तत्र प्रतिज्ञां विभजते -
प्रियेति ।
हेतुं व्याकरोति -
तदिति ।
इष्टवस्तुसामान्याप्तिकृतं प्रीतिमात्रं प्रियम् । पुत्रादिविशेषलाभकृतो हर्षविशेषो मोदः । स एव प्रकृष्टः सन्प्रमोदः । सुखसामान्यमानन्द इत्येवमेते परस्परापेक्षयोपचयापचयरूपा भोक्तृभेदाच्च तथात्वभाजो जीवेषु सुखादिवैचित्र्यदृष्टेरित्यर्थः ।
तेषामेवंरूपत्वोपलम्भेऽपि किमायातमित्याशङ्क्याह -
उपचयेति ।
तर्हि ब्रह्मण्यपि भेदोऽस्तु नेत्याह -
निर्भेदं त्विति ।
अतो यत्र यत्र ब्रह्म प्रतिपाद्यं तत्र तत्र प्रियशिरस्त्वादीनां न प्राप्तिरिति शेषः ।
ब्रह्मधर्मत्वमेषामुपेत्योक्तं तदेव नास्तीत्याह -
नचेति ।
आनन्दमयस्य ब्रह्मत्वे कथं तद्धर्माणामेषामब्रह्मधर्मतेत्याशङ्क्यानन्दमयाधिकरणे वृत्तं स्मारयति -
कोशेति ।
इतश्च प्रियशिरस्त्वादीनां ब्रह्मवाक्ये न प्राप्तिरित्याह -
अपिचेति ।
अस्तु तर्हि चित्तावतारोपायत्वेनैव सर्वत्र ब्रह्मवाक्ये तत्प्राप्तिः, तत्राह -
एवमपीति ।
तेषां ब्रह्मणि चित्तावतारोपायत्वेऽपि न ब्रह्मवाक्ये सर्वत्र प्राप्तिर्द्रष्टव्यत्वेनानुपदेशात् । अब्रह्मधर्मत्वाच्च । चित्तावतारस्तु तत्र तत्रोक्तैरेव धर्मैः सम्भवान्नैषामुपसंहारं काङ्क्षतीत्यर्थः ।
अब्रह्मधर्मत्वेनैषामुपसंहारशङ्काभावादनर्थकमिदं सूत्रमित्याशङ्क्याह -
ब्रह्मेति ।
कृत्वाचिन्ताफलमाह -
स चेति ।
तत्रापि ब्रह्मैक्यात्किमित्यन्योन्यत्रोपसंहारो न स्यादित्याशङ्क्याह -
तेष्विति ।
तेषां ध्यानार्थमुक्तानां विधिपारतन्त्र्याद्यत्र यावद्गुणविशिष्टतयोपास्तिर्विधीयते तत्र तावतामेव ध्येयता नान्येषामित्यन्योन्यत्रानुपसंहार इत्यर्थः ।
उपास्यैक्ये कथमुपास्तिभेदो धर्मभेदो वेत्याशङ्क्याह -
यथाचेति ।
विध्यधीनेषु धर्मेषु विधिमतिक्रम्य सङ्करो नास्तीत्युपसंहर्तुमितिशब्दः ।
सगुणवन्निर्गुणेऽपि ब्रह्मत्वाविशेषादुपसंहारानुपसंहारव्यवस्था किं न स्यात् , तत्राह -
उपचितेति ।
सगुणनिर्गुणयोर्वैषम्यमुक्त्वा सूत्रे विवक्षितं वदन्नुपसंहरति -
अतो नेति ॥ १२ ॥