ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
वाजसनेयके ‘वदिष्याम्येवाहमिति वाग्दध्रे’ (बृ. उ. १ । ५ । २१) इत्यत्र अध्यात्मं वागादीनां प्राणः श्रेष्ठोऽवधारितः, अधिदैवतमग्न्यादीनां वायुः । तथा छान्दोग्ये ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) इत्यत्र अधिदैवतम् अग्न्यादीनां वायुः संवर्गोऽवधारितः, ‘प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इत्यत्र अध्यात्मं वागादीनां प्राणः । तत्र संशयः — किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्याताम् , अपृथग्वेति । अपृथगेवेति तावत्प्राप्तम् , तत्त्वाभेदात् । न हि अभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् । दर्शयति च श्रुतिः अध्यात्ममधिदैवतं च तत्त्वाभेदम् — ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्यारभ्य; तथा ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (बृ. उ. १ । ५ । १३) इति आध्यात्मिकानां प्राणानाम् आधिदैविकीं विभूतिमात्मभूतां दर्शयति । तथा अन्यत्रापि तत्र तत्र अध्यात्ममधिदैवतं च बहुधा तत्त्वाभेददर्शनं भवति । क्वचिच्च ‘यः प्राणः स वायुः’ इति स्पष्टमेव वायुं प्राणं च एकं करोति । तथा उदाहृतेऽपि वाजसनेयिब्राह्मणे ‘यतश्चोदेति सूर्यः’ (बृ. उ. १ । ५ । २३) इत्यस्मिन् उपसंहारश्लोके, ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’ (बृ. उ. १ । ५ । २३) इति प्राणेनैव उपसंहरन् एकत्वं दर्शयति । ‘तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च’ (बृ. उ. १ । ५ । २३) इति च प्राणव्रतेन एकेनोपसंहरन् एतदेव द्रढयति । तथा छान्दोग्येऽपि परस्तात् ‘महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः’ (छा. उ. ४ । ३ । ६) इत्येकमेव संवर्गं गमयति; न ब्रवीति — एक एकेषां चतुर्णां संवर्गः, अपरोऽपरेषामिति । तस्मादपृथक्त्वमुपगमनस्येत्येवं प्राप्ते ब्रूमः —

पृथगप्रतिबन्धः फलमिति फलपृथक्त्ववदुपगमनपृथक्त्वमाह -

प्रदानवदिति ।

बृहदारण्यके छान्दोग्ये चाधिदैवाध्यात्मभेदेनोक्तौ वायुप्राणावुदाहरति -

वाजसनेयक इत्यादिना ।

श्रेष्ठत्वमभग्नव्रतत्वेनोत्कृष्टत्वम् ।

तयोर्भेदाभेदवादिवाक्याभ्यां संशयमाह -

तत्रेति ।

अत्र वायुप्राणयोरुपगमनविद्योक्त्या वाक्यार्थधीहेतोरेव कथनात्पादादिसङ्गतिः । पूर्वपक्षे विद्यैक्यात्प्रवृत्तिभेदासिद्धिः ।

सिद्धान्ते तदैक्येऽपि गुणभेदात्तत्सिद्धिरिति सिद्धवत्कृत्य पूर्वपक्षयति -

अपृथगिति ।

फलभेदात्कर्माङ्गानां तद्युक्तोपास्तीनांं च नित्यत्वानित्यत्वरूपप्रयोगभेदवद्वायुप्राणयोस्तत्त्वाभेदात्तत्प्राप्तिफलैक्याच्चोपास्तिप्रयोगैक्यमिति भावः ।

तत्त्वाभेदेऽपि कथमपृथगनुचिन्तनं, तत्राह -

नेति ।

न खल्वेकस्मिन्नग्निहोत्रे प्रयोगभेदोऽस्तीत्यर्थः ।

तत्त्वाभेदे मानमाह -

दर्शयतीति ।

वायुः प्राणो भूत्वा नासिके प्राविशदिति श्रुतिरत्रोपयुक्ता । आध्यात्मिकप्राणस्याधिदैविकवाय्वभेदे लिङ्गमाह -

तथेति ।

अध्यात्ममधिदैवं च तयोस्तत्त्वाभेदे सर्वश्रुतिसंमतिमाह -

तथान्यत्रेति ।

वायुप्राणयोस्तत्त्वाभेदे वाक्यमपि मानमित्याह -

क्वचिच्चेति ।

अथेममेव नाप्नोन्मृत्युर्योऽयं मध्यमः प्राण इत्युपक्रम्य प्राणाद्वा एष सूर्य उदेतीत्युपसंहाराच्च तयोरैक्यमित्याह -

तथेति ।

यदि पृथगनुचिन्तनं तयोर्विधित्सितं तर्हि तदङ्गव्रतोपदेशोऽपि पृथगेव स्यात् । इह च प्राण्यादिति प्राणने प्राप्तेऽपान्यादित्यपाननमुक्त्वा तस्मिन्प्राप्ते प्राण्यादिति प्राणनवचनेन प्राणापाननिरोधं कुर्यादित्येकमेव व्रतं दर्शयति ।

ततश्चापृथगनुचिन्तनमित्याह -

तस्मादिति ।

छान्दोग्यालोचनायामपि तयोः स्वरूपाभेदधीरित्याह -

तथेति ।

वायुं प्राणं च संवर्गगुणकं भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गमेकमेव गमयतीति सम्बन्धः । महात्मन इति द्वितीयाबहुवचनम् । चतुरश्चतुःसङ्ख्याकाग्निसूर्योदकचन्द्रानन्यांश्च वाक्चक्षुःश्रोत्रमनोलक्षणानेको निरपेक्षः सन्को देवः प्रजापतिर्जगार गीर्णवानुपसंहृतवानिति यावत् ।

भेदे मानाभावादपि तयोरैक्यमित्याह -

नेति ।

बहुश्रुत्यालोचनया वायुप्राणैक्यसिद्धेस्तदुपास्तेरपि तदधीनत्वादभेदः । न चाध्यात्माधिदैवगुणभेदाद्भेदः, तदभेदोक्तेरुत्पन्नोपास्तिसंयोगाद्भेदकत्वायोगात् । नो खल्वग्निहोत्रं जुहोतीत्युत्पन्नाग्निहोत्रस्य दधितण्डुलादिभेदाद्भेद उत्पद्यमानकर्मयोगिगुणभेदस्यैव भेदकत्वात् ।

तस्मादुत्पन्नोपास्तियोगित्वाद्गुणभेदस्योपास्तिभेदाभावादपृथगनुचिन्तनमित्युपसंहरति -

तस्मादिति ।

उक्तनीत्या विद्यैक्येऽप्यध्यात्माधिदैवगुणभेदात्प्रवृत्तिभेदः सायम्प्रातःकालगुणभेदादेकस्मिन्नप्यग्निहोत्रो प्रवृत्तिभेदवदिति सिद्दान्तयति -

एवमिति ।