ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
समाप्ता प्रासङ्गिकी कथा; सम्प्रति प्रकृतामेवानुवर्तामहे । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) ‘उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी’ ‘अयं वाव लोकः’ ‘एषोऽग्निश्चितः’(श॰ब्रा॰ १०-१-२-२) इत्येवमाद्या ये उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः, ते तत्तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः, अथवा सर्वशाखागतेषु — इति विशयः । प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यासः । किं तावत्प्राप्तम् ? स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति । कुतः ? सन्निधानात् — ‘उद्गीथमुपासीत’ इति हि सामान्यविहितानां विशेषाकाङ्क्षायां सन्निकृष्टेनैव स्वशाखागतेन विशेषेण आकाङ्क्षानिवृत्तेः, तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति । तस्मात्प्रतिशाखं व्यवस्थेत्येवं प्राप्ते, ब्रवीति — अङ्गावबद्धास्त्विति । तुशब्दः पक्षं व्यावर्तयति । नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् , अपि तु सर्वशाखास्वनुवर्तेरन् । कुतः ? उद्गीथादिश्रुत्यविशेषात् । स्वशाखाव्यवस्थायां हि ‘उद्गीथमुपासीत’ (छा. उ. १ । १ । १) इति सामान्यश्रुतिरविशेषप्रवृत्ता सती सन्निधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् । न चैतन्न्याय्यम् । सन्निधानाद्धि श्रुतिर्बलीयसी । न च सामान्याश्रयः प्रत्ययो नोपपद्यते । तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखागतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः ॥ ५५ ॥

देहभावे भवतश्चैतन्यस्य तद्भावेऽप्यभाववदुद्गीथादिभावे भवत उपासनस्य तद्भावेऽप्यभावमाशङ्क्याह -

अङ्गेति ।

अवान्तरसङ्गतिमाह -

समाप्तेति ।

उद्गीथाद्यङ्गाश्रितोपासनानि विषय इति तत्तद्वाक्योक्त्या दर्शयति -

ओमित्येतदिति ।

इदं वाक्यं व्याप्तेश्चेत्येतदधिकरणे व्याख्यातम् । लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथिव्यादिदृष्ट्या पञ्चविधं सामोपासीतेत्यर्थः । ‘पृथिवी हिङ्कारोऽग्निः स्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम्’ इति । उक्थं कर्माङ्गं शस्त्रमिति वीप्सया यत्प्रजा वदन्ति तदिदमेव येयं पृथिवीत्युक्थे पृथिवीदृष्टिविधिः । चितोऽग्निः कर्माङ्गभूतस्तत्रायं लोक इति दृष्टिरित्यर्थः ।

उद्गीथादिप्रत्ययानुक्तानधिकृत्य प्रकरणादुद्गूथादिशब्दसाधारण्याच्च संशयमाह -

त इति ।

उद्गीथादीनां सर्वशाखास्वैक्यादुपास्तिव्यवस्थाशङ्काभावादनारभ्यमिदमधिकरणमित्याशङ्क्याह -

प्रतीति ।

नीचैष्ट्वादिस्वरभेदादध्ययनधर्मभेदाच्चोद्गीथादेरपि भेदमङ्गीकृत्य विद्याविचार इत्यर्थः । अत्र हि श्रौतेन सामान्येन प्राकरणिकस्य विशेषनियमस्य बाधात्सर्वशाखाविहितप्रधानकर्माङ्गत्वेन प्रयुक्तसर्वोद्गीथादिविशेषेषु तदालम्बनोपास्तीनामुपसंहारोक्त्या सर्वशाखाभिरनुष्ठेयत्वोक्तेर्वाक्यार्थधीहेतोरेव चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षेऽनुष्ठानव्यवस्थासिद्धिः सिद्धान्ते तदव्यवस्थेत्यास्थाय पूर्वपक्षयितुं विमृशति -

किमिति ।

यथा देहात्मनोर्भेदादात्मधर्मा देहे न भवन्त्येवमेकशाखागतोद्गीथधर्माणां भिन्नशाखोद्गीथादौ न प्राप्तिरिति पूर्वपक्षमाह -

स्वशाखेति ।

विद्याचित एवेत्येवश्रुत्या मनश्चिदादीनां क्रियाप्रकरणभङ्गेन पुरुषार्थत्ववदिहाप्युद्गीथादिश्रुतेर्बलीयस्त्वात्तया प्रकरणभङ्गान्नास्त्युपास्तीनां व्यवस्थेत्याह -

कुत इति ।

उद्गीथादिसामान्यश्रुतेः प्रकरणोपनीतविशेषाकाङ्क्षत्वेनाबाधकत्वादुपास्तिव्यवस्था युक्तेति मत्वाह -

संनिधानादिति ।

प्रकरणं विवृणोति -

उद्गीथमिति ।

उद्गीथोक्तचित्याग्नीनां प्रत्ययालम्बनानां वेदत्रयोक्तप्रधानकर्मस्वङ्गत्वेन प्रयुक्तानां प्रतिशाखं स्वारादिभेदेन भेदादुद्गीथादिश्रुतिभिः प्रत्ययालम्बनानामुद्गीथादीनां सामान्येनोपात्तानां विशेषाकाङ्क्षायां तत्तच्छाखास्थप्रधानकर्माङ्गत्वेन प्रयुक्तोद्गीथादिविशेषेषूद्गीथमुपासीतेत्यादिप्रत्ययाः प्रकरणान्नियम्यन्त इत्यर्थः ।

प्रकरणाद्व्यवस्थायां यच्छाखास्थं यदुपासनं ततच्छाखिभिरेवानुष्ठेयमित्युपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

सूत्राक्षराणि योजयति -

तुशब्द इति ।

हिशब्दोपात्तं हेतुं प्रश्नपूर्वकमाह -

कुत इति ।

सामान्यप्रवृत्तश्रुतेर्विशेषाकाङ्क्षायां प्रकरणाद्विशेषनियमो युक्तः ।

प्रकृते तूद्गीथादिसामान्येषूपास्तिसम्भवेन विशेषाकाङ्क्षाभावे श्रौतसामान्येन प्राकरणिकविशेषनियमबाधात्सर्वशाखास्थप्रधानकर्माङ्गत्वेन विनियुक्तोद्गीथादिविशेषु तदालम्बनधियामुपसंहारः स्यादिति हेतुं विवृणोति -

स्वेति ।

प्रकरणेन विशेषार्थे सामान्यश्रुत्यबाधेऽपि सङ्कोचे मानाभावात्सामान्यद्वारा सर्वविशेषगामिश्रुतेरेकस्मिन्विशेषे नियमनं पीडैवेति मत्वोक्तम् -

पीडितेति ।

त्वत्पक्षे श्रुत्या प्रकरणबाधवन्मत्पक्षेऽपि तेन श्रुतिर्बाध्यतामविशेषादित्याशङ्क्याह -

संनिधानादिति ।

सामान्यस्योपास्यत्वायोगाद्विशेषाकाङ्क्षायां तदर्थकं प्रकरणं कथं श्रुत्या बाध्यमित्याशङ्क्याह -

नचेति ।

तथापि प्रतिवेदं स्वरादिभेदेनोद्गीथादिभेदादुपास्तिव्यवस्योक्तेत्याशङ्क्याह -

तस्मादिति ।

श्रुतिप्राबल्यं तच्छब्दार्थः ॥ ५५ ॥