पूर्वपक्षबीजमनूद्य दूषयति -
अन्वयादिति ।
अनुवादं विभजते -
वाक्येति ।
परिहारमवतारयति -
अत्रेति ।
स्यादिति पदं पूरयित्वा व्याकरोति -
भवेदिति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
अवधारणं विवृणोति -
परमात्मेति ।
सूत्रग्रहेऽपि स्वविकारापेक्षया तदुक्तमित्याशङ्क्याह -
आञ्जसमिति ।
तदेव व्यतिरेकतः स्फोरयति -
अन्यथेति ।
यच्च लोकस्रष्टृत्वलिङ्गादपरग्रहणं, तत्राह -
लोकेति ।
श्रुत्यन्तरं तैत्तिरीयादिश्रुतिः ।
तत्र दृष्टान्तमाह -
यथेति ।
इहापीत्यैतरेयकोक्तिः ।
श्रुत्यन्तरप्रसिद्धा महाभूतसृष्टिरत्रोपसंहर्तुमशक्या वाक्यभेदादित्याशङ्क्याह -
श्रुत्यन्तरेति ।
नहि तैत्तिरीयादिवाक्यमैतरेवाक्यं च भिन्नं सृष्ट्यनुवादेनाविकृतब्रह्मविषयत्वाविशेषादित्यर्थः ।
यत्तु व्यापारवत्स्वात्मसु प्रसिद्धव्यापारविशेषस्यात्रानुगमाद्विशेषवानेवायमात्मेति, तत्राह -
योऽपीति ।
किञ्चाफले भेदे वेदस्याप्राण्याद्ब्रह्मपरत्वे च फलसम्भवात्तदेव विवक्षितमित्याह -
नहीति ।
पौर्वापर्यालोचनयापि ब्रह्मपरत्वमेवास्य सन्दर्भस्येत्याह -
तथाहीति ।
स परमेश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य च्छिद्रं कृत्वैतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवानिति यावत् ।
इतश्च ब्रह्मपरत्वमेवास्येत्याह -
पुनश्चेति ।
स शरीरे प्रविष्टः परमात्मा तमेव शरीरान्तर्गतं परमात्मानं ब्रह्म ततममेकस्तकारो लुप्तो मन्तव्यस्तततमं व्याप्ततमं यद्ब्रह्म तद्रूपेणैतमात्मानमपश्यदित्यर्थः ।
इतोऽपि वाक्यस्यास्ति ब्रह्मपरतेत्याह -
तथेति ।
यः शरीरे प्रविष्टः परमेश्वर एष एव परब्रह्मपरमात्मा प्रजापतिः सूत्रात्माप्येष एव । प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितं लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् ।
तच्च प्रज्ञानं ब्रह्मैवमवधारणमनेकधा व्याख्याय प्रकृतमुपसंहरति -
तस्मादिति ।