ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
ननु एवं सति प्रियशिरस्त्वादयोऽपि धर्माः सर्वे सर्वत्र सङ्कीर्येरन् । तथा हि तैत्तिरीयके आनन्दमयमात्मानं प्रक्रम्य आम्नायते — ‘तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इति । अत उत्तरं पठति —

आनन्दमयस्य ब्रह्मणः सर्वत्राभेदात्तद्धर्मत्वेनानन्दादिवत्प्रियशिरस्त्वादयोऽपि तत्र तत्र प्रसज्येरन्नो चेदानन्दादयोऽपि सार्वत्रिका न स्युरिति शङ्कते -

नन्विति ।

ब्रह्मधर्माणां सर्वत्र सङ्करे सतीति यावत् ।

ब्रह्मधर्मतैव तेषामसिद्धेत्याशङ्क्याह -

तथाहीति ।

सूत्रेणोत्तरमाह -

अत इति ।