ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कार्याख्यानादपूर्वम् ॥ १८ ॥
न आचमनस्य विधेयत्वमुपपद्यते, कार्याख्यानात् — प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृतिप्रसिद्धम् अन्वाख्यायते । ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात्; नेत्युच्यते, विषयनानात्वात् । सामान्यविषया हि स्मृतिः पुरुषमात्रसम्बद्धं प्रायत्यार्थमाचमनं प्रापयति । श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदधती विदध्यात् । न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभावोऽवकल्पते । न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् , पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात् । अत एव च नोभयविधानम् । उभयविधाने च वाक्यं भिद्येत । तस्मात् प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनूद्य, ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ (बृ. उ. ६ । १ । १४) इति प्राणस्य अनग्नताकरणसङ्कल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राणविद्यासम्बन्धित्वेन अपूर्व उपदिश्यते । न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम् , आचमनस्याविधेयत्वात् । स्वयं च अनग्नतासङ्कल्पस्य विधेयत्वप्रतीतेः । न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति — प्रायत्यार्थता परिधानार्थता चेति । क्रियान्तरत्वाभ्युपगमात् — क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते । तदीयासु तु अप्सु वासःसङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम् । अपि च ‘यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम्’ (बृ. उ. ६ । १ । १४) इत्यत्र तावत् न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् , अशब्दत्वादशक्यत्वाच्च । सर्वं तु प्राणस्यान्नमिति इयमन्नदृष्टिश्चोद्यते । तत्साहचर्याच्च ‘आपो वासः’ इत्यत्रापि न अपामाचमनं चोद्यते । प्रसिद्धास्वेव तु आचमनीयास्वप्सु परिधानदृष्टिश्चोद्यत इति युक्तम् । न हि अर्धवैशसं सम्भवति । अपि च आचामन्तीति वर्तमानापदेशित्वात् नायं शब्दो विधिक्षमः । ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम्; सत्यमेवमेतत्; अवश्यविधेये तु अन्यतरस्मिन् वासःकार्याख्यानात् अपां वासःसङ्कल्पनमेव अपूर्वं विधीयते । न आचमनम् । पूर्ववद्धि तत् — इत्युपपादितम् । यदप्युक्तम् — विस्पष्टा च आचमने विधिविभक्तिरिति, तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् । अत एव आचमनस्याविधित्सितत्वात् ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ इत्यत्रैव काण्वाः पर्यवस्यन्ति, न आमनन्ति ‘तस्मादेवंवित्’ इत्यादि तस्मात् माध्यन्दिनानामपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् । योऽप्ययमभ्युपगमः — क्वचिदाचमनं विधीयताम् , क्वचिद्वासोविज्ञानमिति — सोऽपि न साधुः, ‘आपो वासः’ इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् । तस्मात् वासोविज्ञानमेव इह विधीयते, न आचमनमिति न्याय्यम् ॥ १८ ॥

तत्र हेतुमादाय व्याचष्टे -

कार्येति ।

प्रयतस्य प्रयत्नवतो भावः प्रायत्यं शुद्धत्वं तदर्थं स्मार्तमाचमनमनूद्यत इत्युक्तमाक्षिपति -

नन्विति ।

स्मृतेः श्रुतिमूलत्वेन प्रामाण्यादुक्तश्रुतिमूलैव सा । नच स्मृतिसिद्धोऽर्थः श्रुत्यानूद्यते वैपरीत्यापत्तेरित्यर्थः ।

भिन्नविषयत्वान्मूलमूलिभावो नानयोरित्याह -

नेति ।

विषयभेदं विशदयति -

सामान्येति ।

भिन्नविषयत्वे फलितमाह -

नचेति ।

अर्थैकत्वाभावेऽपि तद्भावेऽतिप्रसङ्गादित्यर्थः ।

आचमनान्तरविधानमुपेत्य मूलमूलिभावो निरस्तः, सम्प्रति तदपि नास्तीत्याह -

नचेति ।

नच स्मार्ताचमनस्य श्रुत्यानुवादे वैपरीत्यं त्रिराचामेदित्यादिश्रुतिसिद्धस्यैव सामान्याचमनस्यात्रानुवादादिति मत्वा हेतुमाह -

पूर्वस्येति ।

अनृतवादनिषेधस्य पुरुषार्थतया विहितस्यापि क्रत्वर्थेनाप्राप्तस्य विधानमविरुद्धमाचमनस्य तु सर्वकर्माङ्गतया विहितस्य प्राणोपास्त्यङ्गत्वमपि सिद्धमिति पुनर्विधानानर्थक्यमिति भावः ।

आचमनस्य प्रकृते विधानायोगं हेतूकृत्याद्यं पूर्वपक्षं प्रत्याह -

अतएवेति ।

युक्त्यन्तरमाह -

उभयेति ।

न चोपरिधारणवद्वाक्यनानात्वमदोषः सम्भवत्येकवाक्यत्वे तद्भेदस्यानिष्टत्वादिति भावः ।

तर्हि किमिति विधेयं तदाह -

तस्मादिति ।

अनुवादे हेतुमाह -

प्राप्तमिति ।

अनग्नताकृतिसङ्कल्पे विधित्सिते कृतमनुवादेनेत्याशङ्क्याह -

आचमनीयास्विति ।

प्राणविद्याधिकारे चेदनग्नतासङ्कल्पो विधीयते कथं वाक्यभेदो न स्यादित्याशङ्क्याह -

प्राणेति ।

तस्य विधियोग्यत्वं सूचयति -

अपूर्व इति ।

एतेनापूर्वमिति पदं व्याख्यातम् ।

यत्त्वनग्नतासङ्कीर्तनमाचमनस्तुत्यर्थमिति, तत्राह -

नचेति ।

स्तोतव्यविधेयाभावे स्तुतिरयुक्तेत्यर्थः ।

किञ्च विधेयमप्राप्तं प्राप्तेन स्तूयते न चानग्नतासङ्कल्पोऽन्येन प्राप्तो येन स्तावकः स्यान्न चान्यतोऽप्राप्तमाचमनं येन विधेयतया स्तोतव्यमित्याह -

स्वयं चेति ।

शुद्ध्यर्थं विनियुक्तस्यैवाचमनस्य प्राणपरिधानार्थत्वे विनियुक्तविनियोगविरोधः स्यादित्याशङ्क्याह -

न चेति ।

एकस्य कर्मणः स्यादेकार्थतेत्युत्सर्गादसति बाधके तदनेकार्थत्वासिद्धेः सङ्कल्पविधिपरत्वमेव वाक्यस्येत्याह -

क्रियेति ।

हेतुमेव साधयति -

क्रियान्तरमिति ।

वासःसङ्कल्पक्रियातो भेदादाचमनस्य क्रियान्तरत्वं सङ्कल्पस्यापि परिधानार्थस्याचमनादन्यत्वात्तथात्वमेवं क्रियाभेदे सत्युत्सर्गस्य भङ्गो नास्तीतत्याह -

इत्यनवद्यमिति ।

किञ्च दृष्टिचोदनासाहचर्यादिहापि सैव युक्ता नाचमनचोदनेत्याह -

अपिचेति ।

सर्वान्नभक्षणमेवात्रापि चोद्यते न दृष्टिरित्याश्ङ्क्याह -

अत्रेति ।

दृष्टिवाचकाभावं हेतुमाह -

अशब्दत्वादिति ।

अन्नशब्दवशादभ्यवहरणं भातीत्याशङ्क्याह -

अशक्य्त्वाच्चेति ।

नहि श्वादिमर्यादं सर्वमन्नमेकेनात्तुं शक्यं भक्ष्याभक्ष्यविधिविरोधात् । प्राणविद्यासामर्थ्यादसामर्थ्यविरोधसमाधानं तु सर्वान्नानुमत्यधिकरणे निरस्यमिति भावः ।

अशब्दत्वस्य दृष्टेरपि तुल्यत्वादभ्यवहरणवदविधेयत्वमाशङ्क्य नान्तरीयकतया दृष्टेः शब्देन क्रियमाणत्वादभ्यवहरणस्य तज्जन्यत्वज्ञाप्यत्वयोरभावादनुपपत्तिकज्ञानस्य दृष्टिविधेरेव तच्छान्तावनुत्थानात्तद्विधानमेवैतदित्याह -

सर्वं त्विति ।

तथापि प्रकृते सङ्कल्पविधौ किमायातं तदाह -

तदिति ।

प्रकरणविरोधाद्वाक्यस्य क्रियाविधिपरत्वाभावे किम्परत्वं तदाह -

प्रसिद्धास्विति ।

अस्तु सर्वान्नवाक्ये दृष्टिविधिराचमनवाक्ये तु क्रियैव चोद्यते, तत्राह -

नहीति ।

इतश्चाचमने विधिरत्र नास्तीत्याह -

अपिचेति ।

तर्हि चिन्तनमपि न विधेयं दोषसाम्यादित्याह -

नन्विति ।

आचमनचिन्तनयोर्वर्तमानापदेशमङ्गीकरोति -

सत्यमिति ।

तर्हि द्वयोरविधेयत्वमित्याशङ्क्यानुवादमात्रस्याकिञ्चित्करत्वादन्यतरविधेरावश्यकत्वे सङ्कल्पनमेव विधेयमिति विधान्तरेण सूत्रं योजयति -

अवश्येति ।

तत्र हेतुत्वेनाचमनस्यान्यतः प्राप्तिमुक्तां स्मारयति -

पूर्ववदिति ।

पूर्वपक्षबीजमनुभाष्य दूषयति -

यदपीति ।

पूर्ववत्त्वेनापूर्ववत्त्वाभावेनेति यावत् । तत्र श्रुता विधिविभक्तिरनग्नतासङ्कल्पेन नेया, जतिलयवाग्वा जुहुयादितिवदविवक्षितं वा विधित्वमिति भावः ।

आचमनस्याविधेयत्वे लिङ्गान्तरमाह -

अत इति ।

तर्हि पाठावैयर्थ्यार्थं माध्यन्दिनानामाचमने विधिरिष्यतामित्याशङ्क्य श्रुत्यन्तरानुसारेण तत्रापि चिन्तनमेव विधेयमित्याह -

तस्मादिति ।

एवंवित्त्वमेवेत्युक्तं व्यनक्ति -

प्रकृतेति ।

यदाचामेदित्यनूद्य तदेवंविदिति वेदनमेव विधीयत इत्यर्थः ।

शाखाभेेदेनोदितानुदितहोमवदुभयमपि विधेयमित्येकदेशिमतमाशङ्क्याह -

योऽप्ययमिति ।

एकीयव्यवस्थायोगे फलितमाह -

तस्मादिति ॥ १८ ॥

पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् ।