ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विद्यैव तु निर्धारणात् ॥ ४७ ॥
तुशब्दः पक्षं व्यावर्तयति । विद्यात्मका एव एते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युः, न क्रियाशेषभूताः । तथा हि निर्धारयति — ‘ते हैते विद्याचित एव’ इति, ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति च ॥ ४७ ॥

सिद्धान्तमाह -

विद्यैवेति ।

परपक्षनिषेधं प्रतिजानीते -

तुशब्द इति ।

सिद्धान्तप्रतिज्ञामाह -

विद्येति ।

हेतुं व्याचष्टे -

तथाहीति ।

एवकारश्रुत्या प्रकरणं बाध्यमिति भावः ।

मनश्चिदाद्यग्नीनां विद्यात्मत्वे श्रुतितात्पर्यं वक्तुं श्रुत्याभासं दर्शयन्वाक्यमपि समुच्चिनोति -

विद्ययेति ॥ ४७ ॥