सन्दिग्धस्य सदुपक्रमस्य शेषान्निर्णयवदाचामन्तीति वर्तमानापदेशस्य विधित्वसन्देहे शेषादशिष्यन्नाचामेदित्यतो विधिपरत्वं निर्णेयमित्याशङ्क्याह -
कार्येति ।
विषयं वक्तुमविगीतमाम्नानं दर्शयति -
छन्दोगा इति ।
यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमित्युक्त्वा तस्यैव प्राणस्यापो वासो वदन्तीति यावत् ।
छान्दोगानामविशेषाम्नानमुक्त्वा विशेषमाम्नानमाह -
अनन्तरं चेति ।
तस्मादपां प्राणं प्रति वासोरूपत्वादिति यावत् । अशिष्यन्तः श्रोत्रियाः सन्तोऽशनं कुर्वन्तस्तावदेतत्कुर्वन्ति किं तद्भोजनात्पूर्वमूर्ध्वं चाऽद्भिः प्राणं परिदधति परिधापयन्त्याच्छादयन्तीत्यर्थः ।
शाखान्तरेऽपि विशेषाम्नानं कथयति -
वाजसनेयिनस्त्विति ।
यस्मात्प्राणस्यापो वासस्तस्मादित्यस्मिन्नर्थे तच्छब्दः । विद्वांसः प्राणविद्यावन्तस्तेषां यथेष्टचेष्टानिषेधार्थं श्रोत्रियपदम् । एतमेवानं प्राणं तत्तेनाचमनेनानग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते चिन्तयन्तीत्यर्थः ।
काण्वानामाम्नानविशेषमुक्त्वा माध्यन्दिनानामाह -
तस्मादिति ।
यस्मात्पूर्वे प्राणविदः स्वयमाचामन्तः प्राणमनग्नं वाससा परिहितं कुर्वन्तो मन्यन्ते तस्मादिदानीन्तनोऽपि प्राणविदेवं कुर्यादित्यर्थः ।
पाठत्रयेऽप्यापातिकमर्थमाह -
तत्र चेति ।
उभयोरपूर्वत्वमुपेत्याह -
तदिति ।
किञ्च वाक्यभेदप्रसङ्गभयादन्यतरदेव विधेयमिति कल्पान्तरं द्रष्टव्यम् ।
द्वितीयमपि विशेषानवधारणाद्द्वेधा विकल्पयति -
उतेति ।
तत्रापि प्रथमश्रुतत्वमालोच्य प्रथमो विकल्पो दृष्टिविषयसम्पादनेनाचमनस्यानग्नताचिन्तनशेषत्वं मत्वा द्वितीय इति भेदः । अत्र पाठत्रयेऽपि प्राणविद्याङ्गमनग्नताचिन्तनमेकमेव विधेयमिति चिन्ताया वाक्यार्थज्ञानसाधनगामित्वात्पादादिसङ्गतिः । पूर्वपक्षे द्वयोर्विधेयत्वाद्वाक्यभेदोऽन्यतरविधावप्याचमनस्यैत्र विधेयत्वाद्विशेषविषयस्य तस्यान्यत्रोपसंहारः ।
सिद्धान्ते त्वनग्नताचिन्तनस्यैव विधेयत्वाद्वाक्यैक्यादाचमनविशेषस्याविधेयस्य नोपसंहृतिरित्यङ्गीकृत्य विमृश्य पूर्वपक्षमाह -
किमिति ।
गौरवादुभयविधानमयुक्तमिति शङ्कते -
कुत इति ।
कर्तव्यत्वेन द्वयोरपि तात्पर्यगम्यत्वान्न गौरवमित्याह -
उभयस्येति ।
गम्यमानत्वमात्रेण तात्पर्यगम्यतया विधेयत्वमतिप्रसक्तमित्याशङ्क्याह -
उभयमिति ।
नच स्मृत्याचारसिद्धत्वान्नापूर्वत्वं तयोरेतद्वाक्यमूलत्वात् । नच सामान्यविशेषतया श्रुतिस्मृत्याचाराणां न मूलमूलिता सामान्यसिद्धानृतवदननिषेधस्य क्रतुगामितया विधिवदाचमनस्यापि प्रसिद्धस्यैव प्राणविद्यायोगित्वेन विधानाद्वाक्यभेदप्रसङ्गस्य चोपरिधारणविधिवददोषत्वादिति भावः ।
न युक्तो वाक्यभेदः सत्यां गतावित्याशङ्क्य पक्षान्तरमाह -
अथवेति ।
तत्र हेतुः -
विस्पष्टेति ।
तर्हि किमर्थमनग्नताकीर्तनं, तत्राह -
तस्येति ।
महार्हं हीदमाचमनं यदनेन प्राणोऽनग्नः स्यादिति स्तुतिस्तस्माद्विधेयं विशेषविषयमाचमनमन्यत्र चोपसंहर्तव्यमित्यर्थः ।
सिद्धान्तयति -
एवमिति ।