ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
अपरा योजना — आत्मगृहीतिरितरवदुत्तरात् । वाजसनेयके ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४ । ३ । ७) इत्यात्मशब्देनोपक्रम्य, तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रह्मात्मतामवधारयति । तथा हि उपसंहरति — ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) इति । छान्दोग्ये तु ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति अन्तरेणैवात्मशब्दम् उपक्रम्य उदर्के ‘स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति तादात्म्यमुपदिशति । तत्र संशयः — तुल्यार्थत्वं किमनयोराम्नानयोः स्यात् , अतुल्यार्थत्वं वेति । अतुल्यार्थत्वमिति तावत् प्राप्तम् , अतुल्यत्वादाम्नानयोः । न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम् , आम्नानतन्त्रत्वादर्थपरिग्रहस्य । वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते । छान्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः । ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम्; सत्यमुक्तम् , उपक्रमतन्त्रत्वादुपसंहारस्य, तादात्म्यसम्पत्तिः सा — इति मन्यते । तथा प्राप्ते, अभिधीयते — आत्मगृहीतिः ‘सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्यत्र च्छन्दोगानामपि भवितुमर्हति । इतरवत् — यथा ‘कतम आत्मा’ (बृ. उ. ४ । ३ । ७) इत्यत्र वाजसनेयिनामात्मगृहीतिः, तथैव । कस्मात् ? उत्तरात् तादात्म्योपदेशात् । अन्वयादिति चेत्स्यादवधारणात् — यदुक्तम् , उपक्रमान्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीतिरिति, तस्य कः परिहार इति चेत् , सोऽभिधीयते — स्यादवधारणादिति । भवेदुपपन्ना इह आत्मगृहीतिः, अवधारणात् । तथा हि — ‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य, तत्सम्पिपादयिषया ‘सदेव’ इत्याह; तच्च आत्मगृहीतौ सत्यां सम्पद्यते । अन्यथा हि, योऽयं मुख्य आत्मा स न विज्ञात इति, नैव सर्वविज्ञानं सम्पद्येत । तथा प्रागुत्पत्तेः एकत्वावधारणम् , जीवस्य च आत्मशब्देन परामर्शः, स्वापावस्थायां च तत्स्वभावसम्पत्तिकथनम् , परिचोदनापूर्वकं च पुनः पुनः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यवधारणम् — इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते, न तादात्म्यसम्पादनायाम् । न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्याय्यः । न हि उपक्रमे आत्मत्वसङ्कीर्तनम् अनात्मत्वसङ्कीर्तनं वा अस्ति । सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते, विशेषाकाङ्क्षित्वात्सामान्यस्य । सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः सम्भवति, अतोऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः । आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति, ‘आहर पात्रम्’ ‘पात्रमाहर’ इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात् । तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ १७ ॥

पू्र्ववर्णके विद्यैक्यगुणोपसंहारनिरूपणास्पाष्ट्यान्न साक्षात्पादसङ्गतिरिति तदर्थं वर्णकान्तरमाह -

अपरेति ।

पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वं परित्यज्य विद्यैक्यमुक्तम् । इदानीं भिन्नार्थोपक्रमेण वाक्यभेदशङ्कायामाह -

आत्मेति ।

श्रुतिद्वयगतं वाक्यमुदाहरति -

वाजसनेयक इति ।

उदाहृतवाक्यं त्वमर्थं तदर्थपर्यन्तं लक्षयतीत्यत्र गमकमाह -

तथाहीति ।

तदर्थं त्वमर्थान्तं लक्षयद्वाक्यान्तरमाह -

छान्दोग्ये त्विति ।

सच्छब्दस्यात्मानात्मार्थत्वानिर्णयेन वाक्यद्वये संशयमाह -

तत्रेति ।

अर्थाभेदाद्विद्याभेदोक्त्या वाक्यार्थधीहेतोरेवात्रोक्तिरिति पादादिसंहतिः ।

पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः । सिद्धान्ते तदभेदात्तदुपसंहार इति मत्वार्थभेदाद्विद्याभेदं पूर्वपक्षमाह -

अतुल्येति ।

आम्नानवैषम्येऽपि किमित्यर्थैक्याद्विद्यैक्यं न स्यात् , तत्राह -

नहीति ।

तदेव विशदयति -

वाजसनेयके चेति ।

छान्दोग्येऽपि वाक्यशेषादात्मार्थत्वसिद्धौ कथमाम्नानवैषम्यं कथन्तरामर्थभेदः कथन्तमां विद्यानानात्वमिति शङ्कते -

नन्विति ।

‘स आत्मा तत्त्वमसि’ इति तादात्म्योपदेशमङ्गीकरोति -

सत्यमिति ।

तर्हि तदनुसारेणोपक्रमोऽपि नीयतामित्याशङ्क्याह -

उपक्रमेति ।

स हि सन्दिग्धार्थोपसंहारेण नीयते । प्रकृते तु तस्यासन्दिग्धार्थत्वात्तदनुसारिण्युपसंहारे प्रतिमायां विष्णुदृष्टिवदात्मनि ब्रह्मदृष्टिरेष्टव्येत्यर्थः ।

वाजसनेयिवाक्यं ब्रह्मात्मविद्यार्थं छान्दोग्यवाक्यं त्वात्मनि ब्रह्मदृष्ट्यर्थमिति विद्याभेदमुपसंहरति -

इति मन्यत इति ।

अतुल्यार्थतया विद्याभेदमनूद्य सिद्धान्तमाह -

तथेति ।

तादात्म्योपदेशस्य गत्यन्तरमनूद्य दूषयति -

अन्वयादिति ।

तत्रानुवादं विभजते -

यदिति ।

उपक्रमान्वयात्तत्तन्त्रत्वादुपसंहारस्येति यावत् ।

उपक्रमोऽपि तर्हि सदेवेत्यवधारणादात्मानमेव गोचरयतीत्याशङ्क्याह -

उपक्रम इति ।

तस्मादुपसंहारेऽपि न परमात्मतादात्म्यमात्मनो गृह्यते । नहि सच्छब्देनोपक्रमस्थेनात्मोच्यते तस्य तस्मिन्नप्रसिद्धत्वात् ।

तथाच सतोऽनात्मनस्तादात्म्यसम्पत्तिरात्मनि तत्त्वमसीति विवक्षितेत्याह -

नात्मेति ।

परिहारमादत्ते -

स इति ।

तत्र प्रतिज्ञां व्याचष्टे -

भवेदिति ।

अवधारणादिति हेतुं विवृणोति -

तथाहीति ।

एकविज्ञानेन सर्वविज्ञानं सच्छब्देनानात्मग्रहेऽपि सतः सर्वात्मत्वादविरुद्धमित्याशङ्क्याह -

तच्चेति ।

उक्तमेव व्यतिरेकेण साधयति -

अन्यथेति ।

प्रकारान्तरेण हेतुं व्याचष्टे -

तथेति ।

एकमेवाद्वितीयमित्येकत्वावधारणम् , अनेन जीवेनात्मनेति जीवस्यात्मशब्देन परामर्शः, सति सम्पद्येत्यादि तत्स्वभावापत्तिवचनं, भूय एव मा भगवान्विज्ञापयत्विति परिचोदना ।

हेतुजातस्योक्तस्य फलमाह -

इति च सर्वमिति ।

यत्तूपक्रमतन्त्रेणोपसंहारेण भाव्यमिति, तत्राह -

नचेति ।

अत्र च्छान्दोग्ये स आत्मेत्यादेरुपसंहारस्येति यावत् ।

तत्र हेतुः -

नहीति ।

उपसंहारानुसारेणापि तर्हि नोपक्रमो नेयस्तयोर्भिन्नविषयत्वात् , तत्राह -

सामान्येति ।

सच्छब्दस्य सत्तासामान्यवाचित्वेनात्मानात्मसाधारण्याद्विशेषाकाङ्क्षायामुपसंहारानुसारेणात्मैव तदर्थो निर्णीयते । सन्दिग्धार्थेनोपक्रमेणोपसंहारस्यानिर्णयादुपक्रमानुरोधन्यायस्यासन्दिग्धोपक्रमविषयत्वादित्यर्थः ।

उपक्रमभेदमुपेत्य श्रुतिद्वयेऽपि वेद्यैक्येन विद्यैक्यमुक्तम् । संप्रत्युपक्रमभेदोऽपि नास्तीत्याह -

सच्छब्देति ।

आत्मातिरिक्तस्य सर्वस्यानिर्वाच्यत्वादनात्मनः सच्छब्दार्थासिद्धेरात्मन एव तदर्थत्वान्नोपक्रमभेदोऽस्तीत्यर्थः । यत्त्वाम्नानवैषम्ये सत्यर्थसाम्यमयुक्तमिति, तत्राह -

आम्नानेति ।

तद्वैषम्यास्यार्थभेदेनानवश्यम्भावे फलितमाह -

तस्मादिति ।

एवंजातीयकेषु योऽयं विज्ञानमयः सदेव सोम्येदमित्यादिषु प्रतिपादनप्रकारभेदः समाम्नानविशेषो वाजसनेयके वाक्यार्थान्वयित्वमर्थस्य तदर्थपर्यन्तस्य च्छान्दोग्ये तदर्थस्य त्वमर्थपर्यन्तस्य लक्ष्यतया वाक्यर्थभेदाभावादेकैवोभयत्रापि विद्येत्याह -

प्रतिपाद्येति ॥ १७ ॥