ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
वेधाद्यर्थभेदात् ॥ २५ ॥
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः — ‘सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः’ इत्यादिः । ताण्डिनाम् — ‘देव सवितः प्रसुव यज्ञम्’ इत्यादिः । शाट्यायनिनाम् — ‘श्वेताश्वो हरितनीलोऽसि’ इत्यादिः । कठानां तैत्तिरीयाणां च — ‘शं नो मित्रः शं वरुणः’ (तै. उ. १ । १ । १) इत्यादिः । वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते — ‘देवा ह वै सत्रं निषेदुः’ इत्यादि । कौषीतकिनामपि अग्निष्टोमब्राह्मणम् — ‘ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति’ इति । किमिमे सर्वं प्रविध्येत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् , किं वा न उपसंह्रियेरन् — इति मीमांसामहे । किं तावत् नः प्रतिभाति ? उपसंहार एव एषां विद्यास्विति । कुतः ? विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् । ननु एषां विद्यार्थतया विधानं नोपलभामहे — बाढम् , अनुपलभमाना अपि तु अनुमास्यामहे, सन्निधिसामर्थ्यात् । न हि सन्निधेः अर्थवत्त्वे सम्भवति, अकस्मादसावनाश्रयितुं युक्तः । ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः । कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति । नैष दोषः । सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किञ्चित् शक्यं कल्पयितुम् , हृदयादिसङ्कीर्तनात् । हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि । तद्द्वारेण च ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम्; दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः — ‘भूः प्रपद्येऽमुनाऽमुनाऽमुना’ (छा. उ. ३ । १५ । ३) इत्येवमादिः । तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः — वाजपेय इव बृहस्पतिसवस्य — इत्येवं प्राप्ते ब्रूमः —

तत्तदुपनिषदारम्भे ते ते मन्त्रास्तानि तानि च कर्माणि श्रुतानि विषय इति वक्तुमारभते -

अस्तीति ।

अभिचारदेवतामभिचारकर्ता प्रार्थयते -

सर्वमिति ।

हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय । विशेषतश्च हृदयं प्रविध्य भिन्धि । धमनीः शिराः प्रवृज्य विभज त्रोटय । तदीयं शिरश्चाभितो विदारय । एवं मद्रिपुर्बहुधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । विश्वप्रकाशकत्वात्तत्प्रसवहेतुत्वाच्च देव सवितरित्यादित्यः सम्बोध्यते । स च यज्ञस्य यज्ञपतेश्च यजमानस्य निर्वर्तने नियुज्यते प्रसुवेति । उच्चैःश्रवाः श्वेतोऽश्वो यस्य तव स त्वं श्वेताश्वोऽसि हरित इन्द्रनीलस्तद्वन्नीलोऽसीतीन्द्रः सम्बोध्यते । मित्रो नामादित्यो नोऽस्माकं सुखकरो भूयादिति विद्यार्थी प्रार्थयते । एवं शं वरुण इत्यादि योज्यम् ।

इन्द्रादयो देवाः किल कस्मिंश्चित्पूर्वस्मिन्काले सत्रं निर्वर्तयितुं निविष्टवन्तः इत्युपक्रम्य प्रवर्ग्याख्यं कर्म श्रुतमित्याह -

देवा इति ।

अग्निष्टोमब्राह्मणमुपनिषदारम्भे पठ्यत इति सम्बन्धः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म, अतश्चैतदहरहर्निर्वर्त्यं कर्म ये केचिदुपयन्त्यनुतिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपङ्गच्छन्ति ते चामृतत्वं परं ब्रह्म क्रमेण प्राप्नुवन्तीत्यर्थः ।

विषयमुक्त्वोपकारभावाभावमानाभ्यां संशयमाह -

किमित्यादिना ।

अत्र च विद्यासांनिध्याम्नातानामपि मन्त्रादीनां तदुपकारकत्वाभावेनातच्छेषतया नान्यत्रोपसंहार्यतेत्युक्तिद्वारा विचारस्य ज्ञानहेतुयोगात्पादादिसङ्गतिः ।

पूर्वपक्षे मंन्त्रादीनां विद्योपाधावुपसंहारः । सिद्धान्ते त्वनुपसंहार इत्यभिप्रेत्य विमृश्य पूर्वपक्षयति -

किमिति ।

विनियोजकमानाभावे कथं विद्याशेषतेति शङ्कते -

कुत इति ।

‘फलवत्संनिधावफलं तदङ्गम्’ इतिन्यायात्फलवद्विद्यासंनिध्याम्नातानां तदङ्गतेत्याह -

विद्येति ।

श्रुत्यादीनां विनियोजकानामन्यतमस्याप्यनुपलम्भादारभ्य काञ्चन विद्यामनाम्नानादाम्नाताङ्गैरेव पूर्णाया नैराकाङ्क्ष्या्न्नैषां विद्याशेषतेति शङ्कते -

नन्विति ।

विद्याया नैराकाङ्क्ष्येऽपि मन्त्रादीनां फलवत्त्वाय फलवन्नियोगसाकाङ्क्षत्वात्फलवद्विद्यासंनिहितानां तच्छेषतया फलवत्त्वे फलान्तरकल्पनायोगादेकतराकाङ्क्षायां विद्याकाङ्गक्षामापाद्य प्रकरणाद्याक्षेपेण तच्छेषतेत्याह -

बाढमिति ।

संनिधेर्धर्मसाम्येऽपि सम्भवान्न विद्याशेषतेत्याशङ्क्याह -

नहीति ।

अकस्मात्फलं विनेति यावत् । अनुष्ठेयप्रकाशित्वान्मन्त्राणां विद्याशेषमर्थमप्रकाशयतां न तच्छेषतेति शङ्कते -

नन्विति ।

कर्मणां विद्याशेषत्वं संनिधेरुक्तं प्रत्याह -

कथं चेति ।

पुरस्तादुपसदां प्रवर्ग्यण प्रचरन्तीतिवाक्येन प्रवर्ग्यस्य क्रतुशेषत्वसिद्धेर्न संनिधेर्विद्याशेषत्वं तस्य वाक्याद्दौर्बल्यादग्निष्टोमादेश्च ज्योतिष्टोमादिवाक्येन स्वर्गादिफलत्वज्ञानान्न विद्याशेषतेत्यर्थः ।

मन्त्राणां कर्मणां च विद्याशेषत्वाभावं दूषयति -

नेति ।

तत्र मन्त्राणां विद्यासमवेतार्थप्रकाशनेन तच्छेषत्वं साधयति -

सामर्थ्यमिति ।

हृदयादीत्यादिपदेन नाडीनामादित्यादेश्च सङ्ग्रहः ।

तथापि कथं मन्त्राणां विद्यादिविषयं सामर्थ्यं, तत्राह -

हृदयेति ।

तदसम्बद्धान्यपि सन्ति कानिचिदुपासनानीति प्रायेणेत्युक्तम् ।

हृदयादिपदस्य विद्यासमवेतार्थत्वेऽपि कथमितरेषां मन्त्रपदानां विद्याशेषतेत्याशङ्क्य हृदयादिपदानुसारेण तदेकवाक्यतया पदान्तराणामपि यथाकथञ्चिदुपास्त्यर्थतेत्याह -

तदिति ।

उपास्तिषु मन्त्रविनियोगस्यादृष्टेरश्लिष्टा कल्पनेत्याशङ्क्याह -

दृष्टश्चेति ।

पुत्रस्य दीर्घायुष्ट्वार्थं छान्दोग्ये त्रैलोक्यं कोशत्वेन परिकल्प्योपास्तिरुक्ता । तत्र पितुरयं प्रार्थनामन्त्रो भूरित्यादि । अमुनेति पुत्रस्य त्रिर्नाम गृह्णात्यमुना देवदत्तनाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ।

यत्तु प्रवर्ग्यादीनामन्यत्र विनियोगातन्न विद्याशेषतेति, तत्राह -

तथेति ।

यद्यपि पुरस्तादुपसदामित्यादिवाक्यं प्रवर्ग्यादीनामन्यशेषत्ववादिविद्याशेषत्वसाधकसंनिधेर्बलीयस्तथाप्यविरोधान्न वाक्येन बाध्यः संनिधिर्वाक्येनान्यत्र विनियुक्तस्यापि प्रवर्ग्यादेः संनिधिना विद्यास्वपि विनियोगादित्यर्थः ।

तत्र दृष्टान्तमाह -

वाजपेय इति ।

‘ ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत’ इति ब्रह्मवर्चसफलोऽपि बृहस्पतिसवो ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति वाजपेयाङ्गत्वेन विधीयते क्त्वाप्रत्ययादेककर्तृकतासिद्धेरेकप्रयोगतामन्तरेण तदयोगादेकप्रयोगताया गुणप्रधानभावापेक्षत्वाद्वाजपेयप्रकरणाम्नानात्तस्याङ्गित्वं बृहस्पतिसवस्याङ्गत्वम् । नन्वेवं मीमांसकानां मुद्राभेदः कृतो यदि बृहस्पतिसववाक्यं प्रकरणान्तरस्थबृहस्पतिसवविपरिवृत्त्यर्थं कस्तर्हि वाजपेयाङ्गविधिः । अथैष विघिः कथं तर्हि प्रकरणान्तरस्थबृहस्पतिसवस्येह संनिधिः । न चैकमेव वाक्यं दूरस्थं कर्म संनिधापयत्यङ्गत्वेन च विदधाति । तस्मात्प्रकरणान्तरे कौण्डपायिनवत्कर्मान्तरं बृहस्पतिसवस्तन्नाम तु प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथाच कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयत इति मतद्वयेऽपि स्थिते कथं विनियुक्तविनियोगाशङ्केति सत्यमभ्युपेत्य वादोऽयं खादिरत्वादि चात्र व्यवस्थितमुदाहरणम् । नच साधिकारयोरपि कर्मणोरङ्गाङ्गित्वे दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेत्यत्रापि स्याद्दर्शपूर्णमासयोः सोमस्य वा प्रकरणे तद्वचनानाम्नानात्तयोरगृह्यमाणविशेषतया गुणप्रधानत्वासिद्धेर्भिन्नप्रयोगत्वेऽपि क्रिययोः कर्तृत्वाधिष्ठानपुरुषस्यैक्यात्प्रत्ययसिद्धेरङ्गाङ्गित्वप्रमापकाभावे चाधिष्ठानलक्षणाविरोधाद्दर्शपूर्णमासोत्तरकालता सोमानुष्ठानस्येति कालार्थोऽयं संयोगः । प्रकृते तु प्रकरणाध्ययनसिद्धये प्रत्ययप्रमि तमङ्गाङ्गित्वमतो बृहस्पतिसवस्यान्यत्र विनियुक्तस्यैव वाजपेये क्त्वाप्रत्ययेन विनियोगवत्प्रवर्ग्यादीनामपि विनियुक्तानामेवान्यत्र संनिधिना विद्यास्वपि विनियोग इति भावः ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेवानुपसंहारं प्रतिजानीते -

एवमिति ।