ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आदरादलोपः ॥ ४० ॥
छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते — ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣳ स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा’ (छा. उ. ५ । १९ । १) इत्यादि । तत्र पञ्च प्राणाहुतयो विहिताः । तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ‘य एतदेवं विद्वानग्निहोत्रं जुहोति’ (छा. उ. ५ । २४ । २) इति, ‘यथेह क्षुधिता बाला मातरं पर्युपासते एवꣳ सर्वाणि भूतान्यग्निहोत्रमुपासते’ (छा. उ. ५ । २४ । ५) इति च । तत्रेदं विचार्यते — किं भोजनलोपे लोपः प्राणाग्निहोत्रस्य, उत अलोप इति । ‘तद्यद्भक्तम्’ इति भक्तागमनसंयोगश्रवणात् , भक्तागमनस्य च भोजनार्थत्वात् , भोजनलोपे लोपः प्राणाग्निहोत्रस्येत्येवं प्राप्ते, न लुप्येतेति तावदाह । कस्मात् ? आदरात् । तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुतिः — ‘पूर्वोऽतिथिभ्योऽश्नीयात् । यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्’ इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा, स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति । या हि न प्राथम्यलोपं सहते, नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते । ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रापितः — न, तस्य द्रव्यविशेषविधानार्थत्वात् । प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्निहोत्रशब्दात् कौण्डपायिनामयनवत् तद्धर्मप्राप्तौ सत्याम् , भक्तद्रव्यकतागुणविशेषविधानार्थम् इदं वाक्यम् ‘तद्यद्भक्तम्’ इति । अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् । भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधिन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ ४० ॥

उपास्तिलोपेऽपि स्तुत्यर्थत्वेन गुणालोपवत्पूर्वोऽतिथिभ्य इत्यादिश्रुत्युपपत्तये भोजनलोपेऽपि प्राणाग्निहोत्रालोप इति चोदयति -

आदरादिति ।

वैश्वानरविद्यागतं प्राणाग्निहोत्रं विषयत्वेनोपन्यस्यति -

छान्दोग्य इति ।

स इति वैश्वानरविद्याविदुक्तः । श्रुतितात्पर्यार्थं सङ्गृह्णाति -

तत्रेति ।

सन्देहार्थं शब्दान्तरप्रयोगं पूर्वपक्षबीजमाह -

तास्विति ।

न कश्चिदपि पाप्मा तं स्पृशतीति यच्छब्दस्य सम्बन्धः । प्राणाग्निहोत्रे यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह -

तत्रेति ।

उपास्तिविचारप्रस्तावेन तद्गतप्रथमभोजनाश्रितविचारद्वारा वाक्यार्थधीहेतुविचारसङ्क्रान्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे प्रतिनिधिन्यायेन प्राणाग्निहोत्रकार्यताध्रौव्यम् ।

सिद्धान्ते तदनवतारात्तदनावश्यकत्वमित्याशयेन पूर्वपक्षसूत्रव्यावर्त्यां सिद्धान्ताशङ्कामुत्थापयति -

तद्यदिति ।

भक्तागमनसम्बन्धात्प्राणाग्निहोत्रस्येति सम्बन्धः । नच होमस्य भक्तागमनप्रयोजकत्वं भोजनप्रयुक्तभक्तोपजीवित्वादतस्तल्लोपे लोपात्पूर्वपक्षाभावादधिकरणमनारभ्यमित्यर्थः ।

सूत्रेण पूर्वपक्षं समादधानोऽधिकरणारम्भमुपपादयति -

एवमिति ।

तावच्छब्दः सिद्धान्तशङ्कानिरासार्थः ।

पूर्वपक्षी प्रश्नपूर्वकं स्वं हेतुमवतारयति -

कस्मादिति ।

आदरमेव स्फोरयति -

तथाहीति ।

विध्यपेक्षितमर्थवादं दर्शयति -

यथेति ।

ननु स्वामिभोजनस्य प्राथम्याभावोऽत्र निन्द्यते कथमेतावता भोजनलोपेऽपि प्राणाग्निहोत्रं न लुप्यते, तत्राह -

या हीति ।

अतिथिभोजनोत्तरकालविहितमपि स्वामिभोजनमपोद्यातिथिभोजनात्प्रागेव प्राणआग्निहेत्रलक्षणं स्वामिभोजनं प्रतिपादयन्ती श्रुतिस्तस्य प्राथम्यधर्मलोपमपि न सहते तत्र धर्मिलोपसहनं तु दूरनिरस्तमित्यर्थः ।

पूर्वपक्षाक्षेपं स्मारयति -

नन्विति ।

तद्यद्भक्तमितिवाक्यस्यान्यार्थत्वाद्भोजनलोपेऽपि नास्ति लोपोऽग्निहोत्रस्येति दूषयति -

नेति ।

तदेव प्रपञ्चयति -

प्राकृते हीति ।

इहापीति प्राणाग्निहोत्रं सप्तम्यर्थः । -

कौण्डपायिनामयनवदिति ।

स्थितं भेदलक्षणे प्रकरणान्तरे प्रयोजनान्यत्वम् । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र नित्याग्निहोत्रे मासगुणो वा विधीयते कर्मान्तरं वेति सन्देहे प्रदेशभेदे सत्यपि नाम्ना नित्याग्निहोत्रस्य बुद्धिसंनिधापनात्तत्समभिव्याहृताख्यातस्य तत्संनिधापितार्थपरत्वान्नित्याग्निहोत्रानुवादेन मासविधिरिति प्राप्ते कालस्य पुरुषानिष्पाद्यत्वेनानुपादेयत्वाज्जुहोतीत्याख्यातेन होमानुवादेन मासविधेरयोगात्तदुद्देशेन नित्याग्निहोत्रविधेरपि तदसंनिधेरसम्भवान्नाम्ना च सिद्धार्थबोधिना पूर्वापरीभूततयाख्यातेनोक्तस्यानुपस्थापनात्प्रकरणभेदे प्रयोजनस्य विधेयभावनाख्यस्यान्यत्वमिति कर्मान्तरविधिरिति तद्धर्मप्राप्ताविति सप्तमे स्थितम् ‘उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात् ‘ । मासमग्निहोत्रं जुहोतीत्यत्रैवाग्निहोत्रशब्दो नित्याग्निहोत्रधर्मानिहातिदिशेन्न वेति सन्देहे गौणत्वाभावादग्निहोत्रशब्दस्य जुहोतिसामानाधिकरण्याविशेषादत्रापि नामधेयत्वान्नातिदिशेदिति प्राप्ते सिद्धे कर्मभेदेऽनेकार्थत्वस्यान्याय्यत्वादेकत्राग्निहोत्रशब्दस्य मुख्यत्वादन्यत्र गौणत्वान्नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तस्याग्निदेवतासम्बन्धस्य भावात्तत्रैव मुख्यत्वात्परशब्दस्य परत्र सादृश्यात्प्रवृत्तिरिति तत्सिद्ध्यर्थं नित्यधर्मानतिदिशति क्रियाया नित्याग्निहोत्रस्याभिधानं नामधेयमग्निहोत्रपदमुक्तं तत्प्रख्याधिकरणे । तस्यान्यत्र श्रवणे विधिप्रदेशो विधेयधर्मातिदेशः स्यादिति सूत्रार्थः । तथाच यथा कुण्डपायिनामयनगते कर्मणि प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्नत्वेन सिद्धे नैयमिकाग्निहोत्रवाचकाग्निहोत्रशब्दप्रयोगात्तद्धर्मातिदेशरूपधर्मान्तरप्राप्तिः । तथा नैयमिकाग्निहोत्रे पयोघृतादीनां प्रसिद्धत्वात्प्राणाग्निहोत्रे च नित्याग्निहोत्रवाचिशब्दात्तद्धर्माणां पयःप्रभृतीनां प्राप्तौ भोजनगतभक्तद्रव्यकृताभिधानार्थं तद्यद्भक्तमिति वाक्यमित्यर्थः ।

तथापि भोजनार्थभक्तोपजीवित्वात्प्राणाग्निहोत्रस्य भोजनलोपे लोपः स्यात् , तत्राह -

अत इति ।

अग्न्याधाने पवमानेष्टिष्वग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपतीत्याद्यासु प्रकृतावग्निहोत्रहवण्या हविर्निर्वपेदिति विहितो हविर्निर्वापोऽतिदेशेन प्राप्तो न चाधानकालेऽग्निहोत्रमिति कुतोऽग्निहोत्रहवणी येन तन्निर्वापस्य तल्लोपे लोपप्राप्तौ दाशमिकं सिद्धान्तमाह -

गुणेति ।

विकृतौ हि कार्यद्वारा पदार्थाः प्राप्नुवन्ति तेन हविःसंस्कारार्थो निर्वापः प्रथमं प्राप्तस्तद्द्वारा च तदङ्गमग्निहोत्रहवणी पश्चात्प्राप्नोति तेनाङ्गस्याग्निहोत्रहवण्या लोपेऽपि मुख्यस्य लोपो नास्तीति प्रकृते भोजनलोपेऽपि न लुप्यते प्राणाग्निहोत्रमित्यर्थः । प्रतिनिधिन्यायेनेत्यग्निहोत्रादिनित्यकर्मसु घृतव्रीह्याद्यलाभे कर्मोत्सर्गे प्राप्ते नित्यानामनित्यानां वारब्धानामवश्यकार्यत्वात्प्रतिनिहितैः श्रुतैश्च क्रियमाणप्रयोगस्यावशिष्टत्वेन प्रत्यभिज्ञानात्प्रतिनिधायापि कर्म कर्तव्यमित्यधिकारलक्षणे स्थितम् । तथाच भोजनलोपेऽपि जलादिना केनापि द्रव्येण प्राणाग्निहोत्रमनुष्ठेयमित्यर्थः ॥ ४० ॥