प्रतिज्ञां विभजते -
यानीति ।
नित्यपर्णमयीत्वादिवदित्येतदनुमानतो नियमे निवेदिते नानियमप्रतिज्ञेति शङ्कते -
कुत इति ।
तत्र सूत्रपदमवतारयति -
तद्दृष्टेरिति ।
तस्यानियमस्य दृष्टेरिति व्याचक्षाणः श्रौतैर्लिङ्गैर्विद्यानामनङ्गत्वसाधनैरनुमानं बाध्यमित्याह -
तथाहीति ।
तेनेत्योङ्काराख्यमक्षरमुक्तम् । एतदक्षरमुद्गीथावयवभूतमेवं रसतमादिगुणकं यो वेद यश्च न तथा तावुभावपि ज्ञाज्ञौ कर्म कुरुत इति योजना ।
विद्यायाः कर्माङ्गत्वानियमे लिङ्गान्तरमाह -
प्रस्तावादीति ।
‘तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यति’ इति चाक्रायणेनाक्षेपकरणादविद्वत्ता प्रस्तोत्रादेः सिद्धेत्यर्थः ।
उद्गीथाद्युपास्तीनां पृथक्फलश्रवणादपि न कर्माङ्गतेत्यवशिष्टसूत्रावयवं व्याचष्टे -
अपिचेति ।
ज्ञानाभावे कर्मफलप्रतिबन्धे ज्ञानस्य कर्माङ्गता स्यादित्याशङ्क्याह -
तदिति ।
कर्मफलस्य वीर्यवत्तरत्वं ज्ञानफलं तदभावेऽपि वीर्यवदेव कर्मेत्यर्थः ।
फलभेदे मानमाह -
तेनेति ।
पूर्वपक्षमुपन्यस्य श्रुतिः स्वयमेव तुशब्देन निरस्यति -
नाना त्विति ।
भिन्नफलत्वं नानात्वम् । दृष्टं हि मणिविक्रये शबरवणिजोर्ज्ञानभावाभावाभ्यां फलवैलक्षण्यम् । तस्माद्यदेव कर्म विद्यया प्रकृतोद्गीथाद्यर्थया करोति श्रद्धयास्तिक्यबुद्ध्या तथोपनिषदा तत्तद्देवताध्यानेनेत्यर्थः ।
श्रुतेस्तात्पर्यमाह -
तत्रेति ।
किं तावता ते सिद्धं, तत्राह -
तच्चेति ।
विद्याहीनस्य कर्मणो वीर्यवत्त्वं कर्मणि तदनित्यत्वगमकमिति व्यतिरेकतः स्फुटयति -
नित्यत्वे त्विति ।
अङ्गिमात्रस्य फलं वीर्यवत्त्वमङ्गसहितस्य तु वीर्यवत्तरत्वमित्यनुज्ञोपपत्तिमाशङ्क्याह -
सर्वेति ।
कर्मसमृद्ध्यतिरिक्तमपि फलं विद्यायाः श्रुतं ततोऽपि तस्या न कर्माङ्गतेत्याह -
तथेति ।
लोकसामादिषु लोकदृष्ट्या सामाद्युपासनेष्विति यावत् । कल्पन्ते भोगाय समर्था भवन्त्यस्मै विदुषे लोका भोगभूमयो भूमेरुपरिष्टात्ततोऽधस्ताच्च व्यवस्थिता ऊर्ध्वा आवृत्ताश्चेत्युक्ताः ।
आपयिता ह वै कामानमित्यादेरर्थवादत्वान्न च फलप्रधानतेत्युद्गीथाद्युपास्तीनां कर्मसु नित्यत्वोक्तिरित्याशङ्क्याह -
नचेति ।
अर्थवादमात्रत्वे फलश्रुतेर्विधेयप्राशस्त्यलक्षणयात्यन्तपरोक्षा वृत्तिः स्यात् । फलपरत्वे तु वर्तमानापदेशिनोऽपि साक्षात्फलप्रतीतेर्मुख्यवादसिद्धिः ।
ततो मुख्ये सम्भवति लक्षणाश्रयणमयुक्तमित्याह -
तथाहीति ।
तर्हि प्रयाजादिष्वपि फलश्रुतेर्नार्थवादमात्रत्वं, तत्राह -
प्रयाजादिष्विति ।
दर्शपूर्णमासादिप्रकरणस्थत्वेन प्रयाजादीनां तदङ्गत्वान्न पृथक्फलवत्त्वमिति तत्फलश्रुतेरर्थवादतेत्यर्थः ।
तर्हि पर्णमयीत्वादिषु प्रकरणाभावात्पृथक्फलवत्त्वसिद्धेर्न फलश्रुतेरर्थवादमात्रत्वं, तत्राह -
तथेति ।
किं तेषां साक्षादेव फलवत्त्वं किंवा क्रतुद्वारेति विकल्प्याद्यं दुषयति -
नहीति ।
द्वितीये क्रतोर्द्रव्यसाकाङ्क्षत्वात्पर्णमयीत्वस्य च पुमर्थत्वाय तद्योगापेक्षत्वाज्जुहूप्रकृतिद्रव्यार्पकवाक्यात्क्रतुयोगे पृथक्फलवत्त्वायोगादुक्तफलश्रुतेरर्थवादतेति भावः ।
गोदोहनादीनामपि तर्हि द्रव्यत्वात्पर्णमयीत्वादिवत्क्रतुसम्बन्धान्न पृथक्फलवत्त्वं, तत्राह -
गोदोहनेति ।
तस्मिन्सीदेतिमन्त्रपदानां साकाङ्क्षत्वेऽपि स्योनं ते सदनमित्यादीनामाकाङ्क्षाभावान्मिथः सम्बन्धाभाववद्गोदोहनकांस्यादीनां साकाङ्क्षत्वेऽपि प्रणयनादेश्चमसयूपाद्याश्रयलाभादाकाङ्क्षाभावाद्वाक्यीयक्रतुसम्बन्धासिद्धेस्तादर्थ्येनाविधेयत्वाद्युक्तं पृथगेव फलमुद्दिश्य विधानमित्यर्थः ।
बैल्वमन्नाद्यकामस्य यूपं कुर्यात्खादिरं वीर्यकामस्येत्यादिषु फले विधानवत्पर्णमयीत्वादिष्वपि स्यादित्याशङ्क्याह -
तथेति ।
बैल्वखादिरदध्यादीनामुपपन्नः फले विधिरिति सम्बन्धः ।
तत्र हेतुमाह -
प्रकृतेति ।
तेषु प्रकृतक्रतुसम्बन्धियूपहोमादिराश्रयोऽस्ति प्रत्यक्षविधिश्रुतेः साक्षात्कर्मिवादयुक्तफलश्रुतेश्च युक्तस्तेषां फले विधिरित्यर्थः ।
पर्णमयीत्वादिषु वैषम्यमाह -
नत्विति ।
एवंविधो यूपादितुल्यस्तेषामनारभ्याधीतत्वादित्यर्थः ।
ननु पर्णमयीत्वादीनां विना प्रकरणं वाक्यादेव फले विधिः स्यान्नेत्याह -
वाक्येनेति ।
पर्णतादीनां जुह्वादिद्वारा क्रत्वाश्रयताया वाक्यीयत्वात्तत्र वाक्यतात्पर्यकल्पने फलसम्बन्धप्रतिपादने च तत्कल्पने तात्पर्यभेदाद्वाक्यभेदापातान्न युक्तस्तेषु फले विधिरित्यर्थः ।
पर्णमयीत्वादिषु फलश्रुतेरर्थवादत्वमुपपाद्योद्गीथाद्युपासनेषु तेभ्यो वैषम्यमाह -
उपासनानां त्विति ।
तासां व्यापाररूपत्वादव्यापारात्मकपर्णतादिभ्यो वैलक्षण्यात्फलवत्त्वेऽपि च विधानसिद्धेः स्वर्गकामो यजेतेत्यादिवद्वाक्यभेदाभावाद्युक्तं फलविधानमित्यर्थः ।
प्रस्तुतोपास्तीनां प्रकरणादिना क्रत्वर्थाश्रिततायाः सिद्धत्वात्तदाश्रयणेन गोदोहनादिवद्विशिष्टफलोद्देशेन विधानसम्भवे फलितमुपसंहरति -
तस्मादिति ।
उद्गीथादिविद्यानां पर्णतादिवत्कर्माङ्गत्वाभावे लिङ्गान्तरमाह -
अत इति ।
अङ्गत्वाभावादेवेति यावत् । तथाच विदुष इवाविदुषोऽपि कर्माधिकारोऽस्तीति भावः ॥ ४२ ॥