ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
परस्तादपि ‘अयं वाव लोक एषोऽग्निश्चितः’ इत्यस्मिन् अनन्तरे ब्राह्मणे, ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्धकर्माङ्गविधित्वम्; तत्र हि — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’(श॰ब्रा॰ १०-५-४-१६) इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति । तथा पुरस्तादपि ‘यदेतन्मण्डलं तपति’ इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते — ‘सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति’ इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता । तत्सामान्यात् इहापि तथात्वम् । भूयांसस्तु अग्न्यवयवाः सम्पादयितव्या विद्यायाम् — इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात् । तस्मात् मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः ॥ ५२ ॥

पूर्वोत्तरब्रह्माणयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽस्यापि तत्प्राधान्यमित्याह -

परेण चेति ।

सन्दिग्धस्य निर्णयो वाक्यशेषादितिन्यायेन सूत्रावयवं व्याकुर्वन्वाक्यशेषमनुसन्धत्ते -

परस्तादिति ।

उत्तरब्राह्मणस्य विद्याप्राधान्ये गमकमाह -

तत्रेति ।

ब्राह्मणस्य विद्याप्राधान्यमेतदित्युक्तम् । उपक्रमतन्त्रेणोपसंहारेणैकस्मिन्वाक्ये भवितव्यमितिन्यायेन चकारं व्याकुर्वन्पूर्वमपि ब्राह्मणमनुसन्धत्ते -

तथेति ।

तस्य विद्याप्राधान्ये लिङ्गमाह -

सोऽमृत इति ।

पूर्वोत्तरब्राह्मणयोर्विद्याप्राधान्येऽपि प्रकृतब्राह्मणस्य कर्मप्राधान्ये का हानिः, तत्राह -

तदिति ।

कथं तर्हि विद्यायाः स्वातन्त्र्ये कर्माधिकारे समाम्नानमित्याशङ्क्य भूयस्त्वादित्यादि व्याचष्टे -

भूयांसस्त्विति ।

श्रुतिलिङ्गादिभिः सिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ५२ ॥