न बाध इत्येतद्व्याचष्टे -
नैवमिति ।
हेतुमवतार्य व्याचष्टे -
श्रुत्यादीति ।
तेषां प्रकरणाद्बलीयस्त्वेऽपि प्रकृते किं जातं, तत्राह -
तानि चेति ।
स्वातन्त्र्यसाधकश्रुत्यादिदृष्टिमेव प्रश्नद्वारा स्फुटयति -
कथमित्यादिना ।
तत्र श्रुतिं विवृणोति -
विद्येति ।
अवधारणश्रुतेरन्यथासिद्धिं शङ्कते -
नन्विति ।
दूषयति -
नेत्युच्यत इति ।
कृतत्वादभिप्रेतस्याबाह्यसाधनत्वस्य ज्ञातत्वादिति यावत् ।
स्वरूपसङ्कीर्तनेन कृतत्वमेव स्फुटयति -
स्वरूपमिति ।
विद्याशब्देनैव बाह्यसाधनत्वं व्यावर्त्यते चेत्त्वन्मतेऽपि किमर्थमवधारणमित्याशङ्क्याह -
अबाह्येति ।
संप्रत्यवधारणश्रुतिवदेव लिङ्गं व्यनक्ति -
तथेति ।
सातत्यं सर्वकालसर्वपुरुषव्यापित्वं तेन हेतुना क्रियानुप्रवेशाभावे दृष्टान्तमाह -
यथेति ।
तदेति सम्पादनावस्थोक्तिः ।
आहुत्योरनन्तत्वमक्षयफलत्वादित्याह -
अमृते इति ।
तयोरपि क्रियाङ्गत्वशङ्कां प्रत्याह -
जाग्रच्चेति ।
उक्तदृष्टान्तात्प्रकृताग्नीनां सात्यदृष्टेर्न क्रियाप्रवेशितेति दार्ष्टान्तिकमाह -
तद्वदिति ।
सातत्यप्रयोगेऽपि किमित्यग्नीनां क्रियाप्रवेशो न स्यात् , तत्राह -
क्रियेति ।
यत्पुनरर्थवादस्थं लिङ्गं न प्रकरणबाधकमिति, तत्राह -
नचेति ।
अन्येषां श्रुतिविध्युद्देशानामन्यार्थदर्शनानामप्रापकत्वेऽपि प्रकृतेषु वचनानि त्वपूर्वत्वादिति न्यायेन सर्वदा सर्वाणि भूतानि मदर्थमग्निं चिन्वन्तीति मन्वीतेति विधिः कल्प्यते ।
अपूर्वार्थवादितया भासमानानां द्योतकत्वमात्राङ्गीकारेण गुणवादाश्रयणायोगादिति मत्वाह -
यत्रेति ।
उक्तन्यायं वाक्यान्तरेऽपि सञ्चारयति -
एतेनेति ।
श्रुतिलिङ्गे विविच्य वाक्यं विविनक्ति -
तथेति ।
श्रुतिलिङ्गवाक्येभ्यो भग्ने प्रकरणे फलितमाह -
तस्मादिति ॥ ४९ ॥