ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
पर एव आत्मा इह आत्मशब्देन गृह्यते । इतरवत् — यथा इतरेषु सृष्टिश्रवणेषु ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्येवमादिषु परस्यात्मनो ग्रहणम् , यथा च इतरस्मिन् लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते — तथा इहापि भवितुमर्हति । यत्र तु ‘आत्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १) इत्येवमादौ ‘पुरुषविधः’ (बृ. उ. १ । ४ । १) इत्येवमादि विशेषणान्तरं श्रूयते, भवेत् तत्र विशेषवत आत्मनो ग्रहणम् । अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमपि उत्तरम् उपलभ्यते — ‘स ईक्षत लोकान्नु सृजा इति’ (ऐ. उ. १ । १ । १) ‘स इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इत्येवमादि । तस्मात् तस्यैव ग्रहणमिति न्याय्यम् ॥ १६ ॥

इहेत्युदाहरणोक्तिः दृष्टान्तमादाय व्याचष्टे -

इतरवदिति ।

तस्य व्याख्यान्तरमाह -

तथाचेति ।

परस्यैव विश्वस्रष्टृत्वं प्रागेकत्वमात्मत्वं च मुख्यं तदसत्यामनुपपत्तौ नान्यत्रानुमेयम् ।

लोकसृष्टिवचनेऽपि महाभूतसर्गस्य पूर्वसिद्धतया वक्तंु शक्यत्वादिति मत्वा दार्ष्टान्तिकमाह -

तथेति ।

आत्मब्रह्मशब्दयोरन्यथासिद्धिं प्रत्याह -

यत्रेति ।

सति बाधकेऽन्यार्थत्वेऽपि प्रकृते तदभावात्प्रत्युत साधकस्यैव सत्त्वात्परविषयत्वमेवेत्याह -

अत्रेति ।

ईक्षणपूर्वकसर्गस्य परस्मिन्प्रसिद्धत्वे फलितमाह -

तस्मादिति ॥ १६ ॥