्य सर्वत्र प्राप्तावुद्गीथविशेषणादन्यव्यावृत्तिवदेवं विद्वानिति संनिहितालम्बनादेवंशब्दादसंनिहितस्य विद्यैक्यद्वाराऽनुमितस्य वसिष्ठत्वादेर्व्यावृत्तिर्युक्तेत्याह -

एवंशब्देति ।

यथा प्राणो वागादिभ्यः श्रेष्ठः सिद्धस्तथा प्राणं श्रैष्ठ्यगुणं विद्वान्यः कश्चिदधिकृतः सन्नुपास्ते सोऽपि प्राणे श्रैष्ठ्यं विदित्वोपास्यप्राणात्मकत्वप्राप्त्या श्रैष्ठ्याद्यन्वितो भवतीति श्रुत्यर्थः ।

एवंशब्दसंयोगेऽपि विद्याया वसिष्ठत्वादिगुणवत्त्वं किं न स्यात् , तत्राह -

तत्र तत्रेति ।

वीप्सया तत्तद्विद्याप्रकरणमुच्यते ।

एकत्वाद्विद्याया वेद्यार्पकेणैवंशब्देन शाखान्तरोक्तानामपि वसिष्ठत्वादीनां परामर्शः स्यादित्याशङ्क्याह -

एवमिति ।

शब्दस्य शाब्दमेवानुमानिकादपि संनिहितमिति कुतः शाखान्तरीयगुणधीरित्यर्थः ।

विद्याया निराकाङ्क्षत्वार्थं शाखान्तरीयमपि गुणजातमिह परामृष्टमित्याशङ्क्याह -

तस्मादिति ।

पूर्वपक्षमनुभाष्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।