ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
‘ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान’ इत्येवं राणायनीयानां खिलेषु वीर्यसम्भृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते । तेषामेव च उपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते । तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन् , न वेति विचारणायाम् , ब्रह्मसम्बन्धादुपसंहारप्राप्तौ एवं पठति । सम्भृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः, अत एव च आयतनविशेषयोगात् । तथा हि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् — ‘एष म आत्मान्तर्हृदये’ (छा. उ. ३ । १४ । ३) इति; तद्वदेव दहरविद्यायामपि — ‘दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । २) इति । उपकोसलविद्यायां तु अक्ष्यायतनत्वम् — ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ४ । १५ । १) इति । एवं तत्र तत्र तत्तत् आध्यात्मिकमायतनम् एतासु विद्यासु प्रतीयते । आधिदैविक्यस्तु एता विभूतयः सम्भृतिद्युव्याप्तिप्रभृतयः । तासां कुत एतासु प्राप्तिः । नन्वेतास्वपि आधिदैविक्यो विभूतयः श्रूयन्ते — ‘ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’ (छा. उ. ३ । १४ । ३) ‘एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति’ (छा. उ. ४ । १५ । ४) ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ (छा. उ. ८ । १ । ३) इत्येवमाद्याः । सन्ति च अन्या आयतनविशेषहीना अपि इह ब्रह्मविद्याः षोडशकलाद्याः — सत्यमेवमेतत्; तथाप्यत्र विद्यते विशेषः सम्भृत्याद्यनुपसंहारहेतुः — समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशा गुणा उपसंह्रियेरन्निति युक्तम् । सम्भृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वात् न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमाः । न च ब्रह्मसम्बन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युचितम् , विद्याभेदेऽपि तदुपपत्तेः । एकमपि हि ब्रह्म विभूतिभेदैरनेकधा उपास्यत इति स्थितिः, परोवरीयस्त्वादिवद्भेददर्शनात् । तस्मात् वीर्यसम्भृत्यादीनां शाण्डिल्यविद्यादिषु अनुपसंहार इति ॥ २३ ॥

आयतनभेदाद्गुणानुपसंहारमुक्त्वा तेनैव हेतुना सम्भृतिप्रभृतीनां गुणानां विद्यान्तरेष्वनुपसंहारमाह -

सम्भृतीति ।

पूर्वन्यायेनैव वाक्यान्तरं व्याख्यातुमुदाहरति -

ब्रह्मेति ।

वीर्या वीर्याणि पराक्रमभेदाः । अन्ये हि पुरुषाः सहायानपेक्ष्य विक्रमान्बिभ्रति तेन तत्पराक्रमाणां तत एव नियतपूर्वत्वरूपकारणत्वे न ज्येष्ठा भवन्ति किन्तु तत्सहक्रारिणोऽपि ब्रह्मवीर्याणां तु ब्रह्मैव ज्येष्ठं ब्रह्म ज्येष्ठं येषां तानि तथा । ब्रह्म खल्वनन्यापेक्षं जगज्जन्मादि करोति । किञ्चान्येषां पराक्रममाणानां बलवद्भिर्मध्ये भङ्गः सम्भवति तेन ते स्ववीर्याणि न बिभ्रति । ब्रह्मवीर्याणि तु ब्रह्मणा सम्भृतान्यविघ्नेन सम्भृतानीत्यर्थः । तज्ज्येष्ठं ब्रह्माग्रे देवादिजन्मतः प्रागेव दिवं स्वर्गमाततान व्याप्तवन्नित्यमेव विश्वव्यापकमित्यर्थः । ‘ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः’ इत्युत्तरो भागः । खिलेषु विधिनिषेधहीनेषु परिशिष्टोपदेशेषु ग्रन्थेष्विति यावत् ।

विषयमुक्त्वा संशयं वक्तुं भूमिकां करोति -

तेषामिति ।

ब्रह्मसम्बन्धाद्विद्याभेददृष्ट्या च संशयमाह -

तास्विति ।

अत्र च विद्याभेदेन गुणानुपसंहारोक्त्या वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे विद्याभेदस्य गुणव्यवस्थापकत्वासिद्धिः । सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षयति -

ब्रह्मेति ।

न चाधिदैविकगुणानामाध्यात्मिकविद्यास्वनुपसंहारः । एष हि सर्वेषु लोकेषु भातीत्यादिषु व्यभिचारात् । अनुपसंहारे च पृथगुपासनं तत्फलं च कल्प्यमिति गौरवम् । अतो द्युनिवेशादीनां ब्रह्मसम्बन्धेन सर्वत्र प्रत्यभिज्ञानादुपसंहार इत्यर्थः ।

सिद्धान्तमवतार्य योजयति -

एवमिति ।

सम्भृतिश्च द्युव्याप्तिश्च सम्भृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव विशेषयोगव्यवस्थानादित्यर्थपरतया सूत्रं व्याख्यातमित्यर्थः ।

इदानीं चकारस्यावधारणार्थत्वं गृहीत्वा हेतुं विवृणोति -

तथाहीति ।

आयतनभेदयोगमुक्तमुपसंहरति -

एवमिति ।

कथं तावता सम्भृत्यादीनामेतासु विद्यास्वनुपसंहारः, तत्राह -

आधिदैविक्यस्त्विति ।

आध्यात्मिकविद्यास्वपि सम्भृत्याद्याधिदैविकगुणानामुपसंहारः स्यादिति लिङ्गेन शङ्कते -

नन्विति ।

ज्यायान्दिव इति शाण्डिल्यविद्यायामेष उ एवेत्याद्युपकोसलविद्यायां यावान्वा अयमाकाश इति दहरविद्यायामिति भेदः । अध्यात्माधिदैवभेदादनुपसंहारश्चेत्तर्हि तद्भेदशून्योपासनासूपंहारः स्यादित्याह -

सन्ति चेति ।

आध्यात्मिकविद्यास्वाधिदैविकविभूतीनामायतनभेदशून्यब्रह्मधियां चास्मिन्प्रकरणे सत्त्वमङ्गीकरोति -

सत्यमिति ।

तर्हि षोडशकलाद्यासु ब्रह्मविद्यासु सम्भृत्यादिगुणानां किमित्युपसंहारो न स्यादित्याशङ्क्याह -

तथापीति ।

विशेषहेतुमेव विवृणोति -

समानेति ।

प्रकृतेऽपि विद्याप्रत्यमिज्ञया गुणोपसंहारः स्यादित्याशङ्क्याह -

सम्भृत्यादयस्त्विति ।

तद्धर्मविशिष्टब्रह्मणः शाण्डिल्यादिविद्यासु श्रुतमनोमयत्वादिधर्मकब्रह्मणश्च भेदान्न प्रत्यभिज्ञेति नोपसंहार इत्यर्थः ।

विशिष्टभेदेऽपि स्वरूपाभेदात्प्रत्यभिज्ञयोपसंहारसिद्धिमाशङ्क्याह -

नचेति ।

कतिपयगुणविशिष्टतयोभयत्राम्नानं विना स्वरूपमात्रस्यैव प्रत्यभिज्ञानस्य ज्ञानाभेदकत्वे स्यादतिप्रसक्तिरित्यर्थः ।

तामेव व्यनक्ति -

एकमपीति ।

एकस्यानेकगुणवत्त्वेनानेकधोपास्यत्वे दृष्टान्तमाह -

परेति ।

यथोद्गीथस्यैव परोवरीयस्त्वादिगुणवत्त्वेन हिरण्यश्मश्रुत्वादिगुणवत्त्वेन च बहुधोपसनं दृष्टं तथा ब्रह्मणोऽपि तत्तद्गुणकत्वेनानेकधोपासनाद्ब्रह्मसम्बन्धमात्रेण प्रत्यभिज्ञाने स्यादतिप्रसक्तिरित्यर्थः ।

सम्भृत्यादीनां मनोमयत्वादीना च विद्याप्रत्यभिज्ञापकत्वायोगे फलिताह -

तस्मादिति ॥ २३ ॥