ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ ४८ ॥
दृश्यते च एतेषां स्वातन्त्र्ये लिङ्गम् । तत्पुरस्ताद्दर्शितम् — ‘लिङ्गभूयस्त्वात्’ (ब्र. सू. ३ । ३ । ४४) इत्यत्र ॥ ४८ ॥

न श्रुत्यैव प्रकरणं बाध्यं लिङ्गादपीत्याह -

दर्शनाच्चेति ।

तद्विभजते -

दृश्यते चेति ।

किं तदित्यपेक्षायामाह -

तत्पुरस्तादिति ॥ ४८ ॥