प्राणस्य सविशेषत्वाद्युक्तशाखान्तरीयवसिष्ठत्वाद्युपसंहारो ब्रह्मणो निर्विशेषत्वात्तद्धर्मैः स्वशाखागतैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहारः स्यादित्याशङ्क्याह -
आनन्दादय इति ।
विषयं दर्शयति -
ब्रह्मेति ।
ब्रह्मैक्यनिर्विशेषत्वाभ्यां संशयमाह -
तेष्विति ।
वेद्यब्रह्मैक्यादेवंशब्दवदपवादकादृष्टेश्चौत्सर्गिको गुणोपसंहारः स्यादित्याशङ्क्य ब्रह्मैक्यादानन्दादीनां सर्वत्रोपसंहारे संयद्वामत्वादयोऽपि किमिति नोपसंह्रियेरन्नित्यभिप्रेत्य पूर्वपक्षयति -
तत्रेति ।
संयद्वामत्वादीनामुपासनार्थमुक्तानां यथाविधि व्यवस्था । सत्यादयस्तु वस्तुतत्त्वप्रमित्यर्थः यत्र यत्र वस्तुतत्त्वधीस्तत्र तत्रोपसंह्रियेरन्नित्युक्त्वा वाक्यार्थधीहेतोरेवात्र निरूपणात्पादादिसङ्गतिः । पूर्वपत्रे सत्याद्यनुपसंहारे तत्त्वाप्रमितिः ।
सिद्धान्ते तदुपसंहारे तत्प्रमितिसिद्धिरिति मत्वा सिद्धान्तमाह -
इदमिति ।
शाखाभेदेनोदितानुदितहोमकार्यताव्यवस्थावदिहापि शब्दभेदेन व्यवस्था स्यादिति शङ्कते -
कस्मादिति ।
पूर्वहेतुमिहाकृष्योदाहरति -
सर्वेति ।
हेतुमेव विवृणोति -
सर्वत्रेति ।
ब्रह्मणः सर्वत्रैक्ये फलितमाह -
तस्मादिति ।
धर्मिणः सार्वत्रिकत्वेऽपि धर्माणां यथाश्रुति व्यवस्था स्यादित्याशङ्क्याह -
तेनेति ।
सत्यज्ञानादयो मिथोविशेषणविशेष्यभूता विरुद्धानृतजडादिभ्रान्तिं निवर्तयन्तः सत्त्वादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति । न चैकस्मादेव पदादीदृशं ब्रह्म सिध्यति पदमात्रप्रयोगे विरोधाभावाल्लक्षणानुत्यथानात्प्रयोक्तव्ये पदान्तरे सम्भावितसमस्तभ्रान्तिनिरासनसमर्थ पदजातं प्रयोक्तव्यमित्यारोपितभ्रान्तिनिवृत्त्यर्थं परशाखीयमपि पदवृन्दमत्रोपसंहर्तव्यमिति भावः ॥ ११ ॥