परकीयव्याख्यामुत्थापयति -
केचिदिति ।
तद्दूषयति -
तन्नेति ।
कर्मसम्बन्धिनीत्यत्र कर्म ज्योतिष्टोमस्तदङ्गभूतोद्गीथव्यपाश्रयत्वमेव विद्याया विशदयति -
तत्रेति ।
उद्गीथशब्दवाच्यर्क्सामगेष्णत्वात्परमात्मोद्गीथशब्दवाच्य इत्याह -
तस्मादिति ।
अथ य एषोऽन्तरादित्य इत्यस्यादिमध्यावसान ऋक्सामयोः कर्माङ्गयोः पृथिव्यादिदृष्टिविशिष्टयोर्ध्येयत्वदृष्टेरादित्याक्षिपुरुषविशिष्टकर्माङ्गोद्गीथध्यानं छान्दोग्येऽभीष्टमित्यर्थः ।
वाजसनेयकेऽपि कर्माङ्गावबद्धमेव ध्यानमिष्टमिति न विद्यानानात्वमित्याशङ्क्याह -
नैवमिति ।
नित्यकाम्याग्निहोत्रयोर्धात्वर्थाभेदेऽपि साध्यभेदेन भेदवदुपास्यैक्येऽपि फलभेदेन विद्ययोर्भेदे गुणानुसंहार इत्युपसंहरति -
तत्रेति ॥ ३८ ॥