ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य, ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कल्पयन्तितदयुक्तम् , एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् , मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २) इति एवमादिनिन्दाविरोधात् , स्पष्टे उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् , सौत्रस्य ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्यमानत्वात् ॥ ५७ ॥

एकदेशिव्याख्यामनूद्य दूषयति -

केचित्त्विति ।

किलकारोऽनिच्छायाम् ।

एकावाक्यताभङ्गेन वाक्यभेदं कृत्वा व्यस्तोपासनान्यपि पृथग्विधीयन्तामित्याशङ्क्याह -

मूर्धेति ।

यदोभयथोपास्तिः सिद्धान्तस्तदा व्यस्तोपास्तिरेवात्र समस्तोपास्तिरेव वा पूर्वपक्षः स्यान्नाद्य इत्याह -

स्पष्टे चेति ।

द्वितीयश्च तवायुक्तो वाक्योपक्रमस्थव्यस्तोपास्तिधीविरोधात्समस्तोपास्तिविध्यर्थं पराभिप्रायानुवादे सिद्धान्तादविशेषादिति भावः ।

समस्तोपास्तिरेव कार्या न व्यास्तोपास्तिरित्यत्र किमपेक्ष्य सौत्रं ज्यायस्त्ववचनं, तत्राह -

सौत्रस्येति ।

समस्तोपास्तेर्मानवत्त्वोक्त्या व्यस्तोपास्तेर्वाक्यतात्पर्याविषयत्वेनाप्रामाणिकत्वं द्योतयितुं सूत्रे भूम्नो ज्यायस्त्वमुक्तम् । अतः समस्तोपास्तिरेव कार्येत्येकवाक्यता सिद्धेत्यर्थः ॥ ५७ ॥