ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समर्थ्यते, बन्धमोक्षाधिकारसिद्धये । न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन् । कस्य वा ब्रह्मात्मत्वमुपदिश्येत । ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् — सत्यमुक्तं भाष्यकृता । न तु तत्रात्मास्तित्वे सूत्रमस्ति । इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् । इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः । इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्नशास्त्रशेषत्वप्रदर्शनाय । अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् । कोऽसौ पुरुषः, यदर्था एते मनश्चिदादयः — इत्यस्यां प्रसक्तौ इदं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते । तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् — आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति ॥

मनश्चिदादीनां न पुरुषार्थत्वं पुरुषस्यैव देहातिरिक्तस्याभावदित्याक्षिपति -

एक इति ।

अधिकरणस्य तात्पर्यमाह -

इहेति ।

तत्समर्थनफलमाह -

बन्धेति ।

साधनानुष्ठानसामर्थ्याद्देहस्यैव स्वर्गापवर्गाधिकारित्वसिद्धौ कृतं व्यतिरेकचिन्तयेत्याशङ्क्याह -

नहीति ।

व्यतिरेकविचारस्य पूर्वतन्त्रेण पौनरुक्त्यं शङ्कते -

नन्विति ।

सूत्रकृता तत्रातिरिक्तात्मानुक्तेर्न पौनरुक्त्यमित्याह -

सत्यमिति ।

प्रकृते पूर्वमीमांसातो विशेषमाह -

इह त्विति ।

कथं तर्हि प्रथमे पादे दर्शितमात्मास्तित्वं नहि मूलभूतं सूत्रं विना भाष्यं युक्तं, तत्राह -

इत इति ।

यज्ञायुधी यजमानः स्वर्गं लोकं यातीतिवाक्यस्यातिरिक्तात्माभावादप्रामाण्यप्राप्तौ तत्परिहारेण प्रथमाध्यायोपयोगितया तदस्तित्वमिदभेवाधिकरणमवष्टभ्योक्तमिति सूचयति -

प्रमाणेति ।

एतस्मादेवाकृष्य तत्रात्मास्तित्वमुक्तमित्यत्र वृत्तिकारवचनं गमकमित्याह -

अत इति ।

यस्मादत्र सूत्रकारो निरूपयति तस्मादेवेति यावत् । आत्मास्तित्वस्यास्मात्पूर्वकाण्डं प्रति नयनमपकर्षस्तस्योद्धारो निवृत्तिरित्यर्थः ।

अथात्रापि प्रथमसूत्रेऽथशब्दोपात्तोऽधिकारी विचारितस्तत्कथमिह पुनस्तन्निरूपणं, तत्राह -

इह चेति ।

तत्र लोकसिद्धात्मादानेनाधिकारी दर्शितो न तद्विशेषश्चिन्तितः । प्रकृते तु विधिप्रमाणकेषूपासनेषु विचार्यमाणेषु विचार्यते विशेषतस्तदस्तितेत्यस्ति भेद इत्यर्थः ।

प्रासङ्गिकीमध्यायपादसङ्गतिमधिकरणस्योकत्वा श्रुतिशास्त्रसङ्गर्ति सूचयति -

कृत्स्नेति ।

सर्वस्यैवाम्नायस्य तदर्थविचारात्मनश्च शास्त्रस्य शेषभूतमधिकरणमतिरिक्तात्माविचारे सर्वास्यास्य दुर्घटत्वादतोऽतिरिक्तस्यात्मनः शेषत्वं दर्शयितुमेष विचार इत्यर्थः ।

सङ्गतिचतुष्टयमित्थमुक्त्वा पुर्वोत्तराधिकरणसङ्गतिमाह -

अपिचेति ।

इतश्चेदमिह सङ्गतमित्यर्थः ।

अनेन सूत्रेण तन्नोच्यत इत्याशङ्क्याद्यसूत्रस्यावान्तरसङ्गतिमाह -

तदस्तित्वेति ।

अतिरिक्तात्मास्तित्वे साध्ये किं तदाक्षेपेणेत्याशङ्क्याह -

आक्षेपेति ।

इत्याक्षेपस्योपयुक्ततेति शेषः ।