ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कार्याख्यानादपूर्वम् ॥ १८ ॥
छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्य अन्नमाम्नाय, तस्यैव आपो वास आमनन्ति । अनन्तरं च च्छन्दोगा आमनन्ति — ‘तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति’ (छा. उ. ५ । २ । २) इति । वाजसनेयिनस्त्वामनन्ति — ‘तद्विद्वाꣳसः श्रोत्रियाः अशिष्यन्त आचामन्त्यशित्वा चामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ (बृ. उ. ६ । १ । १४) ‘तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते’ इति । तत्र च आचमनम् अनग्नताचिन्तनं च प्राणस्य प्रतीयते । तत्किमुभयमपि विधीयते, उत आचमनमेव, उत अनग्नताचिन्तनमेवेति विचार्यते । किं तावत्प्राप्तम् ? उभयमपि विधीयत इति । कुतः ? उभयस्याप्यवगम्यमानत्वात् । उभयमपि च एतत् अपूर्वत्वात् विध्यर्हम् । अथवा आचमनमेव विधीयते । विस्पष्टा हि तस्मिन्विधिविभक्तिः — ‘तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेत्’ इति । तस्यैव स्तुत्यर्थम् अनग्नतासङ्कीर्तनमित्येवं प्राप्ते ब्रूमः —

सन्दिग्धस्य सदुपक्रमस्य शेषान्निर्णयवदाचामन्तीति वर्तमानापदेशस्य विधित्वसन्देहे शेषादशिष्यन्नाचामेदित्यतो विधिपरत्वं निर्णेयमित्याशङ्क्याह -

कार्येति ।

विषयं वक्तुमविगीतमाम्नानं दर्शयति -

छन्दोगा इति ।

यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमित्युक्त्वा तस्यैव प्राणस्यापो वासो वदन्तीति यावत् ।

छान्दोगानामविशेषाम्नानमुक्त्वा विशेषमाम्नानमाह -

अनन्तरं चेति ।

तस्मादपां प्राणं प्रति वासोरूपत्वादिति यावत् । अशिष्यन्तः श्रोत्रियाः सन्तोऽशनं कुर्वन्तस्तावदेतत्कुर्वन्ति किं तद्भोजनात्पूर्वमूर्ध्वं चाऽद्भिः प्राणं परिदधति परिधापयन्त्याच्छादयन्तीत्यर्थः ।

शाखान्तरेऽपि विशेषाम्नानं कथयति -

वाजसनेयिनस्त्विति ।

यस्मात्प्राणस्यापो वासस्तस्मादित्यस्मिन्नर्थे तच्छब्दः । विद्वांसः प्राणविद्यावन्तस्तेषां यथेष्टचेष्टानिषेधार्थं श्रोत्रियपदम् । एतमेवानं प्राणं तत्तेनाचमनेनानग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते चिन्तयन्तीत्यर्थः ।

काण्वानामाम्नानविशेषमुक्त्वा माध्यन्दिनानामाह -

तस्मादिति ।

यस्मात्पूर्वे प्राणविदः स्वयमाचामन्तः प्राणमनग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते तस्मादिदानीन्तनोऽपि प्राणविदेवं कुर्यादित्यर्थः ।

पाठत्रयेऽप्यापातिकमर्थमाह -

तत्र चेति ।

उभयोरपूर्वत्वमुपेत्याह -

तदिति ।

किञ्च वाक्यभेदप्रसङ्गभयादन्यतरदेव विधेयमिति कल्पान्तरं द्रष्टव्यम् ।

द्वितीयमपि विशेषानवधारणाद्द्वेधा विकल्पयति -

उतेति ।

तत्रापि प्रथमश्रुतत्वमालोच्य प्रथमो विकल्पो दृष्टिविषयसम्पादनेनाचमनस्यानग्नताचिन्तनशेषत्वं मत्वा द्वितीय इति भेदः । अत्र पाठत्रयेऽपि प्राणविद्याङ्गमनग्नताचिन्तनमेकमेव विधेयमिति चिन्ताया वाक्यार्थज्ञानसाधनगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे द्वयोर्विधेयत्वाद्वाक्यभेदोऽन्यतरविधावप्याचमनस्यैत्र विधेयत्वाद्विशेषविषयस्य तस्यान्यत्रोपसंहारः ।

सिद्धान्ते त्वनग्नताचिन्तनस्यैव विधेयत्वाद्वाक्यैक्यादाचमनविशेषस्याविधेयस्य नोपसंहृतिरित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -

किमिति ।

गौरवादुभयविधानमयुक्तमिति शङ्कते -

कुत इति ।

कर्तव्यत्वेन द्वयोरपि तात्पर्यगम्यत्वान्न गौरवमित्याह -

उभयस्येति ।

गम्यमानत्वमात्रेण तात्पर्यगम्यतया विधेयत्वमतिप्रसक्तमित्याशङ्क्याह -

उभयमिति ।

नच स्मृत्याचारसिद्धत्वान्नापूर्वत्वं तयोरेतद्वाक्यमूलत्वात् । नच सामान्यविशेषतया श्रुतिस्मृत्याचाराणां न मूलमूलिता सामान्यसिद्धानृतवदननिषेधस्य क्रतुगामितया विधिवदाचमनस्यापि प्रसिद्धस्यैव प्राणविद्यायोगित्वेन विधानाद्वाक्यभेदप्रसङ्गस्य चोपरिधारणविधिवददोषत्वादिति भावः ।

न युक्तो वाक्यभेदः सत्यां गतावित्याशङ्क्य पक्षान्तरमाह -

अथवेति ।

तत्र हेतुः -

विस्पष्टेति ।

तर्हि किमर्थमनग्नताकीर्तनं, तत्राह -

तस्येति ।

महार्हं हीदमाचमनं यदनेन प्राणोऽनग्नः स्यादिति स्तुतिस्तस्माद्विधेयं विशेषविषयमाचमनमन्यत्र चोपसंहर्तव्यमित्यर्थः ।

सिद्धान्तयति -

एवमिति ।