ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
त्वेतदस्तियदुक्तमव्यतिरेको देहादात्मन इतिव्यतिरेक एव अस्य देहाद्भवितुमर्हतितद्भावाभावित्वात्यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येतततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं मन्येत ? देहधर्मवैलक्षण्यात्ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्तिप्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां भवन्तिदेहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, त्वात्मधर्माश्चैतन्यस्मृत्यादयःअपि सति तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् , तु असत्यभावःपतितेऽपि कदाचिदस्मिन्देहे देहान्तरसञ्चारेण आत्मधर्मा अनुवर्तेरन्संशयमात्रेणापि परपक्षः प्रतिषिध्यतेकिमात्मकं पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छतिइति परः पर्यनुयोक्तव्यः हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित् तत्त्वं प्रत्येतियत् अनुभवनं भूतभौतिकानाम् , तत् चैतन्यमिति चेत् , तर्हि विषयत्वात्तेषाम् तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधात् हि अग्निरुष्णः सन् स्वात्मानं दहति, हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियतेविषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येनअतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यःउपलब्धिस्वरूप एव आत्मेति आत्मनो देहव्यतिरिक्तत्वम्नित्यत्वं उपलब्धेः, ऐकरूप्यात् , ‘अहम् इदम् अद्राक्षम्इति अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् , स्मृत्याद्युपपत्तेश्चयत्तूक्तम्शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम्अपि सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु भवति एतावता प्रदीपादिधर्म एव उपलब्धिर्भवतिएवं सति देहे उपलब्धिर्भवति, असति भवतीति देहधर्मो भवितुमर्हतिउपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात्तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् ॥ ५४ ॥

तत्र न त्विति पूर्वपक्षनिषेधप्रतिज्ञां विभजते -

न त्विति ।

उत्तरपक्षप्रतिज्ञां व्याकरोति -

व्यतिरेकेति ।

तत्र हेतुमवतार्य व्याचष्टे -

तदिति ।

देहभावेऽपि प्राणादीनामभावो मृतावस्थायामास्थेयः । चैतन्यादयो न देहस्य विशेषगुणास्तद्भावाभावित्वात् ।

ये तद्विगुणास्ते न तद्भावाभाविनो यथा रूपादय इत्याह -

देहेति ।

वैलक्षण्यं स्पष्टयन्दृष्टान्तस्य साधनाव्यावृत्तिं वारयति -

ये हीति ।

हेत्वसिद्धिं प्रत्याह -

प्राणेति ।

तेषां विशेषगुणत्वाभावेऽपि न देहमात्रप्रभवत्वं मृतावस्थायामदर्शनात् । अतो देहातिरिक्तस्तदधिष्ठातेति भावः ।

चैतन्यादीनां देहधर्मत्वाभावे हेत्वन्तरमाह -

देहेति ।

विमता न देहधर्माः परैरनुपलभ्यमानत्वाद्ये तद्धर्मास्ते परैरुपलभ्यन्ते यथा रूपादय इत्यर्थः ।

इतश्च तेषां न देहधर्मतेत्याह -

अपिचेति ।

नहि धर्मधर्मित्वमन्वयमात्राद्युक्तमतिप्रसङ्गादतो व्यतिरेकोऽपि वाच्यः सोऽत्र सन्दिग्ध इति न धर्मधर्मितेत्याह -

सतीति ।

व्यतिरेकसन्देहे हेतुमाह -

पतितेऽपीति ।

तत्रापि न प्रमाणमित्याशङ्क्याह -

संशयेति ।

न तावत्तवादर्शनमभावनिश्चायकं प्रत्यक्षस्यैव प्रामाण्यान्मम त्वात्मनो देहान्तरसञ्चारात्तद्धर्मदृष्टिरिति सन्दिह्यते तावन्मात्रेण चैतन्यादीनां देहधर्मत्वासिद्धिरावयोरुभयोरपि निश्चितान्वयादेरेव साधकत्वाविवादादिति भावः ।

उपलब्धिवदिति पदं चोद्यमुखेन व्याख्यातुं पृच्छति -

किमात्मकमिति ।

तत्किं भूतचतुष्टयातिरिक्तं न वेति विमर्शार्थः ।

अप्रकृतेऽर्थे कथं प्रश्नः स्यात् , तत्राह -

यस्येति ।

आद्ये सिद्धान्तविरोधमाह -

नहीति ।

धर्मधर्मिणस्तादात्म्याभेदपक्षमालम्बते -

यदिति ।

भूतपरिणामत्वाच्चैतन्यस्य रूपादिवद्भूतेभ्योऽर्थान्तरत्वाभावान्न व्यतिरेकापत्तिरिति भावः ।

भूतपरिणामत्वं चैतन्यस्य रूपादिवैषम्योक्त्या प्रत्युक्तमिति मन्वानो दोषान्तरमाह -

तदिति ।

उक्तरूपं चेच्चैतन्यं तर्हि स्वात्मानं प्रति भूतभौतिकानां विषयत्वान्न तद्धर्मत्वेन तदभेदं प्रतिपद्येतेत्यत्र हेतुमाह -

स्वात्मनीति ।

असिधारा स्वात्मानं छिनत्तीतिवदेकत्र विषयविषयित्वायोगादिति हेत्वर्थः । किंच यो यस्य धर्मः स न तत्साधको यथा रूपादिः ।

तथाच चैतन्यस्य भूतभौतिकसाधकत्वादेव तदतिरेकसिद्धिरित्याह -

नहीति ।

रूपादिदृष्टान्तं स्पष्टयति -

नहीति ।

तर्हि चैतन्यस्यापि साधकत्वं मा भूत् , तत्राह -

विषयीति ।

सूत्रावयवं फलितपरत्वेन योजयति -

अतश्चेति ।

भवतु तर्हि भूतेभ्योऽतिरिक्ता स्वतन्त्रोपलब्धिस्तथापि कथमात्मसिद्धिः, तत्राह -

उपलब्धीति ।

क्षणिकत्वात्तस्या नित्यात्मरूपत्वमयुक्तमित्याशङ्क्याजानतस्तद्भेदाभावाद्विषयोपरागात्तद्भानादसावेवानित्यो नोपलब्धिरित्याह -

नित्यत्वं चेति ।

किञ्च स्थूलदेहाभिमानहीनस्य स्वप्ने प्रत्यभिज्ञानादतिरिक्तात्मसिद्धिरित्याह -

अहमिति ।

स्वप्नेऽपि स्थूलदेहान्तरस्यैवोपलब्धृत्वमित्याशङ्क्याह -

स्मृत्यादीति ।

उपलब्धृस्मर्त्रोर्भेदे सत्यन्योपलब्धेऽन्यस्य स्मृतिरिच्छादयश्च नेति न तयोरन्यतेत्यर्थः ।

दूषितमपि दोषान्तरं वक्तुमनुभाषते -

यत्त्विति ।

तद्भावाभावित्वव्याख्यानेन प्रत्याख्यातमेतदित्युक्तं स्मारयति -

तदिति ।

अधिकं दोषं दर्शयति -

अपिचेति ।

अनन्यथासिद्धावन्वयव्यतिरेकौ वाच्यौ देहस्य च चैतन्यान्वयव्यतिरेकावधिष्ठानविषयतयाऽन्यथासिद्धाविति सदृष्टान्तं साधयति -

सत्स्विति ।

उपकरणत्वमपि देहस्योपलब्धौ न सिध्यतीत्याह -

नचेति ।

उपलब्धिर्न देहजन्या तस्मिन्नव्याप्रियमाणेऽपि सत्त्वादर्थान्तरवत् । जागरे तु व्यञ्जकजनकतया कथञ्चिदुपयोगमङ्गीकृत्यात्यन्तमित्युक्तम् । स्वप्ने द्रष्टर्यहं पश्यामीत्याद्यबाधिताध्यक्षस्य स्थूलदेहाकारहीनस्य देहातिरिक्तात्मविषयत्वान्न देहात्मवादसिद्धिरिति भावः ।

अनुमानाद्यप्रामाण्यं तु प्रतिज्ञामात्रमिति मत्वोपसंहरति -

तस्मादिति ॥ ५४ ॥