तत्र प्रतिज्ञां विभजते -
उपेति ।
पूर्वोऽतिथिभ्योऽश्नीयादितिश्रुत्या विशिनष्टि -
प्रथमेति ।
भोजनाभावे तत्प्रयुक्तद्रव्याभावेऽपि स्वतन्त्रद्रव्येण प्राणाग्निहोत्रं निर्वर्त्यमिति शङ्कते -
कस्मादिति ।
सौत्रं हेतुमादत्ते -
तदिति ।
तद्धोमीयमिति तच्छब्देन प्रकृताकाङ्क्षेण स्वोक्तिपर्यवसानार्थं यद्भक्तं प्रथममागच्छेदिति संनिहितं भोजनार्थं भक्तं गमयितव्यमिति न स्वतन्त्रद्रव्यं प्रयोक्तव्यं तच्छब्दविरोधादिति व्याचष्टे -
तथाहीति ।
सिद्धस्य प्रमितस्यानन्तरप्रकृतस्यार्थस्य यथा तच्छब्देन परामर्शस्तथा भक्तस्य भोजनार्थमुपनिपातो नामागमनं तस्य यस्तच्छब्देन परामर्शस्तेन परार्थं भोजनार्थं यद्भक्तं द्रव्यं तेन साध्यतां निर्वर्त्यतामिति यावत् ।
भोजनार्थागतभक्तद्रव्योद्देशेन तद्धोमीयमित्याहुतिविधाने फलितमाह-
ता इति ।
अाहवनीयाभावे होमाभाववदामिक्षार्थदध्यानयनाभावे वाजिनाभाववच्चोद्देश्याभावे सत्युपादेयस्याप्रवृत्तेर्भोजनार्थद्रव्यलोप एव प्राणाग्निहोत्रस्येत्यर्थः ।
यत्त्वग्निहोत्रशब्दात्तद्धर्मप्राप्तौ भक्तद्रव्यकतागुणविधानार्थं तद्यद्भक्तमित्यादि वाक्यमिति, तत्राह -
नचेति ।
अर्थवादस्थाग्निहोत्रशब्दस्य किञ्चित्सादृश्यमादाय स्तावकत्वेनापि सम्भवान्न तद्वशात्प्राणाग्निहोत्रे नैयमिकाग्निहोत्रधर्मप्राप्तिरित्यर्थः ।
कौण्डपायिनवदित्युक्तं विघटयति -
कुण्डेति ।
दार्ष्टान्तिके प्रागुक्तमेव वैषम्यं विशदयति -
इहेति ।
प्राणाग्निहोत्रं सप्तम्यर्थः ।
विपक्षे दोषमाह -
तद्धर्मेति ।
तेषामपि प्राप्तौ का हानिः, तत्राह -
नचेति ।
असम्भवमेव तेषां साधयति -
अग्नीति ।
अग्न्याधारहोमाभावात्प्राणाग्निहोत्रे नाग्न्युद्धरणसिद्धिरित्यर्थः ।
अस्तु प्रस्तुतेऽपि तदर्थमेवाग्न्युद्धरणं नेत्याह -
नचेति ।
आहुतीनामग्न्याधारत्वाभावे युक्त्यन्तरमाह -
भोजनेति ।
तर्हि किमिहाहुतीनामधिकरणं तदाह -
आस्य इति ।
प्राणाग्निहोत्रे होमाधिकरणमास्यमेवेत्यत्र श्रुत्यन्तरमाह -
तथाचेति ।
आहुतीनामास्याधारत्वे प्राणाग्निहोत्रेऽग्निहोत्रशब्दान्नैयमिकाग्निहोत्रधर्माप्राप्तौ च गमकमाह -
अत इति ।
तद्धर्मप्राप्तौ मुख्यानामेव सम्भवात्सम्पादनवैयर्थ्यमित्यर्थः ।
उर एव वेदिरित्यत्रावान्तरविशेषमाह -
वेदीति ।
अत्रेति प्राणाग्निहोत्रोक्तिः । वेदिकरणस्यापि सम्पादनार्थमितराङ्गवदिह सङ्कीर्तनं किं न स्यात् , तत्राह -
मुख्येति ।
दर्शपूर्णमासवन्मुख्येऽग्निहोत्रे वेदिकरणाभावेऽपि प्रकृते ध्यानार्था वेदिरुच्यतामित्याशङ्क्याह -
तदङ्गानां चेति ।
अग्निहोत्रवदग्न्युद्धरणायोगमुक्त्वा कालद्वयावरोधोऽपि नास्तीत्याह -
भोजनेनेति ।
अग्न्युद्धरणादावुक्तान्यायमतिदिशति -
एवमिति ।
आदिशब्देन परिस्तरणादयो गृह्यन्ते ।
सिद्धान्तसूत्रार्थमुपसंहरति -
तस्मादिति ।
धर्मलोपमपि श्रुतिरसहमाना सुतरां न सहते धर्मिलोपमित्युक्तमनूद्य दूषयति -
यत्त्विति ।
धर्मिलोपाभावपक्षे धर्मोऽपि न लुप्यते न चैतावता धर्मिणो नित्यतेत्यर्थः ।
अतिथिभोजनोत्तरकालता स्वामिभोजनस्य श्रुतिस्मृतिसिद्धा तत्कथं प्राथम्यविधानं, तत्राह -
नहीति ।
प्राणाग्निहोत्रातिरिक्तविषयं स्वामिभोजनस्योत्तरकालत्वविधानमित्यर्थः ।
प्राणाग्निहोत्रस्य प्राथम्ये कथमागन्तुकत्वं, तत्राह -
न त्विति ।
अनेन प्राथम्यविधानेनेति यावत् । अस्य प्राणाग्निहोत्रस्येत्यर्थः । तस्य नित्यतां विना प्राथम्यसिद्धेरुक्तत्वादिति भावः ।
आदरोक्तेरन्यथासिद्धौ फलितमाह -
तस्मादिति ।
प्रतिनिधिन्यायो नावतरतीति फलितं वक्तुमितीत्युक्तम् ॥ ४१ ॥