ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
अथ यदुक्तम् — अनभ्युपगम्यमाने विद्याभेदे आम्नानभेदानुपपत्तिरिति, तत्परिहर्तव्यम्; अत्रोच्यते — नायं दोषः । उपदेशान्तरवदुपपत्तेः । यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके — ‘स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति नवकृत्वोऽप्युपदेशे न विद्याभेदो भवति, एवमिहापि भविष्यति । कथं च नवकृत्वोऽप्युपदेशे विद्याभेदो न भवति ? उपक्रमोपसंहाराभ्यामेकार्थतावगमात् — ‘भूय एव मा भगवान्विज्ञापयतु’ (छा. उ. ६ । ५ । ४) इति च एकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितत्वेन उपक्षेपात् आशङ्कान्तरनिराकरणेन च असकृदुपदेशोपपत्तेः । एवमिहापि प्रश्नरूपाभेदात् , ‘अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति च परिसमाप्त्यविशेषात् उपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्येते । ‘यदेव साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ५ । १) इति द्वितीये प्रश्ने एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थम् उत्तरत्रानुकृष्यमाणं दर्शयति । पूर्वस्मिंश्च ब्राह्मणे कार्यकरणव्यतिरिक्तस्य आत्मनः सद्भावः कथ्यते । उत्तरस्मिंस्तु तस्यैव अशनायादिसंसारधर्मातीतत्वं कथ्यते — इत्येकार्थतोपपत्तिः । तस्मात् एका विद्येति ॥ ३६ ॥

पूर्वपक्षबीजमनूद्य दूषयति -

अन्यथेति ।

तत्रानुवादं व्याकरोति -

अथेति ।

परिहारमवतारयति -

अत्रेति ।

नञोऽर्थमुक्त्वा दृष्टान्तेनाम्नानभेदोपपत्तिं सूत्रावयवार्थमाह -

नेत्यादिना ।

तदेव विवृणोति -

यथेति ।

दृष्टान्तोऽपि संमतो नेति शङ्कते -

कथञ्चेति ।

दृष्टान्ते विद्यैक्यं साधयति -

उपक्रमेति ।

ऐकार्थ्यसिद्धौ हेत्वन्तरमाह -

भूय इति ।

एकस्यैव भूयःशब्दात्प्रतिपाद्यत्वे पौनरुक्त्यमित्याशङ्क्याह -

आशङ्क्यान्तरेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

इहेति ब्राह्मणद्वयोक्तिः । एवकारसामर्थ्यादपि विद्यैक्यमित्याह -

यदेवेति ।

यत्साक्षादपरोक्षादेव न कदाचिदपि परोक्षमित्येवमेवकारो योज्यतामित्याशङ्क्य व्यवहितान्वयान्मैवमिति मत्वाह -

पूर्वेति ।

कथं तर्हि पौनरुक्त्यादानर्थक्यापत्तिसमाधिः, तत्राह -

पूर्वस्मिन्निति ।

उषस्तप्रश्ने कार्यकरणविरहः साध्यते यः प्राणेन प्राणितीत्यादिनिर्देशात्कहोलप्रश्ने त्वशनायादिविरहो योऽशनायापिपासे शोकं मोहमित्यादिदर्शनात्तथा चैकस्यैवाकारभेदेनोक्तौ पौनरुक्त्यं कुतस्त्यमित्याह -

इत्येकार्थतेति ।

ऐकार्थ्ये फलितमाह -

तस्मादिति ॥ ३६ ॥