ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । १) इति प्रस्तुत्य, छन्दोगा अधीयते — ‘एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । १ । ५) इत्यादि । तथा वाजसनेयिनः — ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते सर्वस्य वशी’ (बृ. उ. ४ । ४ । २२) इत्यादि । तत्र विद्यैकत्वं परस्परगुणयोगश्च, किं वा नेति संशयःविद्यैकत्वमिति । तत्रेदमुच्यते — कामादीति, सत्यकामादीत्यर्थः — यथा देवदत्तो दत्तः, सत्यभामा भामेति । यदेतत् छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते, तदितरत्र वाजसनेयके ‘स वा एष महानज आत्मा’ इत्यत्र सम्बध्येत । यच्च वाजसनेयके वशित्वादि उपलभ्यते, तदपि इतरत्र छान्दोग्ये ‘एष आत्माऽपहतपाप्मा’ (छा. उ. ८ । १ । ५) इत्यत्र सम्बध्येत । कुतः ? आयतनादिसामान्यात् । समानं हि उभयत्रापि हृदयमायतनम् , समानश्च वेद्य ईश्वरः, समानं च तस्य सेतुत्वं लोकासम्भेदप्रयोजनम् — इत्येवमादि बहु सामान्यं दृश्यते । ननु विशेषोऽपि दृश्यते — छान्दोग्ये हृदयाकाशस्य गुणयोगः, वाजसनेयके तु आकाशाश्रयस्य ब्रह्मण इति — न, ‘दहर उत्तरेभ्यः’ (ब्र. सू. १ । ३ । १४) इत्यत्र च्छान्दोग्येऽपि आकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् । अयं तु अत्र विद्यते विशेषः — सगुणा हि ब्रह्मविद्या छान्दोग्ये उपदिश्यते — ‘अथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामान्’ (छा. उ. ८ । १ । ६) इत्यात्मवत् कामानामपि वेद्यत्वश्रवणात् , वाजसनेयके तु निर्गुणमेव परम्ब्रह्म उपदिश्यमानं दृश्यते — ‘अत ऊर्ध्वं विमोक्षाय ब्रूहि’ (बृ. उ. ४ । ३ । १४) ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिप्रश्नप्रतिवचनसमन्वयात् । वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके सङ्कीर्त्यते । तथा च उपरिष्टात् ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति । गुणवतस्तु ब्रह्मण एकत्वात् विभूतिप्रदर्शनाय अयं गुणोपसंहारः सूत्रितः, नोपासनाय — इति द्रष्टव्यम् ॥ ३९ ॥

तद्यत्तत्सत्यमितिप्रकृताकर्षणाद्रूपाभेदाद्गुणोपसंहारश्चेत्क्वचिदाकाशस्योपास्यत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति । रूपभेदाद्गुणानुपसंहारः स्यादित्याशङ्क्याह -

कामादीति ।

सगुणनिर्गुणविद्याविषयं वाक्यमुदाहरति -

अथेति ।

परावरविद्यागता वशित्वादयः सत्यकामादयश्च गुणा विषयास्ते किमन्योन्यत्र नोपसंहर्तंव्याः किंवोपसंहर्तव्या इत्युभयत्रोभयेषामुपयोगभावाभावाभ्यां संशये ध्यानस्तुत्युपयोगित्वेन गुणानामन्योन्यत्रोपसंहारोक्त्या वाक्यार्थधीतद्धेतुचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे क्वचिदाकाशस्य ध्येयत्वं क्वचित्तदाश्रयस्य ज्ञेयतेति विशेषसिद्धिः ।

सिद्धान्तेऽपि ब्रह्मण एवाकाशशब्दत्वादुक्तविशेषोपपत्तिरित्यङ्गीकृत्य सिद्धान्तमाह -

तत्रेति ।

अवयववाचकेनावयविग्रहे दृष्टान्तमाह -

यथेति ।

पदार्थमुक्त्वा वाक्यार्थमाह -

यदेतदिति ।

हेतुमुक्तं विवृणोति -

समानं हीति ।

आदिपदेनात्मत्वादि गृह्यते । बहुतरसाम्यदर्शनादितरेतरगुणोपसंहार इत्यर्थः ।

अस्याधिकरणस्य पूर्वपक्षमाह -

नन्विति ।

नायं विशेषस्तत्राप्याकाशस्य ब्रह्मत्वादित्याह -

नेत्यादिना ।

सगुणनिर्गुणतया विद्याभेदादपहतपाप्मत्वादीनां वशित्वादीनां चेतरेतरत्रानुपसंहार इत्याशङ्क्याह -

अयं त्विति ।

वाजसनेयकेऽपि वशित्वाद्युपदेशदर्शनाद्ब्रह्म सगुणमेवेत्याशङ्क्याह -

स्तुत्यर्थमिति ।

तत्र निर्णायकत्वेन वाक्यशेषं दर्शयति -

तथाचेति ।

कथं तर्हि गुणोपसंहारः सूत्रितः, तत्राह -

गुणवतस्त्विति ।

साम्यबाहुल्याद्ब्रह्मणो ध्येयस्य स्तूयमानस्येतरेतरत्र संनिधानाच्च क्वचिदुपास्यत्वाय क्वचिच्च स्तुतिपौष्कल्यायाकाङ्क्षितत्वात्तत्तद्गुणसंयोगयोग्यत्वाच्च ब्रह्मणो वशित्वादीनामपहतपाप्मत्वादीनां चेतरेतरत्रोपसंहारः । स्तुतिर्हि दृष्टेन द्वारेण कर्तुं शक्येति सगुणविद्यासु ध्येयत्वेनोक्तानामपि गुणानां निर्गुणविद्यायां युक्तः स्तुत्यर्थत्वेनान्वयः । ध्येयत्वं त्वपूर्वविध्येकगम्यम् । यत्र वशित्वादयः श्रुता न तत्रैषां ध्येयत्वेन विधानमित्यन्यत्र गतानामपि न ध्येयत्वम् । स्तुत्वर्थत्वं तु स्यात्तदपि न शब्दतस्तत्रैषां नयनमपेक्षते सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वादिसिद्धिः । अतोऽन्तर्भावमात्रमुपसंहार इति भावः ॥ ३९ ॥