तद्यत्तत्सत्यमितिप्रकृताकर्षणाद्रूपाभेदाद्गुणोपसंहारश्चेत्क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति । रूपभेदाद्गुणानुपसंहारः स्यादित्याशङ्क्याह -
कामादीति ।
सगुणनिर्गुणविद्याविषयं वाक्यमुदाहरति -
अथेति ।
परावरविद्यागता वशित्वादयः सत्यकामादयश्च गुणा विषयास्ते किमन्योन्यत्र नोपसंहर्तंव्याः किंवोपसंहर्तव्या इत्युभयत्रोभयेषामुपयोगभावाभावाभ्यां संशये ध्यानस्तुत्युपयोगित्वेन गुणानामन्योन्यत्रोपसंहारोक्त्या वाक्यार्थधीतद्धेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे क्वचिदाकाशस्य ध्येयत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति विशेषसिद्धिः ।
सिद्धान्तेऽपि ब्रह्मण एवाकाशशब्दत्वादुक्तविशेषोपपत्तिरित्यङ्गीकृत्य सिद्धान्तमाह -
तत्रेति ।
अवयववाचकेनावयविग्रहे दृष्टान्तमाह -
यथेति ।
पदार्थमुक्त्वा वाक्यार्थमाह -
यदेतदिति ।
हेतुमुक्तं विवृणोति -
समानं हीति ।
आदिपदेनात्मत्वादि गृह्यते । बहुतरसाम्यदर्शनादितरेतरगुणोपसंहार इत्यर्थः ।
अस्याधिकरणस्य पूर्वपक्षमाह -
नन्विति ।
नायं विशेषस्तत्राप्याकाशस्य ब्रह्मत्वादित्याह -
नेत्यादिना ।
सगुणनिर्गुणतया विद्याभेदादपहतपाप्मत्वादीनां वशित्वादीनां चेतरेतरत्रानुपसंहार इत्याशङ्क्याह -
अयं त्विति ।
वाजसनेयकेऽपि वशित्वाद्युपदेशदर्शनाद्ब्रह्म सगुणमेवेत्याशङ्क्याह -
स्तुत्यर्थमिति ।
तत्र निर्णायकत्वेन वाक्यशेषं दर्शयति -
तथाचेति ।
कथं तर्हि गुणोपसंहारः सूत्रितः, तत्राह -
गुणवतस्त्विति ।
साम्यबाहुल्याद्ब्रह्मणो ध्येयस्य स्तूयमानस्येतरेतरत्र संनिधानाच्च क्वचिदुपास्यत्वाय क्वचिच्च स्तुतिपौष्कल्यायाकाङ्क्षितत्वात्तत्तद्गुणसंयोगयोग्यत्वाच्च ब्रह्मणो वशित्वादीनामपहतपाप्मत्वादीनां चेतरेतरत्रोपसंहारः । स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायां युक्तः स्तुत्यर्थत्वेनान्वयः । ध्येयत्वं त्वपूर्वविध्येकगम्यम् । यत्र वशित्वादयः श्रुता न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् । स्तुत्वर्थत्वं तु स्यात्तदपि न शब्दतस्तत्रैषां नयनमपेक्षते सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धिः । अतोऽन्तर्भावमात्रमुपसंहार इति भावः ॥ ३९ ॥