ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
न त्वेतदस्ति — यदुक्तमव्यतिरेको देहादात्मन इति । व्यतिरेक एव अस्य देहाद्भवितुमर्हति । तद्भावाभावित्वात् । यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत — ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत ? देहधर्मवैलक्षण्यात् । ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति । प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति । देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, न त्वात्मधर्माश्चैतन्यस्मृत्यादयः । अपि च सति तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् , न तु असत्यभावः । पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसञ्चारेण आत्मधर्मा अनुवर्तेरन् । संशयमात्रेणापि परपक्षः प्रतिषिध्यते । किमात्मकं च पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छति — इति परः पर्यनुयोक्तव्यः । न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित् तत्त्वं प्रत्येति । यत् अनुभवनं भूतभौतिकानाम् , तत् चैतन्यमिति चेत् , तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधात् । न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति । न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् । न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते । विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन । अतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः । उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम् । नित्यत्वं च उपलब्धेः, ऐकरूप्यात् , ‘अहम् इदम् अद्राक्षम्’ इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् , स्मृत्याद्युपपत्तेश्च । यत्तूक्तम् — शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवति — न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति । एवं सति देहे उपलब्धिर्भवति, असति च न भवतीति — न देहधर्मो भवितुमर्हति । उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः । न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् । तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् ॥ ५४ ॥

तत्र न त्विति पूर्वपक्षनिषेधप्रतिज्ञां विभजते -

न त्विति ।

उत्तरपक्षप्रतिज्ञां व्याकरोति -

व्यतिरेकेति ।

तत्र हेतुमवतार्य व्याचष्टे -

तदिति ।

देहभावेऽपि प्राणादीनामभावो मृतावस्थायामास्थेयः । चैतन्यादयो न देहस्य विशेषगुणास्तद्भावाभावित्वात् ।

ये तद्विगुणास्ते न तद्भावाभाविनो यथा रूपादय इत्याह -

देहेति ।

वैलक्षण्यं स्पष्टयन्दृष्टान्तस्य साधनाव्यावृत्तिं वारयति -

ये हीति ।

हेत्वसिद्धिं प्रत्याह -

प्राणेति ।

तेषां विशेषगुणत्वाभावेऽपि न देहमात्रप्रभवत्वं मृतावस्थायामदर्शनात् । अतो देहातिरिक्तस्तदधिष्ठातेति भावः ।

चैतन्यादीनां देहधर्मत्वाभावे हेत्वन्तरमाह -

देहेति ।

विमता न देहधर्माः परैरनुपलभ्यमानत्वाद्ये तद्धर्मास्ते परैरुपलभ्यन्ते यथा रूपादय इत्यर्थः ।

इतश्च तेषां न देहधर्मतेत्याह -

अपिचेति ।

नहि धर्मधर्मित्वमन्वयमात्राद्युक्तमतिप्रसङ्गादतो व्यतिरेकोऽपि वाच्यः सोऽत्र सन्दिग्ध इति न धर्मधर्मितेत्याह -

सतीति ।

व्यतिरेकसन्देहे हेतुमाह -

पतितेऽपीति ।

तत्रापि न प्रमाणमित्याशङ्क्याह -

संशयेति ।

न तावत्तवादर्शनमभावनिश्चायकं प्रत्यक्षस्यैव प्रामाण्यान्मम त्वात्मनो देहान्तरसञ्चारात्तद्धर्मदृष्टिरिति सन्दिह्यते तावन्मात्रेण चैतन्यादीनां देहधर्मत्वासिद्धिरावयोरुभयोरपि निश्चितान्वयादेरेव साधकत्वाविवादादिति भावः ।

उपलब्धिवदिति पदं चोद्यमुखेन व्याख्यातुं पृच्छति -

किमात्मकमिति ।

तत्किं भूतचतुष्टयातिरिक्तं न वेति विमर्शार्थः ।

अप्रकृतेऽर्थे कथं प्रश्नः स्यात् , तत्राह -

यस्येति ।

आद्ये सिद्धान्तविरोधमाह -

नहीति ।

धर्मधर्मिणस्तादात्म्याभेदपक्षमालम्बते -

यदिति ।

भूतपरिणामत्वाच्चैतन्यस्य रूपादिवद्भूतेभ्योऽर्थान्तरत्वाभावान्न व्यतिरेकापत्तिरिति भावः ।

भूतपरिणामत्वं चैतन्यस्य रूपादिवैषम्योक्त्या प्रत्युक्तमिति मन्वानो दोषान्तरमाह -

तदिति ।

उक्तरूपं चेच्चैतन्यं तर्हि स्वात्मानं प्रति भूतभौतिकानां विषयत्वान्न तद्धर्मत्वेन तदभेदं प्रतिपद्येतेत्यत्र हेतुमाह -

स्वात्मनीति ।

असिधारा स्वात्मानं छिनत्तीतिवदेकत्र विषयविषयित्वायोगादिति हेत्वर्थः । किंच यो यस्य धर्मः स न तत्साधको यथा रूपादिः ।

तथाच चैतन्यस्य भूतभौतिकसाधकत्वादेव तदतिरेकसिद्धिरित्याह -

नहीति ।

रूपादिदृष्टान्तं स्पष्टयति -

नहीति ।

तर्हि चैतन्यस्यापि साधकत्वं मा भूत् , तत्राह -

विषयीति ।

सूत्रावयवं फलितपरत्वेन योजयति -

अतश्चेति ।

भवतु तर्हि भूतेभ्योऽतिरिक्ता स्वतन्त्रोपलब्धिस्तथापि कथमात्मसिद्धिः, तत्राह -

उपलब्धीति ।

क्षणिकत्वात्तस्या नित्यात्मरूपत्वमयुक्तमित्याशङ्क्याजानतस्तद्भेदाभावाद्विषयोपरागात्तद्भानादसावेवानित्यो नोपलब्धिरित्याह -

नित्यत्वं चेति ।

किञ्च स्थूलदेहाभिमानहीनस्य स्वप्ने प्रत्यभिज्ञानादतिरिक्तात्मसिद्धिरित्याह -

अहमिति ।

स्वप्नेऽपि स्थूलदेहान्तरस्यैवोपलब्धृत्वमित्याशङ्क्याह -

स्मृत्यादीति ।

उपलब्धृस्मर्त्रोर्भेदे सत्यन्योपलब्धेऽन्यस्य स्मृतिरिच्छादयश्च नेति न तयोरन्यतेत्यर्थः ।

दूषितमपि दोषान्तरं वक्तुमनुभाषते -

यत्त्विति ।

तद्भावाभावित्वव्याख्यानेन प्रत्याख्यातमेतदित्युक्तं स्मारयति -

तदिति ।

अधिकं दोषं दर्शयति -

अपिचेति ।

अनन्यथासिद्धावन्वयव्यतिरेकौ वाच्यौ देहस्य च चैतन्यान्वयव्यतिरेकावधिष्ठानविषयतयाऽन्यथासिद्धाविति सदृष्टान्तं साधयति -

सत्स्विति ।

उपकरणत्वमपि देहस्योपलब्धौ न सिध्यतीत्याह -

नचेति ।

उपलब्धिर्न देहजन्या तस्मिन्नव्याप्रियमाणेऽपि सत्त्वादर्थान्तरवत् । जागरे तु व्यञ्जकजनकतया कथञ्चिदुपयोगमङ्गीकृत्यात्यन्तमित्युक्तम् । स्वप्ने द्रष्टर्यहं पश्यामीत्याद्यबाधिताध्यक्षस्य स्थूलदेहाकारहीनस्य देहातिरिक्तात्मविषयत्वान्न देहात्मवादसिद्धिरिति भावः ।

अनुमानाद्यप्रामाण्यं तु प्रतिज्ञामात्रमिति मत्वोपसंहरति -

तस्मादिति ॥ ५४ ॥