मन्त्रयोर्विद्यानानात्वमनुपसंहारश्चेति पक्षमनूद्य बहिरेव सिद्धान्तमाह -
एवमिति ।
तत्र प्रश्नपूर्वकं हेतुत्वेन सूत्रं योजयति -
कुत इति ।
इयत्तापरिच्छिन्नमित्येतदेव व्याचष्टे -
द्वित्वेति ।
रूपमेदाद्विद्याभेदं स्मारयति -
नन्विति ।
रूपभेदासिद्ध्या प्रत्याह -
नेति ।
अर्थान्तरशब्देन जीवो गृह्यते ।
जीवानुवादेन तद्याथार्थ्यं परमात्मतत्त्वं प्रतिपाद्यमित्येतदाथर्वणादिमन्त्रे साधयति -
द्वा सुपर्णेति ।
तत्र वाक्यशेषमनुकूलयति -
वाक्येति ।
तमेव दर्शयति । तथापि काठके भोक्रोरेवोक्तेर्नेश्वरार्थतेत्याशङ्क्याह -
ऋतमिति ।
मन्त्रद्वयेऽपि द्वित्वसङ्ख्यादृष्टेरुभयोस्तुल्यतां विना च द्वित्वसङ्ख्यायोगाच्चेतनस्य जीवस्य परमात्मैव चेतनत्वात्तुल्य इति पिबन्तावित्यस्य लक्षणा बलादायातीत्यर्थः ।
किञ्च प्रकरणादपि परमात्मैवात्र भातीत्याह -
परमात्मेति ।
उपक्रमवदुपसंहारोऽपि तद्विषय एवेत्याह -
तदिति ।
अत्रापीत्यपिशब्दादाथर्वणिकादिवाक्यं दृष्टान्त्यते । उपक्रमोपसंहारैकरूप्यान्मध्यमपि तथा नेयमिति भावः ।
सिद्धार्थत्वाच्च मन्त्रद्वयस्य परविषयतेत्याह -
गुहामिति ।
मन्त्रद्वयस्य परमात्मैकार्थत्वाद्रूपाभेदाद्विद्याभेदो नेति निगमयति -
तस्मादिति ।
न केवलं मन्त्रद्वयमेव परविषयं किन्तु तत्संनिध्याम्नातं सर्वमपि मन्त्रजातमित्याह -
अपिचेति ।
आथर्वणिकश्वेताश्वतरकाठकविवक्षया त्रिष्वित्युक्तम् ।
किमिति तर्हि जीवोपादानं तदाह -
तादात्म्येति ।
ऐक्यं वक्तुं जीवोऽनूद्यत इत्यर्थः ।
तदनुवादेन परप्रतिपादनेऽपि कुतो विद्यैक्यं, तत्राह -
नचेति ।
प्रागेव मन्त्रद्वयस्य सिद्धार्थत्वे किमनेनाधिकरणेनेत्याशङ्क्याह -
तस्मादिति ।
गुणोपसंहारप्रस्तावे मन्त्रद्वयविवरणं कुत्रोपयुक्तं, तत्राह -
तस्माच्चेति ॥ ३४ ॥