ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
वाक्यान्वयदर्शनात् न परमात्मग्रहणमिति पुनः यदुक्तम् , तत्परिहर्तव्यमिति — अत्रोच्यते — स्यादवधारणादिति । भवेदुपपन्नं परमात्मनो ग्रहणम् । कस्मात् ? अवधारणात् । परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते । अन्यथा हि अनाञ्जसं तत्परिकल्प्येत । लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि; यथा ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येतत् श्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमिति अयूयुजम् , एवमिहापि । श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषु उपसंहर्तव्यो भवति । योऽपि अयं व्यापारविशेषानुगमः ‘ताभ्यो गामानयत्’ इत्येवमादिः, सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः । न ह्ययं सकलः कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम् , तत्प्रतिपत्तौ पुरुषार्थाभावात् । ब्रह्मात्मत्वं तु इह विवक्षितम् । तथा हि — अम्भःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्ट्वा, करणानि करणायतनं च शरीरमुपदिश्य, स एव स्रष्टा ‘कथं न्विदं मदृते स्यात्’ (ऐ. उ. १ । ३ । ११) इति वीक्ष्य, इदं शरीरं प्रविवेशेति दर्शयति — ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’ (ऐ. उ. १ । ३ । १२) इति । पुनश्च ‘यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्’ (ऐ. उ. १ । ३ । ११) इत्येवमादिना करणव्यापारविवेचनपूर्वकम् ‘अथ कोऽहम्’ (ऐ. उ. १ । ३ । ११) इति वीक्ष्य, ‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’ (ऐ. उ. १ । ३ । १३) इति ब्रह्मात्मत्वदर्शनमवधारयति । तथोपरिष्टात् — ‘एष ब्रह्मैष इन्द्रः’ (ऐ. उ. ३ । १ । ३) इत्यादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्य, ‘सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति ब्रह्मात्मत्वदर्शनमेव अवधारयति । तस्मात् इह आत्मगृहीतिरित्यनपवादम् ॥

पूर्वपक्षबीजमनूद्य दूषयति -

अन्वयादिति ।

अनुवादं विभजते -

वाक्येति ।

परिहारमवतारयति -

अत्रेति ।

स्यादिति पदं पूरयित्वा व्याकरोति -

भवेदिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

अवधारणं विवृणोति -

परमात्मेति ।

सूत्रग्रहेऽपि स्वविकारापेक्षया तदुक्तमित्याशङ्क्याह -

आञ्जसमिति ।

तदेव व्यतिरेकतः स्फोरयति -

अन्यथेति ।

यच्च लोकस्रष्टृत्वलिङ्गादपरग्रहणं, तत्राह -

लोकेति ।

श्रुत्यन्तरं तैत्तिरीयादिश्रुतिः ।

तत्र दृष्टान्तमाह -

यथेति ।

इहापीत्यैतरेयकोक्तिः ।

श्रुत्यन्तरप्रसिद्धा महाभूतसृष्टिरत्रोपसंहर्तुमशक्या वाक्यभेदादित्याशङ्क्याह -

श्रुत्यन्तरेति ।

नहि तैत्तिरीयादिवाक्यमैतरेवाक्यं च भिन्नं सृष्ट्यनुवादेनाविकृतब्रह्मविषयत्वाविशेषादित्यर्थः ।

यत्तु व्यापारवत्स्वात्मसु प्रसिद्धव्यापारविशेषस्यात्रानुगमाद्विशेषवानेवायमात्मेति, तत्राह -

योऽपीति ।

किञ्चाफले भेदे वेदस्याप्राण्याद्ब्रह्मपरत्वे च फलसम्भवात्तदेव विवक्षितमित्याह -

नहीति ।

पौर्वापर्यालोचनयापि ब्रह्मपरत्वमेवास्य सन्दर्भस्येत्याह -

तथाहीति ।

स परमेश्वर एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य च्छिद्रं कृत्वैतया द्वारा ब्रह्मरन्ध्रसंज्ञया शरीरं प्रापद्यत प्राप्तवानिति यावत् ।

इतश्च ब्रह्मपरत्वमेवास्येत्याह -

पुनश्चेति ।

स शरीरे प्रविष्टः परमात्मा तमेव शरीरान्तर्गतं परमात्मानं ब्रह्म ततममेकस्तकारो लुप्तो मन्तव्यस्तततमं व्याप्ततमं यद्ब्रह्म तद्रूपेणैतमात्मानमपश्यदित्यर्थः ।

इतोऽपि वाक्यस्यास्ति ब्रह्मपरतेत्याह -

तथेति ।

यः शरीरे प्रविष्टः परमेश्वर एष एव परब्रह्मपरमात्मा प्रजापतिः सूत्रात्माप्येष एव । प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत्प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितं लोकोऽपि भूरादिप्रज्ञानेत्रः प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाऽधिष्ठानम् ।

तच्च प्रज्ञानं ब्रह्मैवमवधारणमनेकधा व्याख्याय प्रकृतमुपसंहरति -

तस्मादिति ।