ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्यः, श्रुत्यादेर्बलीयस्त्वात् । बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे । तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते । कथम् ? श्रुतिस्तावत् — ‘ते हैते विद्याचित एव’ इति । तथा लिङ्गम् — ‘सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति । तथा वाक्यमपि — ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति । ‘विद्याचित एव’ इति हि सावधारणा इयं श्रुतिः क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् । ननु अबाह्यसाधनत्वाभिप्रायमिदमवधारणं भविष्यति — नेत्युच्यते; तदभिप्रायतायां हि ‘विद्याचितः’ इति इयता स्वरूपसङ्कीर्तनेनैव कृतत्वात् , अनर्थकमवधारणं भवेत् — स्वरूपमेव हि एषाम् अबाह्यसाधनत्वमिति । अबाह्यसाधनत्वेऽपि तु मानसग्रहवत् क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति । तथा ‘स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्ति’ इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽवकल्पते — यथा साम्पादिके वाक्प्राणमयेऽग्निहोत्रे ‘प्राणं तदा वाचि जुहोति … वाचं तदा प्राणे जुहोति’ (कौ. उ. २ । ५) इति च उक्त्वा उच्यते — ‘एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोति’ इति — तद्वत् । क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अल्पकालत्वेन न सातत्येन एषां प्रयोगः कल्पेत । न च इदमर्थवादमात्रमिति न्याय्यम् । यत्र हि विस्पष्टो विधायको लिङादिः उपलभ्यते, युक्तं तत्र सङ्कीर्तनमात्रस्यार्थवादत्वम् । इह तु विस्पष्टविध्यन्तरानुपलब्धेः सङ्कीर्तनादेव एषां विज्ञानविधानं कल्पनीयम् । तच्च यथासङ्कीर्तनमेव कल्पयितुं शक्यत इति, सातत्यदर्शनात् तथाभूतमेव कल्प्यते । ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः । एतेन ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’(श॰ब्रा॰ १०-५-३-३) इत्यादि व्याख्यातम् । तथा वाक्यमपि ‘एवंविदे’ इति पुरुषविशेषसम्बन्धमेव एषामाचक्षाणं न क्रतुसम्बन्धं मृष्यते । तस्मात् स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ ४९ ॥

न बाध इत्येतद्व्याचष्टे -

नैवमिति ।

हेतुमवतार्य व्याचष्टे -

श्रुत्यादीति ।

तेषां प्रकरणाद्बलीयस्त्वेऽपि प्रकृते किं जातं, तत्राह -

तानि चेति ।

स्वातन्त्र्यसाधकश्रुत्यादिदृष्टिमेव प्रश्नद्वारा स्फुटयति -

कथमित्यादिना ।

तत्र श्रुतिं विवृणोति -

विद्येति ।

अवधारणश्रुतेरन्यथासिद्धिं शङ्कते -

नन्विति ।

दूषयति -

नेत्युच्यत इति ।

कृतत्वादभिप्रेतस्याबाह्यसाधनत्वस्य ज्ञातत्वादिति यावत् ।

स्वरूपसङ्कीर्तनेन कृतत्वमेव स्फुटयति -

स्वरूपमिति ।

विद्याशब्देनैव बाह्यसाधनत्वं व्यावर्त्यते चेत्त्वन्मतेऽपि किमर्थमवधारणमित्याशङ्क्याह -

अबाह्येति ।

संप्रत्यवधारणश्रुतिवदेव लिङ्गं व्यनक्ति -

तथेति ।

सातत्यं सर्वकालसर्वपुरुषव्यापित्वं तेन हेतुना क्रियानुप्रवेशाभावे दृष्टान्तमाह -

यथेति ।

तदेति सम्पादनावस्थोक्तिः ।

आहुत्योरनन्तत्वमक्षयफलत्वादित्याह -

अमृते इति ।

तयोरपि क्रियाङ्गत्वशङ्कां प्रत्याह -

जाग्रच्चेति ।

उक्तदृष्टान्तात्प्रकृताग्नीनां सात्यदृष्टेर्न क्रियाप्रवेशितेति दार्ष्टान्तिकमाह -

तद्वदिति ।

सातत्यप्रयोगेऽपि किमित्यग्नीनां क्रियाप्रवेशो न स्यात् , तत्राह -

क्रियेति ।

यत्पुनरर्थवादस्थं लिङ्गं न प्रकरणबाधकमिति, तत्राह -

नचेति ।

अन्येषां श्रुतिविध्युद्देशानामन्यार्थदर्शनानामप्रापकत्वेऽपि प्रकृतेषु वचनानि त्वपूर्वत्वादिति न्यायेन सर्वदा सर्वाणि भूतानि मदर्थमग्निं चिन्वन्तीति मन्वीतेति विधिः कल्प्यते ।

अपूर्वार्थवादितया भासमानानां द्योतकत्वमात्राङ्गीकारेण गुणवादाश्रयणायोगादिति मत्वाह -

यत्रेति ।

उक्तन्यायं वाक्यान्तरेऽपि सञ्चारयति -

एतेनेति ।

श्रुतिलिङ्गे विविच्य वाक्यं विविनक्ति -

तथेति ।

श्रुतिलिङ्गवाक्येभ्यो भग्ने प्रकरणे फलितमाह -

तस्मादिति ॥ ४९ ॥