विद्यैक्ये गुणोपसंहारमुक्त्वा तदैक्येऽपि तदनुपसंहारस्थलं वदन्पूर्वपक्षयति -
सम्बन्धादिति ।
विषयमाह -
बृहदिति ।
आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्तेत्यत्र सत्यशब्दो हिरण्यगर्भवाची तच्च सत्यं हिरण्यगर्भाख्यं ब्रह्म महदित्युपक्रम्येति यावत् ।
तत्तत्रैवं सति यत्तत्सत्यं ब्रह्म सोऽसावादित्यो विधेयापेक्षया पुंलिङ्गप्रयोगः । किं मण्डलमेवादित्यो नेत्याह -
य इति ।
तस्य स्थानभेदेनादित्यचाक्षुषपुरुषात्मनावस्थानमुक्त्वा तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्प्रतिष्ठित इत्यन्योन्यव्यतिषङ्गमुक्त्वादित्यपुरुषस्य य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरो भुव इति बाहू स्वरिति प्रतिष्ठेति व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहरित्यादित्यपुरुषस्याहर्नामत्वमुक्तम् । अनन्तरं च योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादिना व्याहृतिदेहत्वं सम्पाद्य तस्योपनिषदहमित्यहंनामत्वमुक्तम् । उपनिषदिति देवतामुपगमयतीति तत्प्रकाशकं रहस्यं नामोच्यते ।
अहःशब्दः प्रकाशवचनोऽहंशब्दः प्रत्यगात्मवाची तदाह -
तस्येत्यादिना ।
उपनिषद्द्वयं विषयीकृत्य सत्यब्रह्मैक्यस्थानभेदाभ्यां संशयमाह -
तत्रेति ।
अत्र च सत्यविद्यायामुपनिषद्व्यवस्थोक्त्या वाक्यार्थधीहेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्याद्गुणोपसंहारनियमे सत्युपनिषदोः साङ्कर्यादतिदेशासिद्धिः ।
सिद्धान्ते विद्यैक्येऽपि स्थानभेदोपलब्धानां धर्माणामनुपसंहारादुपनिषदोरसङ्करादतिदेशः स्यादिति मत्वा पूर्वपक्षसूत्रमादत्ते -
तत्रेति ।
सूत्राक्षराणि योजयति -
यथेति ।
उपनिषदोर्विद्यैक्ये सङ्करः शङ्क्येत तदैक्यं कथमित्याशङ्क्याह -
एकेति ।
विद्यैक्ये हेतुमाह -
उपक्रमेति ।
सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावन्योन्यस्मिन्नित्यादिव्यतिषक्तपाठस्ताभ्यां विद्यैक्यं सिद्धमित्यर्थः ।
तदैक्येऽपि किं स्यात्तदाह -
कथमिति ।
विद्यैक्येऽपि स्थानभेदादुपनिषदोरसङ्करः स्यादित्याशङ्क्य दृष्टान्तेन परिहरति -
यो हीति ।
तस्योपनिषदिति प्रकृतस्त्यपरामर्शात्तस्य प्रधानस्याभेदाद्विशेषणतया स्थानस्योपसर्जनत्वाद्गुणप्रधानयोश्च प्रधाने संप्रत्ययात्तदविनाभावात्तदुपसंहारो गुणानामित्यर्थः ।
विद्यैक्ये गुणोपसंहारध्रौव्ये फलितमाह -
तस्मादिति ॥ २० ॥