तत्र न त्विति पूर्वपक्षनिषेधप्रतिज्ञां विभजते -
न त्विति ।
उत्तरपक्षप्रतिज्ञां व्याकरोति -
व्यतिरेकेति ।
तत्र हेतुमवतार्य व्याचष्टे -
तदिति ।
देहभावेऽपि प्राणादीनामभावो मृतावस्थायामास्थेयः । चैतन्यादयो न देहस्य विशेषगुणास्तद्भावाभावित्वात् ।
ये तद्विगुणास्ते न तद्भावाभाविनो यथा रूपादय इत्याह -
देहेति ।
वैलक्षण्यं स्पष्टयन्दृष्टान्तस्य साधनाव्यावृत्तिं वारयति -
ये हीति ।
हेत्वसिद्धिं प्रत्याह -
प्राणेति ।
तेषां विशेषगुणत्वाभावेऽपि न देहमात्रप्रभवत्वं मृतावस्थायामदर्शनात् । अतो देहातिरिक्तस्तदधिष्ठातेति भावः ।
चैतन्यादीनां देहधर्मत्वाभावे हेत्वन्तरमाह -
देहेति ।
विमता न देहधर्माः परैरनुपलभ्यमानत्वाद्ये तद्धर्मास्ते परैरुपलभ्यन्ते यथा रूपादय इत्यर्थः ।
इतश्च तेषां न देहधर्मतेत्याह -
अपिचेति ।
नहि धर्मधर्मित्वमन्वयमात्राद्युक्तमतिप्रसङ्गादतो व्यतिरेकोऽपि वाच्यः सोऽत्र सन्दिग्ध इति न धर्मधर्मितेत्याह -
सतीति ।
व्यतिरेकसन्देहे हेतुमाह -
पतितेऽपीति ।
तत्रापि न प्रमाणमित्याशङ्क्याह -
संशयेति ।
न तावत्तवादर्शनमभावनिश्चायकं प्रत्यक्षस्यैव प्रामाण्यान्मम त्वात्मनो देहान्तरसञ्चारात्तद्धर्मदृष्टिरिति सन्दिह्यते तावन्मात्रेण चैतन्यादीनां देहधर्मत्वासिद्धिरावयोरुभयोरपि निश्चितान्वयादेरेव साधकत्वाविवादादिति भावः ।
उपलब्धिवदिति पदं चोद्यमुखेन व्याख्यातुं पृच्छति -
किमात्मकमिति ।
तत्किं भूतचतुष्टयातिरिक्तं न वेति विमर्शार्थः ।
अप्रकृतेऽर्थे कथं प्रश्नः स्यात् , तत्राह -
यस्येति ।
आद्ये सिद्धान्तविरोधमाह -
नहीति ।
धर्मधर्मिणस्तादात्म्याभेदपक्षमालम्बते -
यदिति ।
भूतपरिणामत्वाच्चैतन्यस्य रूपादिवद्भूतेभ्योऽर्थान्तरत्वाभावान्न व्यतिरेकापत्तिरिति भावः ।
भूतपरिणामत्वं चैतन्यस्य रूपादिवैषम्योक्त्या प्रत्युक्तमिति मन्वानो दोषान्तरमाह -
तदिति ।
उक्तरूपं चेच्चैतन्यं तर्हि स्वात्मानं प्रति भूतभौतिकानां विषयत्वान्न तद्धर्मत्वेन तदभेदं प्रतिपद्येतेत्यत्र हेतुमाह -
स्वात्मनीति ।
असिधारा स्वात्मानं छिनत्तीतिवदेकत्र विषयविषयित्वायोगादिति हेत्वर्थः । किंच यो यस्य धर्मः स न तत्साधको यथा रूपादिः ।
तथाच चैतन्यस्य भूतभौतिकसाधकत्वादेव तदतिरेकसिद्धिरित्याह -
नहीति ।
रूपादिदृष्टान्तं स्पष्टयति -
नहीति ।
तर्हि चैतन्यस्यापि साधकत्वं मा भूत् , तत्राह -
विषयीति ।
सूत्रावयवं फलितपरत्वेन योजयति -
अतश्चेति ।
भवतु तर्हि भूतेभ्योऽतिरिक्ता स्वतन्त्रोपलब्धिस्तथापि कथमात्मसिद्धिः, तत्राह -
उपलब्धीति ।
क्षणिकत्वात्तस्या नित्यात्मरूपत्वमयुक्तमित्याशङ्क्याजानतस्तद्भेदाभावाद्विषयोपरागात्तद्भानादसावेवानित्यो नोपलब्धिरित्याह -
नित्यत्वं चेति ।
किञ्च स्थूलदेहाभिमानहीनस्य स्वप्ने प्रत्यभिज्ञानादतिरिक्तात्मसिद्धिरित्याह -
अहमिति ।
स्वप्नेऽपि स्थूलदेहान्तरस्यैवोपलब्धृत्वमित्याशङ्क्याह -
स्मृत्यादीति ।
उपलब्धृस्मर्त्रोर्भेदे सत्यन्योपलब्धेऽन्यस्य स्मृतिरिच्छादयश्च नेति न तयोरन्यतेत्यर्थः ।
दूषितमपि दोषान्तरं वक्तुमनुभाषते -
यत्त्विति ।
तद्भावाभावित्वव्याख्यानेन प्रत्याख्यातमेतदित्युक्तं स्मारयति -
तदिति ।
अधिकं दोषं दर्शयति -
अपिचेति ।
अनन्यथासिद्धावन्वयव्यतिरेकौ वाच्यौ देहस्य च चैतन्यान्वयव्यतिरेकावधिष्ठानविषयतयाऽन्यथासिद्धाविति सदृष्टान्तं साधयति -
सत्स्विति ।
उपकरणत्वमपि देहस्योपलब्धौ न सिध्यतीत्याह -
नचेति ।
उपलब्धिर्न देहजन्या तस्मिन्नव्याप्रियमाणेऽपि सत्त्वादर्थान्तरवत् । जागरे तु व्यञ्जकजनकतया कथञ्चिदुपयोगमङ्गीकृत्यात्यन्तमित्युक्तम् । स्वप्ने द्रष्टर्यहं पश्यामीत्याद्यबाधिताध्यक्षस्य स्थूलदेहाकारहीनस्य देहातिरिक्तात्मविषयत्वान्न देहात्मवादसिद्धिरिति भावः ।
अनुमानाद्यप्रामाण्यं तु प्रतिज्ञामात्रमिति मत्वोपसंहरति -
तस्मादिति ॥ ५४ ॥