ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न वा विशेषात् ॥ २१ ॥
न वा उभयोः उभयत्र प्राप्तिः । कस्मात् ? विशेषात् , उपासनस्थानविशेषोपनिबन्धादित्यर्थः । कथं स्थानविशेषोपनिबन्ध इति, उच्यते — ‘य एष एतस्मिन्मण्डले पुरुषः’ (बृ. उ. ५ । ५ । ३) इति हि आधिदैविकं पुरुषं प्रकृत्य, ‘तस्योपनिषदहः’ इति श्रावयति । ‘योऽयं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । ४) इति च आध्यात्मिकं पुरुषं प्रकृत्य, ‘तस्योपनिषदहम्’ इति । तस्येति च एतत् सन्निहितावलम्बनं सर्वनाम । तस्मात् आयतनविशेषव्यपाश्रयेणैव एते उपनिषदावुपदिश्येते । कुत उभयोरुभयत्र प्राप्तिः । ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः, एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् । सत्यमेवमेतत् । एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति । अस्ति चायं दृष्टान्तः — सत्यपि आचार्यस्वरूपानपाये, यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम् , न तत् तिष्ठतो भवति । यच्च तिष्ठत उक्तम् , न तदासीनस्येति । ग्रामारण्ययोस्तु आचार्यस्वरूपानपायात् तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः । तस्मात् व्यवस्था अनयोरुपनिषदोः ॥ २१ ॥

वाशब्दस्यावधारणार्थत्वमुपेत्य प्रतिज्ञां विभजते -

न वेति ।

ध्येयाभेदे ध्यानभेदात्किमिति न प्राप्तिरित्याह -

कस्मादिति ।

हेतुं गृहीत्वा व्याचष्टे -

विशेषादिति ।

ध्यानध्येयोपसर्जनभूतौ स्थानविशेषौ ताभ्यामुपनिषदोर्योगाद्व्यवस्था तयोर्युक्तेत्यर्थः ।

तस्येतिपरामृष्टब्रह्मणो नामद्वयविधाने तस्य स्थानविशेषसङ्गतिरसिद्धेति शङ्कते -

कथमिति ।

उपनिषदोः स्थानविशेषयोगं साधयति -

उच्यत इति ।

निष्कृष्टं ब्रह्मैव प्रधानं तच्छब्दमुपनिषद्भ्यां सम्बद्धमित्याशङ्क्याह -

तस्येति ।

तस्योपनिषदित्युभयत्र तच्छब्देनाधिदैवादिविशिष्टस्यैव परामर्शात्तद्योगित्वादुपनिषदोः स्वरूपमात्रासम्बन्धात्तद्द्वयं व्यवस्थयानुसन्धेयम् । नहि सर्वनाम संनिहितं हित्वा व्यवहितं स्पृशतीत्यर्थः ।

तच्छब्दस्य विशिष्टार्थत्वे फलितमाह -

तस्मादिति ।

विशेषणभेदेऽपि विशेष्यभेदादुपसंहारः स्यादिति शङ्कते -

नन्विति ।

विशेष्यभेदमङ्गीकरोति -

सत्यमिति

तर्हि कथमुपनिषद्व्यवस्थेत्याशङ्क्य विशेष्टभेदात्तन्निष्ठत्वाच्च तयोरित्याह -

एकस्येति ।

उक्तेऽर्थे दृष्टान्तमाह -

अस्तीति ।

प्रतिदृष्टान्तोऽपि दर्शित इत्याशङ्क्याह -

ग्रामेति ।

तत्र स्वरूपोपाधावुक्तात्वाद्युक्तं तुल्यत्वमिह तु विशिष्टोपाधावुक्तेर्व्यवस्थेत्यर्थः ।

विशिष्टोपाध्युक्तिफलमाह -

तस्मादिति ॥ २१ ॥