ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
ततोऽभिधीयते — भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यं अस्मिन्वाक्ये विवक्षितं भवितुमर्हति, न प्रत्येकम् अवयवोपासनानामपि; क्रतुवत् — यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते, न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् , नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य — तद्वत् । कुत एतत् — भूमैव ज्यायानिति ? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति, एकवाक्यतावगमात् । एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते । तथा हि — प्राचीनशालप्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानरविद्यायां परिनिष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुः — इत्युपक्रम्य, एकैकस्य ऋषेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा, ‘मूर्धा त्वेष आत्मन इति होवाच’ (छा. उ. ५ । १२ । २) इत्यादिना मूर्धादिभावं तेषां विदधाति । ‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः’ (छा. उ. ५ । १२ । २) इत्यादिना च व्यस्तोपासनमपवदति । पुनश्च व्यस्तोपासनं व्यावर्त्य, समस्तोपासनमेवानुवर्त्य, ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ (छा. उ. ५ । १८ । १) इति भूमाश्रयमेव फलं दर्शयति । यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् , तत् एवं सति अङ्गफलानि प्रधान एवाभ्युपगतानि — इति द्रष्टव्यम् । तथा ‘उपास्से’ इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम् , न व्यस्तोपासनविधानार्थम् । तस्मात्समस्तोपासनपक्ष एव श्रेयानिति ॥

सिद्धान्तसूत्रमवतार्य भूम्नो ज्यायस्त्वमिति प्रतिज्ञां व्याचष्टे -

तत इति ।

समस्तोपासनवद्व्यस्तोपासनमपीष्यतां, तत्राह -

नेति ।

तत्र दृष्टान्तमादाय विभजते -

क्रतुवदिति ।

सामस्त्येनेत्यौत्सर्गिकोक्तिः ।

प्रयाजादीनां प्रत्येकमप्रयोगेऽपि नित्यादीनां किञ्चिद्गुणवतामपि प्रयोगोऽस्तीत्याशङ्क्य काम्येषु नैवमित्याह -

नापीति ।

सर्वाङ्गोपेतकाम्यक्रतोरिष्टत्ववद्वैश्वानरोपासनस्यापि समस्तस्यैव प्राधान्येष्टतेत्याह -

तद्वदिति ।

हेतुं प्रश्नपूर्वकमेव व्याकरोति -

कुत इति ।

साक्षाज्ज्यायत्त्वोक्तिरदृष्टेत्याशङ्क्याह -

एकेति ।

वाक्यप्रकरणाभ्यामेकवाक्यत्वं साधयति -

एकं हीति ।

विहितानामपि व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावान्न पृथक्कार्यतेति मत्वाह -

तथाहीति ।

व्यस्तोपास्त्यपवादश्रुतेश्च समस्तस्यैवोपासनस्य ज्यायस्त्वमित्याह -

मूर्धेति ।

समस्तोपासने वैफल्यान्न तस्य ज्यायस्त्वमित्याशङ्क्याह -

पुनश्चेति ।

व्यस्तोपासनेऽपि फलश्रवणमस्तीत्युक्तं, तत्राह -

यत्त्विति ।

व्यस्तोपास्तीनां प्रकरणवाक्याभ्यां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शपूर्णमासवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकीकरणेन समस्तोपास्तिरेव ज्यायसीत्याह -

तदिति ।

प्रत्यवयवमुपास्तिविधिश्रुतेर्व्यस्तोपास्तिर्भातीत्युक्तमित्याशङ्क्याह -

तथेति ।

औपमन्यवाद्यवगतरूपानुवादेन समस्तोपास्तिरेवात्र विधित्सितेत्यर्थः ।

स्वपक्षमुपसंहरति -

तस्मादिति ।