ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
अस्ति ताण्डिनां श्रुतिः — ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि’ (छा. उ. ८ । १३ । १) इति । तथा आथर्वणिकानाम् — ‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ (मु. उ. ३ । १ । ३) इति । तथा शाट्यायनिनः पठन्ति — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति । तथैव कौषीतकिनः — ‘तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम्’(कौ॰उ॰ १-४) इति । तदिह क्वचित् सुकृतदुष्कृतयोर्हानं श्रूयते । क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनम् । क्वचित्तु उभयमपि हानमुपायनं च । तद्यत्रोभयं श्रूयते तत्र तावत् न किञ्चिद्वक्तव्यमस्ति । यत्राप्युपायनमेव श्रूयते, न हानम् , तत्राप्यर्थादेव हानं सन्निपतति, अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोः आवश्यकत्वात्तद्धानस्य । यत्र तु हानमेव श्रूयते, नोपायनम् — तत्रोपायनं सन्निपतेद्वा, न वेति विचिकित्सायाम् — अश्रवणादसन्निपातः, विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य । अपि च आत्मकर्तृकं सुकृतदुष्कृतयोर्हानम् । परकर्तृकं तु उपायनम् । तयोरसत्यावश्यकभावे, कथं हानेनोपायनमाक्षिप्येत ? तस्मादसन्निपातो हानावुपायनस्येति ॥

विद्यासंनिधौ श्रुतस्यापि मन्त्रादेर्विद्यायामसामर्थ्यादनुपसंहारवत्क्वचिदेव हानसंनिधौ श्रुतस्योपायनस्य तदन्तरेणापि हानसम्भवेन तदुपपादनासामर्थ्यादनुपसंहार इत्याशङ्क्याह -

हानौ त्विति ।

विषयं वक्तुं तत्तच्छाखास्थवाक्यान्युदाहरति -

अस्तीत्यादिना ।

यथाऽश्वो जीर्णानि रोमाणि रजोभिः सह शातयित्वा स्वच्छो भवति तथाहमपि पापं सर्वं विधूय निर्मलः सन्ब्रह्मलोकमभिसम्भवामीति सम्बन्धः । यथा च चन्द्रो राहुग्रस्तो राहोर्मुखात्प्रमुच्य भास्वरो भवत्येवं शरीरमकृतमशुद्धं प्रवाहरूपेणानादिसिद्धं वा धूत्वा त्यक्त्वा स्वच्छो भूत्वा कृतः सिद्धो न पुनरपूर्वपुण्योपचयेन साध्यो यस्यात्मा सोऽहं कृतकृत्यः सन्ब्रह्मलक्षणं रूपमभिसम्भवामि प्रत्यक्त्वेन प्राप्नोमीत्यर्थः । तथा ताण्डिनामिवाथर्वणिकानामस्ति श्रुतिरिति सम्बन्धः ।

‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय’ इति दृष्टान्तं परामृशति -

तथेति ।

ताण्डिनश्चाथर्वणिकाश्च तथेत्युच्यन्ते -

तस्येति ।

विदुषो मृतस्येत्यर्थः । तथैवेति शाट्यायनिनो दृष्टान्तिताः । तत्तेन विद्याबलेन सुकृतं च दुष्कृतं च ते विधूनुते निरस्यति विद्वानित्यर्थः ।

त्यक्तयोस्तयोर्विनियोगं दर्शयति -

तस्येति ।

विषयपरिशेषार्थमापाततो वाक्यार्थमाह -

तदिति ।

तत्तत्र श्रुताविहोदाहृतेषु वाक्येष्विति यावत् । क्वचित्ताण्डिनामाथर्वणिकानां च श्रुतावित्यर्थः । क्वचित्तयोरेवेत्यत्र क्वचिदिति शाट्यायनिश्रुतिरुक्ता क्वचित्तूभयमित्यत्र क्वचिदिति कौषीतकिश्रुतिर्गृह्मते ।

तत्र कौषीतकिश्रुतिर्न विचारापेक्षेत्याह -

तदिति ।

शाट्यायनिश्रुतिरपि नापेक्षते विचारमित्याह -

यत्रेति ।

आर्थिकं हानसंनिपातं साधयति -

अन्यैरिति ।

परिशिष्टं विषयमाह -

यत्र त्विति ।

हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह -

तत्रेति ।

अत्र च विद्यास्तुतिप्रकर्षप्रयोजनस्योपायनोपसंहारस्योक्त्या वाक्यार्थधीहेतुवर्णनात्पादादिसङ्गतिः ।

पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति मत्वा पूर्वपक्षं गृह्णाति -

अश्रवणादिति ।

क्वचिदश्रवणेऽप्यन्यत्र श्रवणादिहोपसंहारमाशङ्क्याह -

विद्येति ।

विद्यैक्ये सत्युपसंहारः स्यान्न चेह तदस्ति कौषीतकिगतपर्यङ्कविद्यायाः सगुणत्वात्ताण्ड्याथर्वणिकश्रुत्योश्च पुण्यपापविधूननहेतुत्वेन श्रुतविद्याया निर्गुणत्वादिति यत्र हानमेव श्रुतं तत्र नोपायनं संनिपतेदित्यर्थः ।

न केवलमश्रवणादननुवृत्तिर्युक्तिविरोधादपीत्याह -

अपिचेति ।

यथा शाट्यायनिश्रुतावुपायने श्रुते हानानुवृत्तिस्तथा ताण्ड्यादिश्रुतावपि हाने श्रुते स्यादुपायनानुवृत्तिरित्याशङ्क्य तत्रानुपपत्त्या सम्बन्धेऽपि प्रकृते नैवमित्याह -

तयोरिति ।

अश्रवणादिफलमुपसंहरति -

तस्मादिति ।

अनुपसंहारे स्तुतिप्रकर्षासिद्धिरिति वक्तुमितीत्युक्तम् ।