ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
पृथगेव वायुप्राणावुपगन्तव्याविति । कस्मात् ? पृथगुपदेशात् । आध्यानार्थो हि अयम् अध्यात्माधिदैवविभागोपदेशः । सः असत्याध्यानपृथक्त्वे अनर्थक एव स्यात् । ननु उक्तम् , न पृथगनुचिन्तनं तत्त्वाभेदादिति — नैष दोषः । तत्त्वाभेदेऽप्यवस्थाभेदात् उपदेशभेदवशेन अनुचिन्तनभेदोपपत्तेः, श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणापि उपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् , ‘स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः’ (बृ. उ. १ । ५ । २२) इति च उपमानोपमेयकरणात् । एतेन व्रतोपदेशो व्याख्यातः । ‘एकमेव व्रतम्’ (बृ. उ. १ । ५ । २३) इति च एवकारः वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः । भग्नव्रतानि हि वागादीन्युक्तानि, ‘तानि मृत्युः श्रमो भूत्वोपयेमे’ (बृ. उ. १ । ५ । २१) इति श्रुतेः । न वायुव्रतनिवृत्त्यर्थः, ‘अथातो व्रतमीमाꣳसा’ (बृ. उ. १ । ५ । २१) इति प्रस्तुत्य तुल्यवत् वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् । ‘एकमेव व्रतं चरेत्’ (बृ. उ. १ । ५ । २३) इति च उक्त्वा, ‘तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति’ (बृ. उ. १ । ५ । २३) इति वायुप्राप्तिं फलं ब्रुवन् वायुव्रतमनिवर्तितं दर्शयति । देवता ह्यत्र वायुः स्यात् , अपरिच्छिन्नात्मकत्वस्य प्रेप्सितत्वात् , पुरस्तात्प्रयोगाच्च — ‘सैषाऽनस्तमिता देवता यद्वायुः’ (बृ. उ. १ । ५ । २२) इति । तथा ‘तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु’ (छा. उ. ४ । ३ । ४) इति भेदेन व्यपदिशति । ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’ (बृ. उ. ४ । ३ । ८) इति च भेदेनैव उपसंहरति । तस्मात्पृथगेव उपगमनम् । प्रदानवत् — यथा ‘इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे’ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ, ‘सर्वेषामभिगमयन्नवद्यत्यछम्बट्कारम्’ इत्यतो वचनात् , इन्द्राभेदाच्च, सह प्रदानाशङ्कायाम् — राजादिगुणभेदात् याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति । एवं तत्त्वाभेदेऽपि आध्येयांशपृथक्त्वात् आध्यानपृथक्त्वमित्यर्थः । तदुक्तं सङ्कर्षे — ‘नाना वा देवता पृथग्ज्ञानात्’ इति । तत्र तु द्रव्यदेवताभेदात् यागभेदो विद्यते । नैवमिह विद्याभेदोऽस्ति, उपक्रमोपसंहाराभ्याम् अध्यात्माधिदैवोपदेशेषु एकविद्याविधानप्रतीतेः । विद्यैक्येऽपि तु अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो भवति — अग्निहोत्र इव सायंप्रातःकालभेदात् — इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ ४३ ॥

उपास्त्यैक्यात्प्रयोगैक्योक्तेर्न पृथगनुचिन्तनमिति शङ्कते -

कस्मादिति ।

अग्निहोत्रस्यैव दधितण्डुलादेर्ध्यानस्य प्रकृते भेदोपदेशात्पृथगनुचिन्तनसिद्धिरित्याह -

पृथगिति ।

तदेव विवृणोति -

आध्यानेति ।

तौ वा एतौ संवर्गाविति वाक्यस्योपास्यगुणविशिष्टभेदवाचिनो भेदेनानुचिन्तने तात्पर्याद्वाक्यप्रामाण्याद्भेदेनैव चिन्तनमित्यर्थः ।

पूर्वपक्षबीजमनुवदति -

नन्विति ।

उपास्यतया प्रधानभूतसंवर्गगुणकवायुप्राणधर्मिभेदविषयेण वाक्येन गुणभूतसमीकरणस्वभावैक्यविषयं वाक्यं बाध्यमित्यभिप्रेत्याह -

नेति ।

यतश्चोदेतीत्यादिश्लोकोक्तेर्वायुप्राणैक्यसिद्धेरुपास्तेरपि तथात्वादपृथगुपगतिरित्याशङ्क्याह -

श्लोकेति ।

सूर्योदयास्तमययोर्वाय्वधीनत्वात्तदभेदधिया प्राणात्सूर्योदयास्तमयावुक्तौ ततोऽध्यात्माधिदैवविभागोक्तस्य ध्येयभेदस्य निरासे श्लोकस्य न सामर्थ्यमित्यर्थः ।

इतोऽपि विशिष्टध्येयभेदोऽस्तीत्याह -

स यथेति ।

यत्तु प्राणव्रतेनोपसंहारादैक्ये सत्यपृथगुपगमनमिति, तत्राह -

एतेनेति ।

श्लोकस्य स्वरूपैक्याभिप्रायत्ववादेन व्रतवचनमपि तत्त्वाभेदाभिप्रायं युक्तमित्यर्थः ।

एवकारश्रुतेरपृथक्प्रवृत्तिरत्र भातीत्याशङ्क्याह -

एकमिति ।

किमिति वागादिव्रतनिवर्तनेन प्राणव्रतं साध्यते, तत्राह -

भग्नेति ।

वायुव्रतनिवृत्त्यर्थमेवावधारणं किं न स्यात् , तत्राह -

नेति ।

अथेममेव नाप्नोदित्याध्यात्मं मुख्यप्राणस्य मृत्युनाऽनाप्तत्वमधिदैवतं चाग्न्यादीनां ज्वलनादिव्रतभङ्गमुक्त्वा वायोरभग्नव्रतत्वमुक्तम् । निम्लोचन्त्यन्या देवता न वायुरिति न वायुव्रतनिवृत्तिरेवकारार्थ इत्यर्थः ।

फलोक्तिरपि वायुव्रतनिवृत्त्यभावं दर्शयतीत्याह -

एकमिति ।

तेन व्रतेन । अपिशब्देन समानार्थः सन्नुशब्दः स्यायुज्यं सलोकतामपीत्युपरि सम्बध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां वा सालोक्यं समानलोकतां चोपास्तेस्तारतम्याज्जयति प्राप्नोतीत्यर्थः ।

अन्यव्रतानुष्ठानादन्याप्राप्तेरत्र च वायुप्राप्तिनिर्देशान्न तद्व्रतनिवृत्तिरिति श्रुतितात्पर्यमाह -

वाय्विति ।

देवताप्राप्तिरेवात्र श्रुता न वायुप्राप्तिरित्याशङ्क्याह -

देवतेति ।

अग्न्यादीनपेक्ष्यानवच्छिन्नो देवो वायुस्ते तु तेनैवावच्छिन्ना इति संवर्गगुणो वायुरनवच्छिन्ना देवता तदात्मत्वमत्राप्तुमिष्टमतो देवताप्तिर्वायुप्राप्तिरित्यर्थः ।

न केवलं प्रकरणालोचनया देवता वायुः किन्तु साक्षादेव श्रुतेरित्याह -

पुरस्तादिति ।

यत्तु पृथगुपदेशात्पृथगुपनयनमुक्तं तदिदानीं विवृणोति -

तथेति ।

संवर्गभेदेनोपक्रमवद्भेदेनोपसंहारादपि पृथगनुचिन्तनमित्याह -

ते वा इति ।

उपक्रमोपसंहारैकरूप्यफलमुपसंहरति -

तस्मादिति ।

तत्रोदाहरणमवतार्य व्याचष्टे -

प्रादनवदिति ।

त्रयः पुरोडाशा यस्यां सा त्रिपुरोडाशिनी तस्यामुत्पत्तिवाक्यमुदाहरति -

इन्द्रायेति ।

किं तस्यां सह प्रदानं किंवा भेदेनेति सन्देहे पूर्वपक्षमाह -

सर्वेषामिति ।

याज्ञिकाः खल्वस्यामिष्टौ युगपदेवावदानं कुर्वन्ति तेन सर्वेषां देवताविशेषाणामभिगमयन्प्रापयन्नपर्यायेणैव पुरोडाशानवद्यति तत्तद्भागं गृह्णातीत्यत्र हेतुमाह -

अछंवट्कारमिति ।

अव्यर्थत्वायेति यावत् । एकार्थं सर्वतोऽवदाने शेषो यागानर्हः स्याद्युगपत्सर्वार्थमवदाने त्ववैयर्थ्यमित्यर्थः ।

उक्ताद्वाक्यात्सर्वार्थं सहावदानश्रुतेर्देवतायां भेदाभावाच्च त्रयाणां पुरोडाशानां सहप्रदानं प्राप्तमित्याह -

अत इति ।

सिद्धान्तमाह -

राजादीति ।

उत्पत्तिवाक्यएव राजाधिराजस्वराजगुणभेदाद्यथान्यासं यथावचनं तत्तद्गुणविशिष्टदेवताभेदात्प्रदानस्य प्रक्षेपस्य पृथक्त्वमित्यर्थः ।

किञ्च त्रिपुरोडाशिन्यामिष्टौ प्रथमपुरोडाशप्रदाने या याज्या सा पुनःप्रयोगेऽनुवाक्या या च पूर्वमनुवाक्या सा पश्चाद्याज्येति व्यत्यासमन्वाहेत्यनेन विहितं तत्प्रयोगभेदे युज्यत एकस्या ऋच एकस्मिन्प्रयोगे याज्यानुवाक्यात्वविरोधादित्याह -

याज्येति ।

अध्वर्युणा यजेति प्रैषे कृते होत्रा प्रयुज्यमानो मन्त्रो याज्यानुब्रूहीति प्रैषानन्तरं प्रयुज्यमानस्तु मन्त्रोऽनुवाक्येति भेदः ।

पूर्वोत्तरपक्षाभ्यां दृष्टान्तं व्याख्याय दार्ष्टान्तिकमाह -

एवमिति ।

उक्तेऽर्थे देवताकाण्डस्थमधिकरणं प्रदानभेदविषयमुदाहरति -

तदुक्तमिति ।

सङ्कृष्यते कर्मकाण्डस्थमेवावशिष्टं कर्म सङ्क्षिप्योच्यत इति सङ्कर्षो देवताकाण्डं तस्मिन्निति यावत् ।

वाशब्दो देवतैकत्वाशङ्काव्यावृत्त्यर्थः । नाना देवतेत्यत्र हेतुमाह -

पृथगिति ।

उत्पत्तिवाक्य एव राजाधिराजादिगुणानां पृथग्ज्ञानात्तत्तद्गुणविशिष्टदेवतानामपि पृथक्त्वस्य युक्तत्वादित्यर्थः ।

दृष्टान्ते देवताद्रव्यभेदात्कर्मभेदवदिहापि वायुः प्राणः इतिशब्दादादित्यं चरुं सौर्यं चरुमित्यादिष्वादित्यसूर्यादिशब्दभेदादिव देवताभेदेन विद्याभेदः स्यादित्याशङ्क्याह -

तत्रेति ।

यत्रोत्पत्तिवाक्यादेव नानाद्रव्यदैवतं कर्म दृष्टं तत्र तद्भेदो वैश्वदेव्यामिक्षेत्यादिवत् । यत्र तूत्पत्तित एव कर्मैक्यं तत्र देवतादिभेदेऽपि न कर्मभेदोऽग्निहोत्रादिवदेव विद्यैक्यमित्यर्थः ।

तर्हि केन साम्येन प्रदानवदित्युक्तं, तत्राह -

विद्येति ।

अग्निहोत्रे हि सायमग्निः प्रजापतिश्च देवता सूर्यः प्रजापतिश्च प्रातरनुष्ठानं चोभयत्रान्यादृशं तथेहापि ध्यानभेदसिद्धिरित्यर्थः ॥ ४३ ॥