ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अतिदेशाच्च ॥ ४६ ॥
अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति — ‘षट्‍त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः’ इति । सति हि सामान्ये अतिदेशः प्रवर्तते । ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना साम्पादिकानग्नीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति ॥ ४६ ॥

मनश्चिदाद्यग्नीनां क्रियानुप्रवेशे लिङ्गान्तरमाह -

अतिदेशाच्चेति ।

सूत्रं व्याकरोति -

अतिदेशश्चेति ।

तमेव दर्शयति -

षडिति ।

कथं तावता क्रत्वङ्गत्वं तदाह -

सतीति ।

क्रियानुप्रवेशमन्तरेणान्यदेव सादृश्यमतिदेशकृतमित्याशङ्क्य तस्य योग्यानुपलम्भान्मैवमित्याह -

ततश्चेति ॥ ४६ ॥